हर-वर-महिषीम्

हर-वर-महिषीम्

+++(दण्डकम्)+++
हर-वर-महिषीं महा-देव–पत्नीं
प्रियां त्र्यम्बकस्याम्बिकां वाचम् एकाक्षरां[^२०४] लोक-संहार-कर्त्रीम्
उमां देव-देवस्य पात्नीं
शुभां शङ्ख-कुन्देन्दु-हाराम्बु-गौरोग्र-दंष्ट्रां
जयाम् आहवे दुर्-निरीक्ष्याम्
अचिन्त्योग्र-दृष्टिम् विशालेक्षणां पीतकौशेय-वस्त्रां
महा-शूल-घण्टा-पताका-ध्वजां दिव्य-गन्धाज्य-धूप-प्रियां काल-दण्डासि-चर्मोग्र-हस्तां[^२०५]
वपा-शोणितान्त्रावसा-पूर्ण-भाण्डां
दिशां दक्षिणां चारु-चामीकराबद्ध-पट्टां
युगान्तानलाभेक्षणाम् अट्टहासान् सृजन्तीं
यथा-काम-कर्त्रीम्[^२०६]
अनङ्गायुधाविक्षतां शूर-सेना-नदीं विश्रुतां मन्दरावास-नित्यां
दिविष्ठां1 प्रपद्येहम्2 एकानसीम्3

असुर-महिष-दारणीम्

असुर-महिष-दारणीं दारणीं दुन्दुभेः4 सुन्द-मारीं5
निशुम्भस्य मृत्युं विभां सोमसूर्याग्नि-भासां
सृजत्-कान्तिम्6 इष्ट-प्रदां शोक-दुःखार्ति-हर्त्रीं7
विशोकाम् अघोराम्
घनाम् अन्तकस्यान्त-कर्त्रीं8
मुनेर् जामदग्न्यस्य चोर्ज्जां
तथा राजराज्ञीं मनोज्ञां
करालां क्षपां दण्डनीतिं
स्थितिं सिद्धिम् इष्टां शुभां कालरात्रीम्
अपर्णां समाधिं शरण्यां
नगेन्द्राधि-वास-प्रियां क्षीर-नद्य्-अब्धिवासां+++(←ख-गङ्गा)+++ 9
शुभाम् किङ्किणीकां प्रकीर्णोर्ध्व-केशीं
प्रदीप्ताग्नि-सन्ध्याभ्र-राग-त्विषं10 बद्ध-गोधाङ्गुलि-त्रां
त्रिनेत्रां जटा-केश-रक्ताम्बुजाबद्ध-मालां
विशल्याम् अनङ्गारि-नेत्रोल्क-जां11 हेम-माला-निबद्ध-स्रजां12 दीर्घवेणीं
सुवेणीं यशः-कीर्ति-युक्तां13 मयूराङ्गजाबद्ध-चित्र-ध्वजां राजसां शान्ति-कर्त्रीं
प्रपद्येहम् एकां सदा॥

भुजङ्ग-शत-कृताङ्गदाम्

भुजङ्ग-शत-कृताङ्गदां महादानव-प्राण-शौण्डां
चिताभस्म-रूक्षाङ्ग-केशीं महा-जानु-लम्बोदरां
सर्प-यज्ञोपवीतर्द्ध14-वक्त्रोद्धृताक्षार्द्ध-पादार्द्र-हस्तावतंसां
महा-मेखला-दाम-लम्बद्-विचित्र-स्रजां मेघ-तूर्योग्र-वादित्र-नृत्त-प्रियां15 गीत-हास्य-प्रलाप-प्रमोद-प्रियां जाप्य-होमोपवासादवासाप्रवासाधिवासातिरिक्तां
महायोग-विज्ञात-सारानुसारोग्रसारां 16
धृतिं ज्यानुघण्टावबद्धोग्रशब्दां17
महा-मेघ-वज्र-प्रपातोदधि-प्रख्य-तीव्रोग्र-घोषक्रियां
दीक्षितानाञ् च दीक्षां
विरूपाक्ष-भार्यां हरस्यार्ध-देहाधि-वासां18 प्रप्रद्ये
मुखोल्कोद्भवां देवीम् आद्यां19 परां पार्वतीं सर्वविद्याधिदेवीं गतिम्॥

