०१४

॥ वायुरुवाच ॥

विश्वास-प्रस्तुतिः

न चैवमागतो ज्ञानाद्रागात् कर्म समाचरेत्।
राजसं तामसं वापि भुक्त्वा तत्रैव युज्यते ॥ १४.१ ॥

मूलम्

तथा सुकृतकर्मा तु फलं स्वर्गे समश्रुते।
तस्मात् स्थानात् पुनर्भ्रष्टो मानुष्यमनुपद्यते ॥ १४.२ ॥

तस्माद्ब्रह्म परं सूक्ष्मं ब्रह्म शाश्वतमुच्यते।
ब्रह्म एव हि सेवेत ब्रह्मैव परमं सुखम् ॥ १४.३ ॥

परिश्रमस्तु यज्ञानां महतार्थेन वर्त्तते।
भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम् ॥ १४.४ ॥

अथ वै ध्यानसंयुक्तो ब्रह्मयज्ञपरायणः ।
न स स्याद् व्यापितुं शक्यो मन्वन्तरशतैरपि ॥ १४.५ ॥

दृष्ट्वा तु पुरुषं दिव्यं विश्वाख्यं विश्वरूपिणम्।
विश्वपाद शिरोग्रीवं विश्वेशं विश्वभावनम्।
विश्वगन्धं विश्वमाल्यं विश्वाम्बरधरं प्रभुम् ॥ १४.६ ॥

गोभिर्मही संयतते पतत्रिणं महात्मानं परममतिं वरेण्यम्।
कविं पुराणमनुशासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम्।
योगेन पश्यन्ति न चक्षुषा तं निरिन्द्रियं पुरुषं रुक्मवर्णम् ॥ १४.७ ॥

अलिङ्गिनं पुरुषं रुक्मवर्णं सलिङ्गिनं निर्गुणं चेतनं च।
नित्यं सदा सर्वगतन्तु शौचं पश्यन्ति युक्त्या ह्यचलं प्रकाशम् ॥ १४.८ ॥

तद्भावितस्तेजसा दीप्यमानः अपाणिपादोदरपार्श्वजिह्वः।
अतीन्द्रियोऽद्यापि सुसूक्ष्म एकः पश्यत्यचक्षुः स श्रृणोत्यकर्णः ॥ १४.९ ॥

नास्यास्त्यबुद्धं न च बुद्धिरस्ति स वेद सर्वं न च वेदवेद्यः।
तमाहुरग्र्यं पुरुषं महान्तं सचेतनं सर्वगतं सुसूक्ष्मम् ॥ १४.१० ॥

तामाहुर्मुनयः सर्वे लोके प्रसवधर्मिणीम्।
प्रकृतिं सर्वभूतानां युक्ताः पश्यन्ति चेतसा ॥ १४.११ ॥

सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम्।
सर्वतः श्रुति (म) माल्ँलोके सर्वमावृत्य तिष्ठति ॥ १४.१२ ॥

युक्ता योगेन चेशानं सर्वतश्च सनातनम्।
पुरुषं सर्वभूतानां तस्माद्ध्याता न मुह्यते ॥ १४.१३ ॥

भूतात्मानं महात्मानं परमात्मानमव्ययम्।
सर्वात्मानं परं ब्रह्म तद्वै ध्यात्वा न मुह्यति ॥ १४.१४ ॥

पवनो हि यथा ग्राह्यो विचरन् सर्वमूर्तिषु।
पुरि शेते तथाभ्रे च तस्मात् पुरुष उच्यते।
अथ चेल्लुप्तधर्मात्तु सविशेषैश्च कर्माभिः ॥ १४.१५ ॥

ततस्तु ब्रह्म योन्यां वै शुक्रशोणितसंयुतम्।
स्त्रीपुमांसप्रयोगेण जायते हि पुनः पुनः ॥ १४.१६ ॥

ततस्तु गर्भकाले तु कलनं नाम जायते।
कालेन कलनञ्चापि बुद्बुदश्च प्रजायते ॥ १४.१७ ॥

मृत्पिण्डस्तु यथा चक्रे चक्रवातेन पीडितः।
हस्ताभ्यां क्रियमाणस्तु विश्वत्वमुपगच्छति ॥ १४.१८ ॥

एवमात्मास्थिसंयुक्तो वायुना समुदीरितः।
जायते मानुषस्तत्र यथा रूपं तथा मनः ॥ १४.१९ ॥

वायुः सम्भवते तेषां वातात् सञ्जायते जलम्।
जलात्सम्भवति प्राणः प्राणाच्छुक्रं विवर्द्धते ॥ १४.२० ॥

