शुक उवाच॥
विश्वास-प्रस्तुतिः
प्रत्यब्रुवन् पुनः सूतमृषयस्ते तपोधनाः।
कुत्र सत्रं समभवत् तेषामद्भुतकर्मणाम् ॥१॥
मूलम्

कियन्तं चैव तत्कालं कथं च समवर्त्तत।
आचचक्ष पुराणं च कथं तेभ्यः प्रभञ्चनः ॥२॥

आचक्ष्व विस्तरेणेदं परं कौतूहलं हि नः।
इति सन्नोदितः सूतः प्रत्युवाच शुभं वचः ॥३॥

श्रृणुध्वं यत्र ते धीरा ईजिरे सत्रमुत्तमम्।
यावन्तं चाभवत् कालं यथा च समवर्तत ॥४॥

सिसृक्षमाणा विश्वं हि यत्र विश्वसृजः पुरा।
सत्रं हि ईजिरे पुण्यं सहस्रं परिवत्सरान् ॥५॥

तपो गृहपतिर्यत्र ब्रह्मा ब्रह्माऽभवत् स्वयम्।
इलाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान्।
मृत्युश्चक्रे महातेजास्तस्मिन् सत्रे महात्मनाम् ॥६॥

विबुधा ईजिरे तत्र सहस्रं प्रतिवत्सरान्।
भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत।
कर्मणा तेन विख्यात नैमिषं मुनिपूजितम् ॥७॥

यत्र सा गोमती पुण्या सिद्धचारण सेविता।
रोहिणी सुषुवे तत्र ततः सौम्योऽभवत् सुतः ॥८॥

शक्तिर्ज्येष्ठः समभवद्वसिष्ठस्य महात्मनः।
अरुन्धत्याः सुता यत्र शतमुत्तमतेजसः ॥९॥

कल्माषपादो नृपतिर्यत्र शप्तश्च शक्तिना।
यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः ॥१०॥

अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः।
पराभवो वसिष्ठस्य यस्मिन् जातेऽप्यवर्त्तत ॥११॥

तत्र ते ईजिरे सत्रं नैमिषे ब्रह्मवादिनः।
नैमिषे ईजिरे यत्र नैमिषेयास्ततः स्मृताः ॥१२॥

तत्सत्रमभवत्तेषां समा द्वादश धीमताम्।
पुरूरवसि विक्रान्ते प्रशासति वसुन्धराम् ॥१३॥

अष्टादश समुद्रस्य द्वीपानश्नन् पुरूरवाः।
तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम् ॥१४॥

उर्वशी चकमे यं च देवहूतिप्रणोदिता।
आजहार च तत्सत्रं स्वर्वेश्यासहसङ्गतः ॥१५॥

तस्मिन्नरपतौ सत्रं नैमिषेयाः प्रचक्रिरे।
यं गर्भे सुषुवे गङ्गा पावकाद्दीप्ततेजसम्।
तदुल्बं पर्वते न्यस्तं हिरण्यं प्रत्यपद्यत ॥१६॥

हिरण्मयं ततश्चक्रे यज्ञवाटं महात्मनाम्।
विश्वकर्मा स्वयं देवो भावयन् लोकभावनम् ॥१७॥

बृहस्पतिस्ततस्तत्र तेषाममिततेजसाम्।
ऐलः पुरूरवा भेजे तं देशं मृगयां चरन् ॥१८॥

तं दृष्ट्वा महदाश्चार्यं यज्ञवाटं हिरण्मयम्।
लोभेन हतविज्ञानस्तदादातुं प्रचक्रमे ॥१९॥

नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतेर्भृशम्।
निजघ्नुश्चापि सङ्क्रुद्धाः कुशवज्रैर्मनीषिणः।
ततो निशान्ते राजानं मुनयो दैवनोदिताः ॥२०॥

कुशवज्रैर्विनिष्पिष्टः स राजा व्यजहात्तनुम् ।
और्वशेयं ततस्तस्य पुत्रञ्चक्रुर्नृपं भुवि ॥२१॥

