०८२ पशुपति-स्तोत्रम्

विस्तारः (द्रष्टुं नोद्यम्)

The Paśupati-stotra in question is from the 82nd adhyaya, 44th to 54th ślokas.

विश्वास-प्रस्तुतिः

ॐ नमः शिवाय शर्वाय
सर्वेषां पतये नमः। नमो रौद्राय रुद्राय
रौद्राणां पतये नमः॥

मूलम्

ॐ नमः शिवाय शर्वाय सर्वेषां पतये नमः। नमो रौद्राय रुद्राय रौद्राणां पतये नमः॥

विश्वास-प्रस्तुतिः

व्यक्ताव्यक्त-स्वरूपाय
नमो व्यक्ति-विभूतये। प्रपञ्च-रूपिणेऽजाय
प्रपञ्चागोचराय च॥

मूलम्

व्यक्ताव्यक्तस्वरूपाय नमो व्यक्तिविभूतये। प्रपञ्चरूपिणेऽजाय प्रपञ्चागोचराय च॥

विश्वास-प्रस्तुतिः

विश्वरूपाय विश्वाय
विश्वेषां पतये नमः। पराय परमेशाय
परातीताय वै नमः॥

मूलम्

विश्वरूपाय विश्वाय विश्वेषां पतये नमः। पराय परमेशाय परातीताय वै नमः॥

विश्वास-प्रस्तुतिः

परापराय पालाय
पार्वतीवल्लभाय च। हराय हरिणेशाय
हरिणाङ्गधृते नमः॥

मूलम्

परापराय पालाय पार्वतीवल्लभाय च। हराय हरिणेशाय हरिणाङ्गधृते नमः॥

विश्वास-प्रस्तुतिः

मृगरूपाय मान्याय
व्योमस्थाय नमो नमः। नमोऽस्तु चैकशृङ्गाय
त्रिनेत्राय नमो नमः॥

मूलम्

मृगरूपाय मान्याय व्योमस्थाय नमो नमः। नमोऽस्तु चैकशृङ्गाय त्रिनेत्राय नमो नमः॥

विश्वास-प्रस्तुतिः

नमोऽस्तु चैकपादाय
दंष्ट्राविभूशिताय च। पशुरूपाय भव्याय
पशु-पाश-विनाशिने॥

मूलम्

नमोऽस्तु चैकपादाय दंष्ट्राविभूशिताय च। पशुरूपाय भव्याय पशुपाशविनाशिने॥

विश्वास-प्रस्तुतिः

पशुभिः क्रीडते तस्मै
पशूनां पतये नमः। पशुदेहं समाश्रित्य
प्रमथैः पावने वने॥+++(4)+++

मूलम्

पशुभिः क्रीडते तस्मै पशूनां पतये नमः। पशुदेहं समाश्रित्य प्रमथैः पावने वने॥

विश्वास-प्रस्तुतिः

स्वेच्छ-सञ्चारणायेश
पशु-रूप नमोऽस्तु ते। लोक-निर्वाण-बीजाय
चैक-रूप-विधारिणे॥

मूलम्

स्वेच्छसञ्चारणायेश पशुरूप नमोऽस्तु ते। लोकनिर्वाणबीजाय चैकरूपविधारिणे॥

विश्वास-प्रस्तुतिः

वरदानैक-दक्षाय
स्थित्य्-उपकारिणे नमः। त्रात्रे नित्यं च भक्तानां
पशुपते नमोऽस्तु ते॥

मूलम्

वरदानैकदक्षाय स्थित्युपकारिणे नमः। त्रात्रे नित्यं च भक्तानां पशुपते नमोऽस्तु ते॥

विश्वास-प्रस्तुतिः

व्यक्तो भव महेशान
व्यक्तो भवात्र चाम्बरात्। शरणञ् च प्रपन्नेभ्यो
दीयतां दर्शनं विभो॥

मूलम्

व्यक्तो भव महेशान व्यक्तो भवात्र चाम्बरात्। शरणञ्च प्रपन्नेभ्यो दीयतां दर्शनं विभो॥