॥ वायुरुवाच ॥
विश्वास-प्रस्तुतिः
एकं महान्तं दिवसमहोरात्रमथापि वा।
अर्द्धमासं तथा मासमयनाब्दयुगानि च ॥ ११.१ ॥
मूलम्

महायुगसहस्राणि ऋषयस्तपसि स्थिताः।
उपासते महात्मानः प्राणं दिव्येन चक्षुषा ॥ ११.२ ॥

अतऊर्ध्वं प्रवक्ष्यामि प्राणायामप्रयोजनम्।
फलञ्चैव विशेषेण यथाह भगवान् प्रभुः ॥ ११.३ ॥

प्रयोजनानि चत्वारि प्राणायामस्य विद्धिवै।
शान्तिः प्रशान्तिर्दीप्तिश्च प्रसादश्च चतुष्टयम् ॥ ११.४ ॥

घोराकारशिवानान्तु कर्मणां फलसम्भवम्।
स्वयङ्कृतानि कालेन इहामुत्र च देहिनाम् ॥ ११.५ ॥

पितृमातृ प्रदुष्टानां ज्ञातिसम्बन्धिसङ्करैः।
क्षपणं हि कषायाणां पापानां शान्तिरुच्यते ॥ ११.६ ॥

लोभमानात्मकानां हि पापानामपि संयमः ।
इहामुत्र हितार्थाय प्रशान्तिस्तप उच्यते ॥ ११.७ ॥

सूर्येन्दुग्रहताराणां तुल्यस्तु विषयो भवेत्।
ऋषीणाञ्च प्रसिद्धानां ज्ञानविज्ञानसम्पदाम् ॥ ११.८ ॥

अतीतानागतानाञ्च दर्शनं साम्प्रतस्य च ।
बुद्धस्य समतां यान्ति दीप्तिः स्यात्तप उच्यते ॥ ११.९ ॥

इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च च मारुतान् ।
प्रसादयति येनासौ प्रसाद इति सञ्ज्ञितः ॥ ११.१० ॥

इत्येष धर्मः प्रथमः प्राणायामश्चतुर्विधः।
सन्निकृष्टफलो ज्ञेयः सद्यःकालप्रसादजः ॥ ११.११ ॥

अत ऊर्ध्वं प्रवक्ष्यामि प्राणायामस्य लक्षणम्।
आसनं च यथातत्त्वं युञ्जतो योगमेव च ॥ ११.१२ ॥

ओङ्कारं प्रथमं कृत्वा चन्द्रसूयौं प्रणम्य च।
आसनं स्वस्तिकं कृत्वा पझमर्द्धासनन्तथा ॥ ११.१३ ॥

समजानुरेकजानुरुत्तानः सुस्थितोऽपि च।
समो दृढासनो भूत्वा संहृत्य चरणावुभौ ॥ ११.१४ ॥

संवृतास्योऽवबद्धाक्ष उरो विष्टभ्य चाग्रतः।
पार्ष्णिभ्यां वृषणे छाद्य तथा प्रजननं ततः ॥ ११.१५ ॥

किञ्चिदुन्नामितशिराः शिरो ग्रीवां तथैव च।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ ११.१६ ॥

तमः प्रच्छाद्य रजसा रजः सत्त्वेन च्छादयेत् ।
ततः सत्त्वस्थितो भूत्वा योगं युञ्जन् समाहितः ॥ ११.१७ ॥

इन्द्रियाणीन्द्रियार्थांश्च मनः पञ्च स मारुतान्।
विगृह्य समवायेव प्रत्याहारमुपक्रमेत् ॥ ११.१८ ॥

यस्तु प्रत्याहरेत् कामान् कूर्मोऽङ्गानीव सर्वतः।
तथात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥ ११.१९ ॥

पूरयित्वा शरीरन्तु स बाह्याभ्यन्तरं शुचिः।
आकण्ठनाभियोगेन प्रत्याहारमुपक्रमेत् ॥ ११.२० ॥

कलामात्रस्तु विज्ञेयो निमेषोन्मेष एव च।
तथा द्वादशमात्रस्तु प्राणायामो विधीयते ॥ ११.२१ ॥

