सनत्कुमार उवाच
सत्यस्य महतश्चैव जनस्य तपसस्तथा ।
भव्यभूतभवानां च सप्तानामूर्घ्वतः स्थितः[^१] ॥ १ ॥
लोको भगवतः शम्भोर्यत्रास्ते सकलः शिवः ।
नासौ तर्कविनिर्देश्यो लोकास्तस्मिन् प्रतिष्ठिताः ॥२ ॥
ऊर्ध्वं तिर्यगधस्ताच्च लोकास्तद्विनिबन्धनाः ।
ब्रह्माण्डं सकलं तस्मिञ्छिवलोके प्रतिष्ठितम् ॥३ ॥
नासौ नश्यति संहारे ध्रुवः स्थाणुः सुरालयः[^३] ।
यत्राहं सनकाद्याश्च ब्रह्मा चैव पितामहः[^४] ॥४॥
बालखिल्यपुरोगाश्च[^५] सिद्धाश्च कपिलादयः ।
शिवयोगपरिप्राप्त्या[^६] सत्वादिगुणवर्जिताः ॥५ ॥
तिष्ठामो निर्वृता व्यास सेवमानास्तमीश्वरम् ।
परमाणुरसावीशो भावगम्यो मनीषिणाम् ॥६॥
परमैश्वर्यसंयुक्तस्तत्रास्ते विग्रहेश्वरः ।
क्षमा सत्यं धृतिश्चैव तपो वैराग्यमेव च ॥७॥
एषा - क. ख. । ६२ कृत्स्ना - क. ख. । ६३.. वर्जिता - क. ख. । ६४ निष्कला -क ख। ६५ परं यस्या न विद्यते - क. ख. । ६६ मुच्यन्ति - क. । ६७ परा - ख. । ६८ यान्तीति - क. । ६९ द्विसप्तत्युत्तर - क. । ७० अध्यायाङ्को न विद्यतेत्र ख पुस्तके ।
स्थितम् - ख. । २ विनिबन्धनात् - क. । ३ स्थाण्वीश्वरालयः (?) । ४ पिता मम - ख. । ५ बालिखिल्यपुरोगाश्च - क. ख. । ६ परिप्राप्ताः - ख. ।
स्रष्टृत्वम्[^७] ज्ञानवैराग्यादात्मबोधो[^८] महेशता ।
नित्यमेतानि तिष्ठन्ति तस्मिन्देवे महेश्वरे ॥८॥
योगवह्निरसावात्मा ब्रह्मसृक्परमेश्वरः ।
साकल्यान्मूर्त्तिमास्थाय[^९] करोति जगतः स्थितिम् ॥९॥
अष्टमं ध्रुवमध्येय(? )मक्षरं[^१०] मुक्तिकारणम् ।
मायाधाम तदीशस्य जगत्संहारहेतुमत् ॥8.183.१० ॥
ऊर्ध्वतो ब्रह्मलोकस्य योजनानां महात्मनः ।
विंशतीनान्तु कोटीनां पुरं स्थाणोः समास्थितम् ॥११॥
एतावानूर्ध्वसञ्चारो गत्यन्तश्च ततः स्मृतः ।
असङ्ख्याताः पुरे तस्मिन्नित्याः सूक्ष्मास्तथाव्ययाः ॥१२॥
ज्ञानाधिकारधर्मिण्यः शैवीप्रकृतयः स्थिताः ।
याभ्यो जज्ञे[^११] महेशानौ ब्रह्मविष्णू प्रजापती ॥ १३ ॥
ताभ्यां प्रकृतिभूताभ्यां स्रष्टृत्वं परमं ददौ ।
अक्षयो विमलः सूक्ष्मो निष्कलः सकलोपि च ॥ १४॥
स्थिरे मूर्ते[^१२] परे दिव्ये परमाणुपदे स्थितः ।
मनसः प्राक्तमस्यादौ[^१३] तत्तेजःसम्प्रकाशनम् ॥ १५॥
यदासीद्धैममण्डन्तु[^१४] लौकिकं त्वापवर्गिकम् ।