नहुषस्य महात्मानं पितरं यं प्रचक्षते।
स तेषु वर्त्तते सम्यग् धर्मशीलो महीपतिः।
आयुरारोग्यमत्युग्रं तस्मिन् स नरसत्तमः ॥२२॥

सान्त्वयित्वा च राजानं ततो ब्रह्मविदां वराः।
सत्रमारेभिरे कर्त्तुं यथावद्धर्मभूतये ॥२३॥

बभूव सत्रं तत्तेषां बह्वाश्चर्यं महात्मनाम्।
विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥२४॥

वैखानसैः प्रियसखैर्वालखिल्यैर्मरीचिकैः।
अन्यैश्च मुनिभिर्जुष्टं सूर्यवैश्वानरप्रभैः ॥२५॥

पितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः।
सम्भारैस्तु शुभैर्जुष्टं तैरेवेन्द्रसदो यथा ॥२६॥

स्तोत्रसत्रग्रहैर्देवान् पितृन् पित्र्यैश्च कर्मभिः।
आनर्चुश्च यथाजाति गन्धर्वादीन् यथाविधि ॥२७॥

आराधयितुमिच्छन्तस्ततः कर्मान्तरेष्वथ।
जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः ॥२८॥

व्याजहुर्मुनयो वाचं चित्राक्षरपदां शुभाम्।
मन्त्रादितत्त्वविद्वांसो जगदुश्च परस्परम् ॥२९॥

वितण्डावचनाश्चैके निजघ्नुः प्रतिवादिनः।
ऋषयस्तत्र विद्वांसः साङ्ख्यार्थन्यायकोविदाः ॥३०॥

न तत्र दुरितं किञ्चिद्विदधुर्ब्रह्मराक्षसाः।
न च यज्ञहनो दैत्या न च यज्ञमुषोऽसुराः ॥३१॥

प्रायश्चित्तं दुरिष्टं वा न तत्र समजायत।
शक्तिप्रज्ञा क्रियायोगैर्विधिरासीत् स्वनुष्ठितः ॥३२॥

एवं वितेनिरे सत्रं द्वादशाब्दं मनीषिणः।
भृग्वाद्या ऋषयो धीरा ज्योतिष्टोमान् पृथक् पृथक्।
चक्रिरे पृष्ठगमनान् सर्वानयुतदक्षिणान् ॥३३॥

समाप्तयज्ञास्ते सर्वे वायुमेव महाधिपम्।
पप्रच्छुरमितात्मानं भवद्भिर्यदहं द्विजाः।
प्रणोदितश्च वंशार्थं स च तानब्रवीत्प्रभुः ॥३४॥

शिष्यः स्वयम्भुवो देवः सर्वप्रत्यक्षदृग्वशी।
अणिमादिभिरष्टाभिरैश्वर्यैर्यः समन्वितः ॥३५॥

तिर्यग्योन्यादिभिर्धर्मैः सर्वलोकान्बिभर्त्ति यः।
सप्तस्कन्धादिकं शश्वत् प्लवते योजनाद्वरः ॥३६॥

विषये नियता यस्य संस्थिताः सप्तका गणाः।
व्यूहांस्त्रयाणां भूतानां कुर्वन् यश्च महाबलः।
तेजसश्चात्त्युपध्यानन्दधातीमं शरीरिणम् ॥३७॥

प्राणाद्या वृत्तयः पञ्च करणानां च वृत्तिभिः।
प्रेर्यमाणाः शरीराणां कुर्वते यास्तु धारणम् ॥३८॥

आकाशयोनिर्हि गुणः शब्दस्पर्शसमन्वितः।
तैजसप्रकृतिश्चोक्तोऽप्ययं भावो मनीषिभिः ॥३९॥

तत्राभि मानी भगवान् वायुश्चातिक्रियात्मकः।
वातारणिः समाख्यातः शब्दशास्त्रविशारदः ॥४०॥

भारत्या श्लक्ष्णया सर्वान् मुनीन् प्रह्लादयन्निव।
पुराणज्ञः सुमनसः पुराणाश्रययुक्तया ॥४१॥