धारणा द्वादशायामो योगो वै धारणाद्वयम्।
तथा वै योगयुक्तश्च ऐश्वर्यं प्रतिपद्यते ।
वीक्षते परमात्मानं दीप्यमानं स्वतेजसा ॥ ११.२२ ॥

प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः।
सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ॥ ११.२३ ॥

एवं वै नियताहारः प्राणायामपरायणः।
जित्वा जित्वा सदा भूमिमारोहेत्तु सदा मुनिः ॥ ११.२४ ॥

अजिता हि महाभूमिर्दोषानुत्पादयेद्बहून् ।
विवर्द्धयति सम्मोहं न रोहेदजितां ततः ॥ ११.२५ ॥

नालेन तु यथा तोयं यन्त्रेणैव बलान्वितः।
आपिबेत प्रयत्नेन तथा वायुञ्जितश्रमः ॥ ११.२६ ॥

नाभ्यां च हृदये चैव कण्ठे उरसि चानने।
नासाग्रे तु तथा नेत्रे भ्रुवोर्मध्येऽथ मूर्द्धनि ॥ ११.२७ ॥

किञ्चिदूर्ध्वं परस्मिंश्च धारणा परमा स्मृता।
प्राणापानसमारोधात् प्राणायामः स कथ्यते ॥ ११.२८ ॥

मनसो धारणा चैव धारणेति प्रकीर्तिता।
निवृत्ति र्विषयाणान्तु प्रत्याहारस्तु सञ्ज्ञितः ॥ ११.२९ ॥

सर्वेषां समवाये तु सिद्धिः स्याद्योगलक्षणा।
तयोत्पन्नस्य योगस्य ध्यानं वै सिद्धिलक्षणम्।
ध्यानयुक्तः सदा पश्येदात्मानं सूर्यचन्द्रवत् ॥ ११.३० ॥

सत्त्वस्यानुपपत्तौ तु दर्शनन्तु नव विद्यते।
अदेशकालयोगस्य दर्शनन्तु न विद्यते ॥ ११.३१ ॥

अग्न्यभ्याशे वने वापि शुष्कपर्णचये तथा।
जन्तुव्याप्ते श्मशाने वा जीर्णगोष्ठे चतुष्पथे ॥ ११.३२ ॥

सशब्दे सभये वापि चैत्यवल्मीकसञ्चये।
उदपाने तथा नद्यान्न बाधातः कदाचन ॥ ११.३३ ॥

क्षुधाविष्स्तथाऽप्रितो न च व्याकुलचेतनः।
युञ्जीत परमं ध्यानं योगी ध्यानपरः सदा ॥ ११.३४ ॥

एतान् दोषान् विनिश्चित्य प्रमादाद्यो युनक्ति वै।
तस्य दोषाः प्रकुप्यन्ति शरीरे विघ्नकारकाः ॥ ११.३५ ॥

जडत्वं बधिरत्वं च मूकत्वं चाधिगच्छति।
अन्धत्वं स्मृतिलोपश्च जरा रोगस्तथैव च ॥ ११.३६ ॥

तस्य दोषाः प्रकुप्यन्ति अज्ञानाद्यो युनक्ति वै।
तस्माज्ज्ञानेन शुद्धेन योगी युञ्जेत्समाहितः ॥ ११.३७ ॥

अप्रमत्तः सदा चैव न दोषान् प्राप्रुयात् व्कचित् ।
तेषां चिकित्सां वक्ष्यामि दोषाणां च यथाक्रमम्।
यथा गच्छन्ति ते दोषाः प्राणायामसमुत्थिताः ॥ ११.३८ ॥

स्निग्धां यवागूमत्युष्णां भुक्त्वां तत्रावधारयेत् ।
एतेन क्रमयोगेन वातगुल्मं प्रशाम्यति ॥ ११.३९ ॥

गुदावर्त्तप्रतीकारमिदं कुर्याच्चिकित्सितम्।
भुक्त्वा दधि यवागूर्वा वायुरूर्ध्वं ततो व्रजेत ॥ ११.४० ॥

वायुग्रन्थिं ततो भित्त्वा वायुदेशे प्रयोजयेत् ।
तथापि न विशेषः स्याद्धारणां मूर्ध्नि धारयेत् ॥ ११.४१ ॥

