॥ वायुरुवाच ॥
विश्वास-प्रस्तुतिः
आश्रमत्रयमुत्सृज्य प्राप्तस्तु परमाश्रमम्।
अतः संवत्सरस्यान्ते प्राप्य ज्ञानमनुत्तमम् ॥ १७.१ ॥
मूलम्

अनुज्ञाप्य गुरूञ्चैव विचरेत् पृथिवीमिमाम्।
सारभूतमुपासीत ज्ञानं यज्ज्ञेय साधकम् ॥ १७.२ ॥

इदं ज्ञानमिदं ज्ञेयमिति यस्तुषितश्चरेत् ।
अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात् ॥ १७.३ ॥

त्यक्तसङ्गो जितकोधो लघ्वाहारो जितेन्द्रियः।
पिधाय बुद्ध्या द्वाराणि ध्याने ह्येवं मनो दधेत् ॥ १७.४ ॥

शून्येष्वेवावकाशेषु गुहासु चवने तथा।
नदीनां पुलिने चैव नित्यं युक्तः सदा भवेत् ॥ १७.५ ॥

वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः।
यस्यैते नियता दण्डाः स त्रिदण्डी व्यवस्थितः ॥ १७.६ ॥

अवस्थितो ध्यानरतिर्जितेन्द्रियः शुभाशुभे हित्य च कर्मणी उभे ।
इदं शरीरं प्रविमुच्य शास्त्रतो न जायते म्रियते वा कदाचित् ॥ १७.७ ॥

इति श्रीमहापुराणे वायुप्रोक्ते परमाश्रमप्राप्तिकथनं नाम सप्तदशोऽध्यायः ॥ १७ ॥