०१०

॥सूत उवाच॥

विश्वास-प्रस्तुतिः

एवम्भूतेषु लोकेषु ब्रह्मणा लोककर्तृणा।
यदा ता न प्रवर्त्तन्ते प्रजाः केनापि हेतुना ॥ १०.१ ॥

मूलम्

तमोमात्रावृतो ब्रह्मा तदाप्रभृति दुःखितः।
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ १०.२ ॥

अथात्मनि समस्राक्षीत्तमोमात्रां नियामिकाम् ।
राजसत्वं पराजित्य वर्त्तमानं स धर्मतः ॥ १०.३ ॥

तप्यते तेन दुःखेन शोकञ्चक्रे जगत्पतिः।
तमश्च व्यनुदत्तस्माद्रजस्तमसमावृणोत् ॥ १०.४ ॥

तत्तमः प्रतिनुत्तं वै मिथुनं स व्यजायत।
अधर्माच्चरणाज्जज्ञे हिंसा शोकादजायत ॥ १०.५ ॥

ततस्तस्मिन् समुद्भूते मिथुने चरणात्मनि।
ततश्च भगवानासीत् प्रीतश्चैवमशिश्रियत् ॥ १०.६ ॥

स्वां तनुं स ततो ब्रह्मा तामपोहदभास्वराम्।
द्विधाकरोत्स तं देहमर्द्धेन पुरुषोऽभवत् ॥ १०.७ ॥

अर्द्धेन नारी सा तस्य शतरूपा व्यजायत।
प्राकृतां भूतधात्रीं तां कामान्वै सृष्टवान् विभुः ॥ १०.८ ॥

सा दिवं वृथिवीञ्चैव महिम्ना व्याप्य धिष्ठिता।
ब्रह्मणः सा तनुः पूर्वा दिवमावृत्त्य तिष्ठति ॥ १०.९ ॥

या त्वर्द्धात् सृजते नारी शतरूपा व्यजायत।
सा देवी नियुतन्तप्त्वा तपः परमदुश्चरम् ॥ १०.१० ॥

भर्तारन्दीप्तयशसं पुरुषं प्रत्यपद्यत।
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ॥ १०.११ ॥

तस्यैवसप्ततियुगं मन्वन्तरमिहोच्यते ।
लब्धा तु पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १०.१२ ॥

तया स रमते सार्द्धं तस्मात्सा रतिरुच्यते।
प्रथमः सम्प्रयोगः स कल्पादौ समवर्त्तत ॥ १०.१३ ॥

विराजमसृजत् ब्रह्मा सोऽभवत् पुरुषो विराट् ।
सम्राण्मानसरूपात्तु वै राजस्तु मनुः स्मृतः ॥ १०.१४ ॥

स वैराजः प्रजासर्गः स सर्गे पुरुषो मनुः।
वैराजात्पुरुषाद्वीराच्छतरूपा व्यजायत ॥ १०.१५ ॥

प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ।
कन्ये द्वे च महाभागे याभ्यां जाताः प्रजास्त्विमाः ॥ १०.१६ ॥

देवी नाम्ना तथाकूतिः प्रसूतिश्चैव ते शुभे।
स्वायम्भुवः प्रसूतिन्तु दक्षाय व्यसृजत् प्रभुः ॥ १०.१७ ॥

प्राणो दक्षस्तु विज्ञेयः सङ्कल्पो मनुरुच्यते।
रूचेः प्रजापतेश्चैव आकूतिं प्रत्यपादयत् ॥ १०.१८ ॥

आकूत्यां मिथुनं यज्ञे मानसस्य रुचेः शुभम्।
यज्ञश्च दक्षिणा चैव यमकौ सम्बभूवतुः ॥ १०.१९ ॥

यज्ञस्य दक्षिणायाञ्च पुत्रा द्वादश जज्ञिरे।
यामा इति समाखयाता देवाः स्वायम्भुवेऽन्तरे ॥ १०.२० ॥

यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः।
अजिताश्चैव शूकाश्च गणौ द्वौ ब्रह्मणः स्मृतौ ॥ १०.२१ ॥

यामाः पूर्वं परिक्रान्ता यतः सञ्ज्ञा दिवौकसः।
स्वायम्भूवसुतायान्तु प्रसूत्यां लोकमातरः ॥ १०.२२ ॥

तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत् प्रभुः।
सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः ॥ १०.२३ ॥

योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः।
श्रद्धा लक्ष्मी धॄतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदशी ॥ १०.२४ ॥

पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः।
द्वाराण्येतानि चैवास्य विहितानि स्वयम्भुवा ॥ १०.२५ ॥

ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः।
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ १०.२६ ॥

सन्नतिशचवानसूया च ऊर्ज्जा स्वाहा स्वधा तथा।
तास्ततः प्रत्यपद्यन्त पुनरन्ये महर्षयः ॥ १०.२७ ॥

रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः ।
पुलस्त्योऽत्रिर्वसिष्ठश्च पितरोऽग्रिस्तथैव च ॥ १०.२८ ॥

सतीं भवाय प्रायच्छत् ख्यातिञ्च भृगवे तथा।
मरीचये च सम्भूतिं स्मृतिमाङ्गिरसे ददौ ॥ १०.२९ ॥

प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च।
क्रतवे सन्नतिं नाम अनसूयान्तथात्रये ॥ १०.३० ॥

ऊर्ज्जं ददौ वसिष्ठाय स्वाहां वै ह्यग्नये ददौ ।
स्वधां चैव पितृभ्यस्तु तास्वपत्यानि वक्ष्यते ॥ १०.३१ ॥

एते सर्वे महाभागाः प्रज्ञाः स्वानुष्ठिताः स्थिताः।
मन्वन्तरेषु सर्वेषु यावदाभूतसम्प्लवम् ॥ १०.३२ ॥

श्रद्धा कामं विजज्ञे वै दर्पो लक्ष्मीसुतः स्मृतः।
धृत्यास्तु नियमः पुत्रस्तुष्टयाः सन्तोष उच्यते ॥ १०.३३ ॥

पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा।
क्रियायास्तु नयः प्रोक्तो दण्डः समय एव च ॥ १०.३४ ॥

बुद्धेर्वौधसुतश्चापि अप्रमादश्च तावुभौ ।
लज्जाया विनयः पुत्रो व्यवसायो वपुःसुतः ॥ १०.३५ ॥

क्षेमः शान्तिसुतश्चापि सुखं सिद्धेर्व्यजायत।
यशः कीर्त्तेः सुतश्चापि इत्येते धर्मसूनवः ॥ १०.३६ ॥

कामस्य हर्षः पुत्रो वै देव्या रत्या व्यजायत।
इत्येष वै सुखोदर्क्कः सर्गो धर्मस्य कीर्त्तितः ॥ १०.३७ ॥

जज्ञे हिंसा त्वधर्माद्धै निकृतिश्चानृतावुभौ ।
निकृत्यानृतयोर्जज्ञे भयं नरक एव च ॥ १०.३८ ॥

माया च वेदना चापि मिथुनद्वयमेतयोः।
भयाज्जज्ञेऽथ सा माया मृत्युं भूतापहारिणम् ॥ १०.३९ ॥

वेदनायास्ततश्चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्ययोर्व्याधिज्वरा शोकाः क्रोधोऽसूया च जज्ञिरे ।
दुःखान्तरा स्मृता ह्येते सर्वे चाधर्मलक्षणाः ॥ १०.४० ॥

तेषां भार्याऽस्ति पुत्रो वा ते सर्वे निधनाः स्मृताः ।
इत्येष तामसः सर्गो जज्ञे धर्मनियामकः ॥ १०.४१ ॥

प्रजाः सृजेति व्यादिष्टो ब्रह्मणा नीललोहितः ।
सोऽभिध्याय सतीं भार्यान्निर्ममे ह्यात्मसम्भवाम् ॥ १०.४२ ॥

नाधिकान्न च हीनांस्तान्मानसानात्मनः समान्।
सहस्रं हि सहस्राणामसृजत् कृमिवाससा।
तुल्या श्चैवात्मनः सर्वे रूपतेजोबलश्रुतैः ॥ १०.४३ ॥

पिङ्गलान्सन्निषङ्गांश्च सकपर्द्दान् विलोहितान् ।
विवासान् हरि केशांश्च दृष्टिघ्नांश्च कपालिनः ॥ १०.४४ ॥

बहुरूपान् विरूपांश्च विश्वरूपांश्चरूपिणः।
रथिनो वर्मिणश्चैव धर्मिणश्च वरूथिनः ॥ १०.४५ ॥

सहस्रशत बाहूंश्च दिव्यान् भौमान्तरिक्षगान्।
स्थूलशीर्षानष्टदंष्ट्रानुद्विजिह्वांस्त्रिलोचनान् ॥ १०.४६ ॥

अन्नादान् पिशितादांश चव आज्यपान् सोमपांस्तथा।
मेदपां स्वातिकायांश्च शितिकण्ठोग्रमन्यवः ॥ १०.४७ ॥