यम-नियम-दमात्म-भूताम्

यम-नियम-दमात्म-भूतां
पितॄणां च कन्यां शुभां पर्वतेन्द्रात्मजां दक्ष-यज्ञान्त-कर्त्रीं20
भवस्यार्ध-देहाश्रितादित्य-दन्तावपातां21
सुरेन्द्राग्र-हस्त-प्रतिस्तम्भनीं विष्णु-केशापहर्त्रीं
महासिंहयुक्ताति-वाहां22
महाभैरवाभीषितां स्कन्द-चन्द्रारणीं मातरं
हस्तिवक्त्रस्य चाग्र्यां, विशाखस्य जन्मारणीं
नन्दिनो नैगमेषस्य चोत्पादनीं, सर्वलोकस्य चाद्यारणीं,
योगिनां योगिनीं ध्यायमानां धृतिं देव-विप्रैर्
महा-योग-तर्कैर्23 अगम्यां
विशिष्टेष्ट-अ-वासां च लक्ष्मीं
तरीं भूर्-भुवः-स्वर्-जनस्-सत्य-वैराज-माहात्म्य-लोकारणीं24 कारणीम् इन्द्रियाणाम् अहङ्कार-तन्-मात्र-कर्त्रीं
तमस्-सत्त्व-राग-प्रवृत्तिं25 पराञ् च प्रवृत्तिं,
महेशस्य शक्तिं
तथा चेतनां सर्व-विज्ञान-चिन्त्यां प्रपद्याम देवीम्26
उमां मातरम्॥

दिशतु सुखं

दिशतु सुखं मातर् अस्मासु तुष्टा महादेव-पत्नीं शुभां यां वयं चिन्तयामैकया संविदा ध्यायमानाः27
सदा दारुणं चापि सर्वं कृतं यत्
त्वया तच् च नो नाशयाम्बाद्य तुष्टा
यथा वै तुषारं महा-सूर्य-देहोद्भवा28,
तच् च नो जाति-कोटी-सहस्रेषु पूर्वं कृतं29 यत्, करिष्याम यत् कुर्म तत् सर्वम् एवञ् च30 दद्याश्
च नः सर्वम् अर्थं सकामं तथारोग्यम् ऊर्जां श्रियं ज्ञान-विज्ञान-मेधास्
तथा धारणां तर्कम् ऊहाम् अपोहं धृतिं चार्यभावं31
गतिञ् चैव दिव्यां तथा धर्म-नित्यत्वम् एताँश् च ये चाप्य् अतोऽन्ये
गुणास् ताँश् च सर्वान् जुषस्वाद्य देवि तुभ्यं नमः ॥ १२३-१४४॥


  1. दितिं… - घ. । ↩︎

  2. प्रपद्यामहे - घ. । ↩︎

  3. कानसां - घ. । ↩︎

  4. दुन्दुभेर्मारणीं - घ. । ↩︎

  5. सु (शु) भ्भमारी - ख. घ. । ↩︎

  6. सृजां - ख. । ↩︎

  7. दुःखशोकापहर्त्रीं - घ., दुःखशोकापहन्त्रीं - घ. । ↩︎

  8. शम्बरा - ख. । ↩︎

  9. क्षीरोद-नित्यां, क्षीरोदधिस्थाम्। - घ. । ↩︎

  10. .. त्विषां - क. । ↩︎

  11. त्रिनेत्रोल्कजा - घ. । ↩︎

  12. विनद्धस्रजां - ख । ↩︎

  13. .. कीर्तिमुक्ता - घ. । ↩︎

  14. सर्पयज्ञोपवीतान्त्रवक्त्रो.. - घ. । ↩︎

  15. नृत्यप्रियां - ख. । ↩︎

  16. विज्ञानसारा - घ. । ↩︎

  17. जानुघण्टा - क. । ↩︎

  18. हरस्य देहार्धाधिवासां - घ. । ↩︎

  19. देविमाद्यां - क. - ख. । ↩︎

  20. दक्षयज्ञान्तकारीं - क. घ. । ↩︎

  21. दिव्यदन्तावपातां - घ, मादित्य । ↩︎

  22. … तिवादां - घ. । ↩︎

  23. देवदेवप्रियां - ख. । ↩︎

  24. जमहात्म्यलोकारणी - क. । ↩︎

  25. नमः सत्वरागप्रवृतिं - क., मनः - ख. । ↩︎

  26. प्रपद्ये सदाहं - ख. । ↩︎

  27. मोक्षबुद्ध्या - ख. । ↩︎

  28. महाशून्यदेहोद्भवां - ख. । ↩︎

  29. सर्वं कृतं - क. । ↩︎

  30. वरञ्च - ख. । ↩︎

  31. … मपोहां धृतिं धार्यतां - ख. । ↩︎