॥ वायुरुवाच ॥
विश्वास-प्रस्तुतिः
अत ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चयम्।
प्रायश्चित्तानि तत्त्वेन यान्यकामकृतानि तु।
अथ कामकृतेप्याहुः सूक्ष्मधर्मविदो जनाः ॥ १८.१ ॥
मूलम्

पापञ्च त्रिविधं प्रोक्तं वाङ्मनःकायसम्भवम्।
सततं हिदिवा रात्रौ येनेदं बध्यते जगत् ॥ १८.२ ॥

न कर्माणि न चाप्येष तिष्ठ तीतिपरा श्रुतिः।
क्षणमेव प्रयोज्यन्तु आयुषस्तु विधारणात् ॥ १८.३ ॥

भवेद्धीरोऽप्रमत्तस्तु योगो हि परमं बलम्।
न हि योगात्परं किञ्चिन्नराणामिह दृश्यते।
तस्माद्योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः ॥ १८.४ ॥

अविद्यां विद्यया तीर्त्वा प्राप्यैश्वयर्मनुत्तमम्।
दृष्ट्वा परापरं धीराः परं गच्छन्ति तत्पदम् ॥ १८.५ ॥

व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च।
एकैकापक्रमे तेषां प्रायश्चित्तं विधीयते ॥ १८.६ ॥

उपेत्य तु स्त्रियं कामात् प्रायश्चित्तं विनिर्दिशेत् ।
प्राणायामसमायुक्तं कुर्यात्सान्तपनं तथा ॥ १८.७ ॥

तत श्चरति निर्द्देशं कृच्छ्रस्यान्ते समाहितः।
पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः ।
न मर्मयुक्तं वचनं हिनस्तीति मनीषिणः ॥ १८.८ ॥

तथापि च न कर्त्तव्यः प्रसङ्गो ह्येष दारुणः।
अहोरात्राधिकः कश्चिन्नास्त्यधर्म इति श्रुतिः ॥ १८.९ ॥

हिंसा ह्येषा परा सृष्टा दैवतैर्मुनिभिस्तथा।
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः।
स तस्य हरति प्राणान् यो यस्य हरते धनम् ॥ १८.१० ॥

एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ॥ १८.११ ॥

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः।
ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ॥ १८.१२ ॥

अहिंसा सर्वभूतानां कर्मणा मनसा गिरा ।
अकामादपि हिंसेत यदि भिक्षुः पशून् मृगान्।
कृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथीपि वा ॥ १८.१३ ॥

स्कन्देदिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि।
तेन धारयितव्या वै प्राणायामास्तु षोडश ॥ १८.१४ ॥

दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते।
त्रिरात्रमुपवासश्च प्राणायामशतं तथा ॥ १८.१५ ॥

रात्रौ स्कन्नः शुचिः स्रातोद्वादशैव तु धारणाः।
प्राणायामेन शुद्धात्मा विरजा जायते द्विजः ॥ १८.१६ ॥

एकान्नं मधु मांसं वा ह्यामश्राद्धं तथैव च।
अभोज्यानि यतीनाञ्च प्रत्यक्षलवणानि च ॥ १८.१७ ॥

एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते।
प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते ॥ १८.१८ ॥

व्यतिक्रमाच्च ये केचिद्वाङ्मनःकायसम्भवम्।
सद्भिः सह विनिश्चित्य यद्ब्रूयुस्तत्समाचरेत् ॥ १८.१९ ॥

विशुद्धबुद्धिः समलोष्टकाञ्चनः समस्तभूतेषु चरन् स माहितः ।
स्थानं ध्रुवं शाश्वतमव्ययं सतां परं स गत्वा न पुनर्हि जायते ॥ १८.२० ॥