महत्तत्[^१५] सर्वतो नित्यमीश्वरात्तदभूत्तदा ॥१६॥
तस्माद्बीजस्य निर्भेदः क्षेत्रज्ञः स विभुः स्मृतः ।
प्रकृतिर्वैष्णवी प्रोक्ता सा च तस्माद्विनिर्गता ॥१७ ॥
सुरासुरादिसृष्ट्यर्थं ब्रह्मत्वं[^१६] पुनरास्थिता ।
अण्डस्य भेदतः[^१७] पद्मब्रह्मणः[^१८] शङ्करात्मनः ।
ब्रह्मलोकपुरस्ताच्च पुरं तेजोमयं महत् ॥१८॥
यत् स्थानं विग्रहेशस्य ईश्वरस्य परात्मनः ।
नाम्ना शिवपुरं व्यास गतिरीश्वरयोगिनाम् ॥ १९॥
सृष्टितं क., संस्कृतं ख। ८ . . .त्म बोधौ ख.। ९ साकल्यान्मुक्तिमास्थाय - क. । १० दक्षरं(?) । ११ अन्तर्भावितण्यर्थोत्र जज्ञे शब्दः, जनयामासेत्यर्थः । १२ पूते - ख. । १३ प्राप्तत - क., प्राप्तमस्यादौ - ख., प्राक्तनस्यादौ (?) । १४ द्धैममण्डस्तु - क. । १५ महान्तं - क. ख., महान्तत् (?) । १६ ब्रह्मत्वे - क. । १७ भिद्यतः (?) । १८ पद्मं ब्रह्मणः (?) ।
शतं शतसहस्राणां योजनानां तदुच्यते ।
महीमण्डलसंस्थानं तन्मध्ये विस्तृतं[^१९] स्मृतम् ॥8.183.२० ॥
स्फुरदादित्यरूपेण वह्नेरधिकतेजसा ।
महता हैमजातेन[^२०] प्राकारेण सुवेष्टितम् ॥२१ ॥
चतुर्भिर्हेमजैर्द्वारैर्मणिमुक्ताविभूषितैः[^२१] ।
शोभितं तत्पुरं[^२२] रम्यं शुशुभे सिद्धसेवितम् ॥ २२॥
जरामृत्युश्रमव्याधिकोपमोहमदादयः[^२३] ।
न क्रमन्त्यशुभास्तस्मिन् भावाः शिवपुरे मुने ॥२३ ॥
शतं शतसहस्राणां योजनानां यथादिशम् ।
तत् पुरं वृषभाङ्कस्य सर्वव्यापि समृद्धिमत् ॥ २४॥
दिव्या मारकती[^२४] भूमिः स्पर्शमात्रसुखावहा[^२५] ।
वैदूर्यमणिकल्पानि[^२६] बालार्कसदृशानि च ॥२५॥
क्वचिद्रक्तानि पद्मानि क्वचिच्छ्वेतानि रेजिरे ।
महाह्रदप्रमाणानि नालैर्वैदूर्यसन्निभैः ॥ २६॥
गन्धवन्ति महार्हाणि विन्यस्तानि महीतले ।
इन्द्रनीलनिकाशानि महामणिनिभानि च ॥२७॥
कचित् कृष्णार्धरक्तानि दिव्यगन्धवहानि च ।
-
-
-
-
-
- तत्र उत्पलानि समन्ततः ॥२८॥
-
-
-
-
प्रवहन्ति महानद्यो यास्तस्मिन्नमृतोदकम् ।
पुरे भगवतः शम्भोः पाराशर्य निबोध ताः[^२७] ॥२९॥
वरदा च वरेण्या च वरेशा वरवर्णिनी ।
वाराही[^२८] वारिभद्रा च वरा चैव महापगाः ॥ 8.183.३० ॥
नानाकुसुमसम्मिश्रं ता वहन्ति जलामृतम् ।
न देवा न मुनीन्द्राश्च नासुराः पितरो न च ॥३१ ॥