रक्तभागास्त्रयस्त्रिंशच्छुक्र भागाश्चतुर्द्दश।
भागतोऽर्द्धपलं कृत्वा ततो गर्भे निषेवते ॥ १४.२१ ॥

ततस्तु गर्भसंयुक्तः पञ्चभिर्वायुभिर्वृतः।
पितुः शरीरात् प्रत्यङ्गरूपमस्योपजायते ॥ १४.२२ ॥

ततोऽस्य मातुराहारात् पीतलीढप्रवेशितम्।
नाभि स्रोतःप्रवेशेन प्राणाधारो हि देहिनाम् ॥ १४.२३ ॥

नवमासान् परिक्लिष्टः संवेष्टितशिरोधरः ।
वेष्टितः सर्वगात्रैश्च अपर्यायक्रमागतः।
नवमासोषितश्चैव योनिच्छिद्रादवाङ्‌मुखः ॥ १४.२४ ॥

ततस्तु कर्मभिः पापैर्निरयं प्रतिपद्यते।
असिपत्रवनञ्चैव शाल्मलीच्छेदभेदयोः ॥ १४.२५ ॥

तत्र निर्भर्त्सनञ्चैव तथा शोणितभोजनम् ।
एतास्तु यातन् घोराः कुम्भीपाकसुदुःसहाः ॥ १४.२६ ॥

यथा ह्यापस्तु विच्छिन्नाः स्वरूपमुपयान्ति वै ।
तस्माच्छिन्नाश्च भिन्नाश्च यातनास्थानमागतः ॥ १४.२७ ॥

एवं जीवस्तु तैः पापैस्तप्यमानः स्वयं कृतैः ।
प्राप्नुयात् कर्मभिर्दुःखं शेषं वा यादि चेतरम् ॥ १४.२८ ॥

एकेनैव तु गन्तव्यं सर्वमृत्युनिवेशनम्।
एकनैव च भोक्तव्यं तस्मात् सुकृतमाचरेत् ॥ १४.२९ ॥

न ह्येनं प्रस्थितं कश्चिद्गच्छन्तमनुगच्छति।
यदनेन कृतं कर्म तदेनमनुगच्छति ॥ १४.३० ॥

ते नित्यं यमविषये विभिन्नदेहाः क्रोशन्तः सततमनिष्टसम्प्रयोगैः।
शुष्यन्ते परिगतवेदनाशरीराः बह्वीभिः सुभृशमधर्मयातनाभिः ॥ १४.३१ ॥

कर्मणाः मनसा वाचा यदभीष्टं निषेव्यते।
तत् प्रसद्य हरेत् पापं तस्मात्‌ सुकृतमाचरेत् ॥ १४.३२ ॥

यादृग् जातानि पापानि पूर्वं कर्माणि देहिनः।
संसारं तामसं तादृक् षह्‌विधं प्रतिपद्यते ॥ १४.३३ ॥

मानुष्यं पशुभावञ्च पशुभावान्मृगो भवेत्।
मृगत्वात् पक्षिभावन्तु तस्माच्चैव सरीसृपः ॥ १४.३४ ॥

सरीसृपत्वाद्गच्छोद्धि।
स्थावरत्वन्न संशयः।
स्थावरत्वं पुनः प्राप्तो

विश्वास-प्रस्तुतिः

यावदुन्मिषते नरः।
कुलालचकवद्भान्तस्तत्रैवपरिकीर्तितः ॥ १४.३५ ॥

इत्येवं हि मनुष्यादिः संसारे स्थावरान्तके।
विज्ञेयस्तामसो नाम तत्रैव परिवर्त्तते ॥ १४.३६ ॥

सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्त्तितः।
पिशाचान्तः सविज्ञेयः स्वर्गस्थानेषु देहिनाम् ॥ १४.३७ ॥

ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः।
चतुर्द्दशानां स्थानानां मध्ये विष्टम्भकं रजः।
मर्मसु च्छिद्यमानेषु वेदनार्त्तस्य देहिनः ॥ १४.३८ ॥

ततस्तु परमं ब्रह्म कथं विप्रः स्मरिष्यति ।
संस्कारात् पूर्वधर्मस्य भावनायां प्रणोदितः।
मानुष्यं भजते नित्यं तस्मान्नित्यं समादधेत् ॥ १४.३९ ॥

इति श्रीमहापुराणे वायुप्रोक्ते पाशुपतयोगो नाम चतुर्द्दशोऽध्यायः ॥ १४ ॥