०१६

॥ वायुरुवाच ॥

विश्वास-प्रस्तुतिः

अत ऊद्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम्।
यदनुष्ठाय शुद्धात्मा प्रेत्य स्वर्गं हि चाप्नुयात् ॥ १६.१ ॥

मूलम्

उदकार्थी तु शौचानां मुनीनामुत्तमं पदम् ।
यस्तु तेष्वप्रमत्तः स्यात् स मुनिर्नावसीदति ॥ १६.२ ॥

मानावमानौ द्वोवेतौ तावेवाहुर्विषामृते ।
अवमानं विषं तत्र मानन्त्वमृतमुच्यते ॥ १६.३ ॥

यस्तु तेष्वप्रमत्तः स्यात् स मुनिर्नावसीदति ।
गुरोः प्रियहिते युक्तः स तु संवत्सरं वसेत् ॥ १६.४ ॥

नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् ।
प्राप्यानुज्ञान्ततश्चैव ज्ञानागमनमुत्तमम्।
अविरोधेन धर्मस्य विचरेत् पृथिवीमिमाम् ॥ १६.५ ॥

चक्षुः पूतं व्रजेन्मार्गं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेद्वाणीमिति धर्मानुशासनम् ॥ १६.६ ॥

आतिथ्यं श्राद्धयज्ञेषु न गच्छेद्योगवित् व्कचित्।
एवं ह्यहिंसको योगी भवेदिति विचारणा ॥ १६.७ ॥

वह्नौ विधूमे व्यङ्गारे सर्वृस्मिन् भुक्तवज्जने।
विचरेन्मतिमान् योगी न तु तेष्वेव नित्यशः ॥ १६.८ ॥

यथैवमवमन्यन्ते यथा परिभवन्ति च।
युक्तस्तथा चरेद्भैक्षं सतां धर्ममदूषयन् ॥ १६.९ ॥

भैक्षं चरेद्गृहस्थेषु यथाचारगृहेषु च।
श्रेष्ठा तु परमा चेयं वृत्तिरस्योपदिश्यते ॥ १६.१० ॥

अत ऊर्ध्वं गृहस्थेषु शालीनेषु चरेद्‌द्विजः।
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ १६.११ ॥

अत ऊर्ध्वं पुनश्चापि अदुष्टपतितेषु च।
भैक्षचर्या विवर्णेषु जघन्या वृत्तिरुच्यते ॥ १६.१२ ॥

भैक्षं यवागूं तक्रं वा पयो यावकमेव च।
फळमूलं विपव्कं वा पिण्याकं शक्तितोपि वा ॥ १६.१३ ॥

इत्येते वै मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः।
आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्षमिति स्मृतम् ॥ १६.१४ ॥

अब्बिन्दुं यः कुशाग्रेण मासे मासे समश्नुते।
न्यायतो यस्तु भिक्षेत स पूर्वोक्ताद्विशिष्यते ॥ १६.१५ ॥

योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं स्मृतम् ।
एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत् ॥ १६.१६ ॥

अस्तेयं ब्रह्मचर्यञ्च अलोभस्त्याग एव च।
व्रतानि चैव भिक्षूणामहिंसा परमार्थिता ॥ १६.१७ ॥

अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम्।
नित्यंस्वाध्याय इत्येते नियमाः परिकीर्तिताः ॥ १६.१८ ॥

बीचयोनिर्गुणवपुर्बद्धः कर्मभिरेव च।
यथा द्विप इवारण्ये मनुष्याणां विधीयते ॥ १६.१९ ॥

प्राप्यते वाचिरादेवाङ्कुशेनेव निवारितः।
एवं ज्ञानेन शुद्धेन दग्धबीचो ह्यकल्मषः।
विमुक्तबन्धः शान्तोऽसौ मुक्त इत्यभिधीयते ॥ १६.२० ॥

वेदैस्तुत्या सर्वयज्ञक्रियास्तु यज्ञे जप्यं ज्ञानिनामाहुरग्रयम्।
ज्ञानाद्धयानं सङ्गरागव्यपेतं तस्मिन् प्राप्ते शाश्वतस्योपलब्धिः ॥ १६.२१ ॥

दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेष्वथार्ज्जवम्।
अतीन्द्रियज्ञानमिदं तथार्ज्जवं प्राहुस्तथा ज्ञानविशुद्धसत्त्वाः ॥ १६.२२ ॥

समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैवात्मरतिर्जीतेन्द्रियः।
समाप्नुयुर्योगमिमं महाधियो महर्षयश्चैवमनिन्दितामलाः ॥ १६.२३ ॥

इति श्रीमहापुराणे वायु प्रोक्ते शौचाचारलक्षणं नाम षोडशोऽध्यायः ॥ १६ ॥