विस्त्रितं - क. । २० जातहेमेन - क., जातरूपेण (?) ॥ २१ मुक्तामणिविभूषितैः (?) । २२ तत्परं (?) । २३ महादयः - क. । २४ मरकती - क. । २५ स्पर्शमात्रत् सुखावहा (?) । २६ तुल्यानि(?) । २७ निबोधत - क. । २८ वराही - क. ।
न चैवान्ये समर्थाः[^२९] स्युर्ज्ञातुं तत्पुरमद्भुतम् ।
अन्तर्मनसि बुद्धा[^३०] ये सर्वतो भक्तिभाविताः ।
शिवैकमनसो व्यास तस्मिन्मोदन्ति ते नराः[^३१] ॥३२॥
तस्य मध्ये पुरेन्द्रस्य सूर्यज्वलनवर्चसः ।
मेरुशृङ्गप्रतीकाशो दिग्भद्रस्तपनप्रभः ॥३३ ॥
प्रासादो लक्षपादस्तु कामगः कनकामयः ।
अनिरीक्ष्यैर्महारत्नैः[^३२] समन्तात् परिशोभितम् ॥ ३४॥
वैदूर्यैर्व्योमसङ्काशैः स्फाटिकैश्चन्द्रसप्रभैः[^३३] ।
प्रवालैरर्कसङ्काशैरिन्द्रनीलमयैः परैः[^३४] ॥ ३५ ॥
शशिरश्मिप्रकाशाभिः क्वचिदर्कांशुरूपिभिः ।
शोभितं तत्पताकाभिर्विरराज सुखानिलम् ॥३६॥
सर्वर्तुकुसुमैश्चित्रैरिच्छारत्नफलैरपि ।
शुशुभे तत्पुरं कीर्णं पादपैर्गिरिसन्निभैः ॥३७॥
महीध्राणां यथा मेरुस्सर्वेषां प्रवरो महान् ।
तथैव तत्पुरं रेजे सर्वलोकोपरि स्थितम् ॥३८॥
तत्र विश्वेश्वरः साक्षान्महाभूतपतिर्हरः ।
सदास्ते सहितः पत्न्या षड्विंशः परमेश्वरः ॥ ३९॥
लक्ष्मीर्मेधा धृतिश्चैव ह्रीः श्रीः किर्त्तिः सरस्वती ।
उमया सहितास्तत्र मोदन्ते लोकमातरः ॥8.183.४० ॥
शिवभावर्पितात्मानो ये नरा रुद्रतत्पराः ।
यत्र तत्र मृता वत्स तेषां तत्रास्पदं स्मृतम[^३५] ॥४१ ॥
ये च माहेश्वरा व्यास तिष्ठन्ते शङ्करालये ।
मुनयः शङ्करं भक्तास्तान् शृणुष्व समाहितः ॥४२॥
अहं सनन्दनश्चैव सनकः ससनातनः ।
ऋभुर्ब्रह्मा सुरज्येष्ठो नरनारायणावपि ॥४३ ॥
महेशस्य - क. । ३० शुद्धा (?) । ३१ नेतरा (रे)? । ३२ अनिरीक्षैर्महारत्नैः - क, । ३३ श्चेन्दुसप्रभैः क. ख. । ३४ पुरैः - क. । ३५ इत परं खण्डितं क पुस्तके ।
-
-
-
-
-
- शिष्यः सिद्धः पञ्चशिखस्तथा ।
मुनिर्हयशिरा यश्च यज्ञवल्कादयस्तथा[^३६] ॥४४॥
- शिष्यः सिद्धः पञ्चशिखस्तथा ।
-
-
-
-
त्र्यक्षाः शङ्करवर्ष्माणः परमैश्वर्यसंयुताः ।
तिष्ठन्तीश्वरमूलस्था गुणातीता मुमुक्षवः ॥४५॥
उत्पन्ने जगतो नाशे महाप्रलयसञ्ज्ञके ।
ईश्वरं ते समाविश्य प्राप्नुवन्त्यपवर्गिकम् ॥४६ ॥
यैश्च दृष्टानि विप्रेन्द्र शिवलिङ्गानि तानि तु[^३७] ।
