०१९

॥ वायुरुवाच ॥

विश्वास-प्रस्तुतिः

अत ऊर्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत।
येन ज्ञानविशेषेण मृत्युं पश्यति चात्मनः ॥ १९.१ ॥

मूलम्

अरुन्धतीं ध्रुवञ्चैव सोमच्छायां महापथम्।
यो न पश्येत्स नो जीवेन्नरः संवत्सरात्परम् ॥ १९.२ ॥

अरश्मिवन्तमादित्यं रश्मिवन्तञ्च पावकम्।
यः पश्येन्न च जीवेत मासादेकादशात्परम् ॥ १९.३ ॥

वमेन्मूत्रं करीषं वा सुवर्णं रजतं तथा।
प्रत्यक्षमथ वा स्वप्ने दशमासान् स जीवति ॥ १९.४ ॥

अग्रतः पृष्ठतो वापि खण्टं यस्य पदम्भवेत्।
पांसुले कर्दमे वापि सप्तमासान् स जीवति ॥ १९.५ ॥

काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्द्धनि।
क्रव्यादो वा खगः कश्चित् षण्मासान्नातिवर्त्तते ॥ १९.६ ॥

बध्ये द्वायसपङ्क्तीभिः पांशुवर्षैण वा पुनः।
छायां वा विकृतां पश्येच्चतुःपञ्च स जीवति ॥ १९.७ ॥

अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमाश्रिताम्।
उदकेन्द्रध नुर्वापि त्रयो द्वौवा स जीवति ॥ १९.८ ॥

अप्सु वा यदि वाऽऽदर्शे आत्मानं यो न पश्यति।
अशिरस्कं तथात्मानं मासादूर्ध्वं न जीवति ॥ १९.९ ॥

शवगन्धि भवेद्गात्रं वसागन्धि ह्यथापि वा।
मृत्युर्ह्युपस्थितस्तस्य अर्द्धमासं स जीवति ॥ १९.१० ॥

सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।
अद्भिः स्पृष्टो न दृष्येच्च तस्य मृत्युरुपस्थितः ॥ १९.११ ॥

ऋक्षवानरयुक्तेन रथेनाशान्तु दक्षिणाम् ।
गायन्नथ व्रजेत् स्वप्ने विद्यान्मृत्युरुपस्थितः ॥ १९.१२ ॥

कृष्णाम्ब रधरा श्यामा गायन्ती वाथ चाङ्गना।
यन्नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ॥ १९.१३ ॥

छिद्रं वासशचव कृष्णञ्च स्वप्रे यो विधृयान्नरः ।
भग्नं वा श्रवणं दृष्ट्वा विद्यान्मृत्युरुपस्थितः ॥ १९.१४ ॥

आमस्तकतलाद्यस्तु निमज्जेत्पङ्कसागरे।
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥ १९.१५ ॥

भस्माङ्गाराश्च केशांश्च नदीं शुष्कां भुजङ्गमान्।
पश्येद्यो दशरात्रन्तु न स जीवेत तादृशः ॥ १९.१६ ॥

कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः।
पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवति ॥ १९.१७ ॥

सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा।
क्रोशन्ती सम्मुखाभ्येति म गतायुर्भवेन्नरः ॥ १९.१८ ॥

यस्य वै स्रातमात्रस्य हृदयं पीङ्यते भृशम्।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥ १९.१९ ॥

भूयो भूयः श्वसेद्यस्तु रात्रौ वा यदि वा दिवा।
दीपगन्धञ्च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ॥ १९.२० ॥

रात्रौ चेन्द्रायुधं पश्येद्दिवा नक्षत्रमण्डलम्।
परनेत्रेषु चात्मानं न पश्येन्न स जीवति ॥ १९.२१ ॥

नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः।
नासा च वक्रा भवति स ज्ञेयो गतजीवितः ॥ १९.२२ ॥

यस्य कृष्णा खरा जिह्वा पङ्कभासञ्च वै मुखम्।
गण्डे चिपिटके रक्ते तस्य मृत्युरुपस्थितः ॥ १९.२३ ॥

मुक्तकेशो हसंश्चैव गायन् नृत्यंश्च यो नरः।
याम्याशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ॥ १९.२४ ॥

यस्य स्वेदसमुद्भूताः श्वेतसर्षपसन्निभाः।
स्वेदा भवन्ति ह्यसकृत्तस्य मृत्युरुपश्थितः ॥ १९.२५ ॥

उष्ठ्रा वा रासभा वापि युक्ताः स्व्परे रथेऽशुभाः।
यस्य सोपि न जीवेत दक्षिणाभिमुखो गतः ॥ १९.२६ ॥

द्वे चात्र परमेऽरिष्टे एतद्रूपं परं भवेत्।
घोषं न श्रृणुयात् कर्णे ज्योतिर्नेत्रे न पश्यति ॥ १९.२७ ॥

श्वभ्रेयो निपतेत् स्वप्ने द्वारञ्चास्य न विद्यते।
न चोतिष्ठति यः श्वब्रात्तदन्तं तस्य जीवितम् ॥ १९.२८ ॥

ऊर्ध्वा च दृष्टिर्न च सम्प्रतिष्ठा रक्ता पुनः सम्परिवर्त्तमाना।
मुखस्य चोष्मा मुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ॥ १९.२९ ॥

दिवा वा यति वा रात्रौ प्रत्यक्षं योऽभिहन्यते।
तं पश्येदथ हन्तारं स हतस्तु न जीवति ॥ १९.३० ॥

अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः।
स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ॥ १९.३१ ॥

यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः।
रक्तं कृष्णमपि स्वप्ने तस्य मृत्युरुपस्थितः ॥ १९.३२ ॥

अरिष्टसूचिते देहे तस्मिन् काल उपागते।
त्यक्त्वा भयविषादञ्च उद्गच्छेदूभुद्धिमान्नरः ॥ १९.३३ ॥

प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै शुचिः।
समेऽतिस्थावरे देशे विविक्ते जनवर्ज्जिते ॥ १९.३४ ॥

उदङ्मुखः प्राङ्मुखो वा स्वस्थः स्वाचान्त एव च।
स्वस्तिकोपनिविष्टश्च नमस्कृत्य महेश्वरम्।
समकायशिरोग्रीवं धार्येन्नावलोकयेत् ॥ १९.३५ ॥

यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता।
प्रागुदक्प्रवणे देशे तस्माद्युञ्जीत योगवित् ॥ १९.३६ ॥

प्राणे च रमते नित्यं चक्षुषोः स्पर्शने तथा।
श्रोत्रे मनसि बुद्धौ च तथा वक्षसि धारयेत्।
न तस्य धारणायोगाद्वायुः सर्वं प्रवर्त्तते ॥ १९.३७ ॥

कालघर्मझ्च विज्ञाय समूहञ्चैव सर्वशः।
द्वादशाध्यात्ममित्येवं योगधारणमुच्यते ॥ १९.३८ ॥

शतमष्ट शतं वापि धारणां मूर्ध्नि धारयेत्।
न तस्य धारणायोगाद्वायुः सर्वं प्रवर्तते ॥ १९.३९ ॥

ततस्त्वापूरयेद्देहमोङ्कारेण समाहितः।
अथोङ्कारमयो योगी न क्षरेत्त्वक्षरी भवेत् । १९.४० ॥

इति श्रीमहापुराणे वायुप्रोक्ते अरिष्टानि नामैकोनविंशोऽध्यायः ॥ १९ ॥