युञ्जानस्य तनुं तस्य सत्तवस्थस्यैव देहिनः।
गुदावर्त्तप्रतीघाते एतत् कुर्याच्चिकित्सितम् ॥ ११.४२ ॥

सर्वगात्रप्रकम्पेन समारब्धस्य योगिनः ।
इमां चिकित्सां कुर्वीत तया सम्पद्यते सुखी ॥ ११.४३ ॥

मनसा यद्व्रतं किञ्चिद्विष्टम्भीकृत्य धारयेत्।
उरोद्धाते उरःस्थानं कण्ठदेशे च धारयेत् ॥ ११.४४ ॥

त्वचोऽवधाते तां वाचि बाधिर्ये श्रोत्रयोस्तथा।
जिह्वास्थाने तृषार्त्तस्तु अग्रे स्नेहांश्च तन्तुभिः।
फलं वै चिन्तयेद्योगी ततः सम्पद्यते सुखी ॥ ११.४५ ॥

क्षये कुष्ठे सकीलासे धारयेत्सर्वसात्विकीम्।
यस्मिन् यस्मिन् रजोदेशे तस्मिन् युक्तो विनिर्द्दिशेत् ॥ ११.४६ ॥

योगोत्पन्नस्य विप्रस्य इदं कुर्याच्चिकित्सितम्।
वंशकीलेन मूर्द्धानं धारयाणस्य ताडयेत्।
मूर्ध्नि कीलं प्रतिष्ठाप्य काष्ठं काष्ठेन ताडयेत् ॥ ११.४७ ॥

भयभीतस्य सा सञ्ज्ञा ततः प्रत्यागमिष्यति।
अथ वा लुप्तसञ्ज्ञस्य हस्ताभ्यां तत्र धारयेत् ॥ ११.४८ ॥

प्रतिलभ्य ततः सञ्ज्ञां धारणां मूर्ध्नि धारयेत्।
स्रिग्धमल्पं च भुञ्जीत ततः सम्पद्यते सुखी ॥ ११.४९ ॥

अमानुषेण सत्त्वेन यदा बुध्यति योगवित् ।
दिवं च पृथिवीञ्चैव वायुमग्निं च धारयेत् ॥ ११.५० ॥

प्राणायामेन तत्सर्वं दह्यमानं वशीभवेत्।
अथापि प्रविशेद्देहं ततस्तं प्रतिषेधयेत् ॥ ११.५१ ॥

ततः संस्तभ्य योगेन धारयानस्य मूर्द्धानि।
प्राणायामाग्निना दग्धं तत्सर्वं विलयं व्रजेत् ॥ ११.५२ ॥

कृष्णसर्पापराधं तु धारयेद्धृदयोदरे ।
महर्जनस्तपः सत्यं हृदि कृत्वा तु धारयेत् ॥ ११.५३ ॥

विषस्य तु फलं पीत्वा विशल्यां धारयेत्ततः ।
सर्वतः सनगां पृथ्वीं कृत्वा मनसि धारयेत् ॥ ११.५४ ॥

हृदि कृत्वा समुद्रांश्च तथा सर्वाश्च देवताः ।
सहस्रेण घटानाञ्च युक्तः स्नायीत योगवित् ॥ ११.५५ ॥

उदके कण्ठमात्रे तु धारणां मूध्नि धारयेत्।
प्रतिस्रोतोविषाविष्टो धारयेत् सर्वगात्रिकीम् ॥ ११.५६ ॥

शीर्णोऽर्कपत्रपुटकैः पिबेद्वल्मीकमृत्तिकाम् ।
चिकित्सितविधिर्ह्येष विश्रुतो योगनिर्मितः ॥ ११.५७ ॥

व्याख्यातस्तु समासेन योगदृष्टेन हेतुना।
ब्रुवतो लक्षणं विद्धि विप्रस्य कथयेत् व्कचित् ॥ ११.५८ ॥

अथापि कथयेन्मोहात्तद्विज्ञानं प्रलीयते।
तस्मात् प्रवृत्तिर्योगस्य न वक्तव्या कथञ्चन ॥ ११.५९ ॥

सत्त्वं तथारोग्यमलोलुपत्वं वर्णप्रभा सुस्वरसौम्यता च।
गन्धः शुभो मूत्रपुरीष मल्पं योगप्रवृत्तिः प्रथमा शरीरे ॥ ११.६० ॥