सोपासङ्गतलत्रांश्च धन्विनो ह्युपवर्मिणः।
आसीनान् धावतश्चैव जृम्भिनश्चैव धिष्ठितान् ॥ १०.४८ ॥

अध्या पिनोऽथ जपतो युञ्जतोऽध्यायतस्तथा।
ज्वलतो वर्षतश्चैव द्योतमानान् प्रधूपितान् ॥ १०.४९ ॥

बुद्धान् बुद्धतमांश्चैव ब्रह्मिष्ठान् शुभदर्शनान् ।
नीलग्री वान् सहस्राक्षान् संर्वाश्चाथ क्षपाचरान् ॥ १०.५० ॥

अदृश्यान् सर्वभूतानां महायोगान् महौजसः।
रूदतोद्रवतश्चैव एवंयुक्तान् सहस्रशः।
अपातयामानसृजत् रुद्ररूपान् सुरोत्तमान् ॥ १०.५१ ॥

ब्रह्मा दृष्ट्वाऽब्रवीदेतान्मास्राक्षीरीदृशीः प्रजाः।
स्रष्टव्या नात्मनस्तुल्याः प्रजा नैवाधिकास्त्वया।
अन्याः सृजत्वं भद्रन्ते स्थितोहन्त्वं सृज प्रजाः ॥ १०.५२ ॥

एते ये वै मया मृष्टा विरूपा नीललेहिताः ।
सहस्राणां सहस्रन्तु आत्मनोपमनिश्चिताः ॥ १०.५३ ॥

एते देवा भविष्यन्ति रूद्रा नाम महाबलाः।
पृथिव्यामन्तारीक्षे च रुद्रनाम्ना प्रतिश्रुताः ॥ १०.५४ ॥

शतरुद्रसमाम्नाता भविष्यन्तीह यज्ञियाः।
यज्ञभाजो भविष्यन्ति सर्वे देवयुगैः सह ॥ १०.५५ ॥

मन्वन्तरेषु ये देवा भविष्यन्तीह च्छन्दजाः।
तैः सार्द्धमीज्यमानास्ते स्थास्यन्तीह युगक्षयात् ॥ १०.५६ ॥

एवमुक्तस्तदा ब्रह्मा महादेवेन धीमता। प्रत्युवाच तदा भीमं हृष्यमाणः प्रजापतिः ॥ १०. ५७ ॥
विश्वास-प्रस्तुतिः

एवं भवतु भद्रं ते यथा ते व्याहृतं प्रभो।
ब्रह्मणा समनुज्ञा ते सदा सर्वमभूत् किल ॥ १०.५८ ॥

ततःप्रभृति देवेशो न प्रासूयत वै प्रजाः।
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम्।
यस्माच्चोक्तं स्थितोऽस्मीति ततः स्थाणुरिति स्मृतः ॥ १०.५९ ॥

ज्ञानं वैराग्यमैश्वर्यं तपः सचत्यं क्षमा धृतिः।
स्रष्टृत्वमात्मसम्बोधस्त्वधिष्ठातृत्वमेव च।
अथ यानि दशैतानि नित्यन्तिष्ठन्ति शङ्करे ॥ १०.६० ॥

सर्वान् देवान् ऋषींश्चैव समेतानसुरैः सह।
अत्येति तेजसा देवो महादेवस्ततः स्मृतः ॥ १०.६१ ॥

अत्येति देवानैश्चर्याद्बलेन च महासुरान्।
ज्ञानेन च मुनीन् सर्वान् योगाद्भूतानि सर्वशः ॥ १०.६२ ॥

॥ऋषय ऊचुः ॥
विश्वास-प्रस्तुतिः

योगं तपश्च सत्यञ्च धर्मञ्चापि महामुने।
माहेश्वरस्य ज्ञानस्य साधनञ्च प्रजक्ष्व नः ॥ १०.६३ ॥

येन येन च धर्मेण गतिं प्राप्स्यन्ति वै द्विजाः।
तत्सर्वं श्रोतुमिच्छामि योगं माहेश्वरं प्रभो ॥ १०.६४ ॥

॥ वायुरुवाच॥
विश्वास-प्रस्तुतिः

पञ्च धर्माः पुराणे तु रुद्रेण समुदाहृताः।
माहेश्वर्यं यथा प्रोक्तं रुद्रैरक्लिष्टकर्मभिः ॥ १०.६५ ॥

आदित्यैर्वसुभिः साध्यैरश्विभ्याञ्चैव सर्वशः।
मरुद्भिर्भृगुभिश्चैव ये चान्ये विबुधालयाः ॥ १०.६६ ॥

