पापस्य कालं भवपङ्ककालं कलाकलं कालमार्गस्य कालम्।
देवं महाकालमहं प्रपद्ये श्रीकालकण्ठरूपं भवकालरूपम्॥
ईशानवक्त्रं प्रणमामि त्वाहं स्तौति श्रुतिः सर्वविद्येश्वरस्त्वं।
भूतेश्वरस्त्वं प्रपिता महस्त्वं तस्मै नमस्तेऽस्तु महेश्वराय॥ (ईशान वक्त्रमन्त्रात्मक श्लोक)
यं स्तौति वेदस्तमहं प्रपद्ये तत्पुरुषसंज्ञं शरणं द्वितीयम्।
त्वां विद्महे तच्च नस्त्वं प्रदेहि श्रीरुद्र देवेश नमोनमस्ते॥ (तत्पुरुष वक्त्रमन्त्रात्मक श्लोक)
अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि।
अघोरघोराणि च घोरघोराण्यहं सदा नौमि भूतानि तुभ्यम्॥ (अघोर वक्त्रमन्त्रात्मक श्लोक)
चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते।
भवेभवेनादिभवो भवस्व भवोद्भवो मां शिव तत्रतत्र॥ (सद्योजात वक्त्रमन्त्रात्मक श्लोक)
नमोऽस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकरिणे।
बलंकरायापि बलप्रमाथिने भूतानि हंत्रे च मनोन्मनाय॥ (वामदेव वक्त्रमन्त्रात्मक श्लोक)
त्रियंबकं त्वां च यजामहे वयं सुपुण्यगन्धैः शिवपुष्टिवर्धनम्।
उर्वारुकं पक्वमिवोग्रबंधनाद्रक्षस्व मां त्र्यंबकं मृत्युमार्गात्॥ (त्र्यम्बक मन्त्रात्मक श्लोक)
षडक्षरं मन्त्रवरं तवेश जपंति ये मुनयो वीतरागाः।
तेषां प्रसन्नोऽसि जपामहे तम् त्वोंकारपूर्वम् च नमः शिवाय॥ (ॐकारयुक्त शिवपञ्चाक्षरमन्त्रात्मक श्लोक)