यमशुक्रपुरोगैश्च पितृकालान्तकैस्तथा।
एतैश्वान्यैशचव बहुभिस्ते धर्माः पर्युपासिताः ॥ १०.६७ ॥

ते वै प्रक्षीणकर्माणः शारदाम्बरनिर्मलाः।
उपासते मुनिगणाः सन्धायात्मानमात्मनि ॥ १०.६८ ॥

गुरुप्रियहिते युक्ता गुरूणां वै प्रियेप्सवः।
विमुच्य मानुषं जन्म विहरन्ति च देववत् ॥ १०.६९ ॥

महेश्वरेण ये प्रोक्ताः पञ्च धर्माः सनातनाः।
तान् सर्वान् क्रमयोगेन उच्यमानान्निबोधत ॥ १०.७० ॥

प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा।
स्मरणञ्चैव योगेऽस्मिन् पञ्च धर्माः प्रकीर्त्तिताः ॥ १०.७१ ॥

तेषां क्रमविशेषेण लक्षणं कारणं तथा।
प्रवक्ष्यामि तथा तत्त्वं यथा रुद्रेण भाषितम् ॥ १०.७२ ॥

प्राणायामगतिश्वापि प्राणस्यायाम उच्यते ।
स चापि त्रिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा ॥ १०.७३ ॥

प्राणानाञ्च निरोधस्तु स प्राणायामसञ्ज्ञितः ।
प्राणायामप्रमाणन्तु मात्रा वै द्वादश स्मृताः ॥ १०.७४ ॥

मन्दो द्वादशमात्रस्तु उद्वाता द्वादश स्मृताः ।
मध्यमश्च द्विरुद्वातश्चतुर्विंशतिमात्रिकः ॥ १०.७५ ॥

उत्तमस्तत्र्त्रिरुद्वातो मात्राः षट्‌त्रिंशदुच्यते।
स्वेदकम्पविषादानां जननो ह्युत्तमः स्मृतः ॥ १०.७६ ॥

इत्येतत् त्रिविधं प्रोक्तं प्राणायामस्य लक्षणम्।
प्रमाणञ्च समासेन लक्षणञ्च निबोधत ॥ १०.७७ ॥

सिंहो वा कुञ्जरो वापि तथाऽन्यो वा मृगो वने।
गृहीतः सेव्यमानस्तु मृदुः समुपजायते ॥ १०.७८ ॥

तथा प्राणो दुराधर्षः सर्वेषामकृतात्मनाम् ।
योगतः सेव्यमानस्तु स एवाभ्यासतो व्रजेत् ॥ १०.७९ ॥

स चैव हि यथा सिंहः कुञ्जरो वापि दुर्बलः।
कालान्तरवशाद्योगाद्गम्यते परिमर्द्दनात् ॥ १०.८० ॥

परिधाय मनो मन्दं वश्यत्वं चाधिगच्छति ।
परिधाय मनोदेवं तथा जीवति मारुतः ॥ १०.८१ ॥

वश्यत्वं हि यथा वायुर्गच्छते योगमास्थितः।
तदा स्वच्छन्दतः प्राणं नयते यत्र चेच्छति ॥ १०.८२ ॥

यथा सिंहो गजो वापि वश्यत्वादवतिष्ठते।
अभयाय मनुष्याणां मृगेभ्यः सम्प्रवर्त्तते ॥ १०.८३ ॥

यथा परिचितश्चायं वायुर्वै विश्वतोमुखः।
परिध्यायमानः संरुद्धः शरीरे किल्बिषं दहत् ॥ १०.८४ ॥

प्राणायामेन युक्तस्य विप्रस्य नियतात्मनः।
सर्वे दोषाः प्रणश्यन्ति सत्त्वस्थश्चैव जायते ॥ १०.८५ ॥

तपांसि यानि तप्यन्ते व्रतानि नियमाश्च ये।
सर्वयज्ञफलञ्चैव प्राणायामश्च तत्समः ॥ १०.८६ ॥

अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्रुते।
संवत्सरशतं साग्रं प्राणायामञ्च तत्समम् ॥ १०.८७ ॥

प्राणायामैर्दहेर्दोषान् धारणाभिश्च किल्बिषम्।
प्रत्याहारेण विषयान् ध्यानेनानाश्वरान् गुणान् ॥ १०.८८ ॥

तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् ।
सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ॥ १०.८९ ॥

इति श्रीम हापुराणे वायुप्रोक्ते मन्वन्तरादिवर्णनं नाम दशमोऽध्याः ॥ १० ॥