केदारो मध्यमश्चैव गिरीशश्च[^३८] महालये ॥४७॥
चतुःशृङ्गेश्वरो देवः श्रीगिरौ च महेश्वरः ।
कारोहणो च देवेशो गङ्गाद्वारे च शङ्करः ।
भद्रेशश्च महादेवः शङ्कुकर्णेश्वरस्तथा ॥४८॥
महाकालेश्वरश्चैव गोकर्णे च तथा ह्युभौ ।
अविमुक्तेश्वरश्चैव यानि चान्यानि भूतले ॥४९॥
तेपि यान्ति मृता व्यास तत्पुरं[^३९] गिरिजापतेः ।
योगः[^४०] पाशुपतो यश्च मया ते परिकीर्त्तितः ॥ 8.183.५० ॥
व्रतं पाशुपतं प्राप्य सोपि तत्र[^४१] प्रवर्तते ।
भक्तिर्येषां भवे नित्यं कृतार्थास्ते नरोत्तमाः ॥५१ ॥
मृताः शिवपुरे व्यास त्र्यक्षाः पट्टिशपाणयः[^४२] ।
नन्दीशस्कन्दसङ्काशा[^४३] योगैश्वर्यबलान्विताः ॥५२॥
रुद्रा भवन्ति[^४४] ते व्यास सदा शङ्करपार्श्वगाः ।
एष ते कथितः सर्वो योगो माहेश्वरः परः ॥५३ ॥
सकलं निष्कलं चैव ज्ञात्वैवं परमीश्वरम् ।
सर्वबन्धविनिर्मुक्तः परं[^४५] मोक्षमवाप्स्यसि ॥५४॥
यज्ञावाल्कादयस्तथा - ख. । ३७ निभानि तु(?) । ३८ गिरीशस्य - ख । ३९ तत्पर - ख । ४० योगं - ख. । ४१ तेषु - ख. । ४२ पट्टशपाणयः - ख’ । ४३ नन्दीशाः स्कन्दसङ्काशा - ख. । ४४ च्यवन्ति - ख, ।
भविष्यसि च योगात्मा[^४६] ज्ञानस्यास्य प्रभावतः ।
जगात्स्थितिकरो योगी स्मार्त्तधर्मप्रवर्तकः ॥५५॥
ज्ञानशक्त्या स्मृ - - - ब्रह्माण्डोद्भकारणे[^४७] ।
स्थितिधर्मनिबोधार्थं पुराणानि[^४८] करिष्यसि ॥५६॥
यज्ञधर्मप्रचारार्थ वेदं स्वायम्भुवस्मृतम् ।
विज्ञानात् त्वमनुस्मृत्य चतुर्धा विकरिष्यसि ॥५७॥
मन्वन्तरमिदं[^४९] कृत्स्नं वैवस्वतमनिन्दितम् ।
लोकस्थितिकरा[^५०] धर्मा वेदस्मृतिपुरोगमाः ॥५८॥
त्वत्कृताः प्रचरिष्यन्ति तीर्थकृत् त्वं भविष्यसि ।
भस्मव्रतं च सम्प्राप्य पशुपाशविमोचनम् ॥५९॥
शाङ्करज्ञानसम्पन्न[^५१] ईश्वरे लयमाप्स्यसि[^५२] ।
एवमुक्तः स विप्रेन्द्रो हृष्टसर्वतनूरुहः ॥8.183.६० ॥
उपसद्य मुनीन्द्रं तं भस्मसंस्कारमाप्तवान् ।
तत्क्षणाच्चास्य योगोसौ प्रादुर्भूतो महामुनेः ॥६१ ॥
अभिवाद्य गुरुं व्यासो ब्रह्मसूनुं महौजसम् ।
शर्वायतनवीक्षार्थं विचचार महीतले ॥६२ ॥
वायुरुवाच ५३
एवं सनत्कुमारस्तु पृष्टो व्यासेन धीमता ।
मुनीन्द्रः कथयामास पुराणं स्कन्दसम्भवम् ॥ ६३ ॥
सर्वागमसमायुक्तं मन्वन्तरजगत्स्थितिम् ।
शिवयोगोद्भवं ध्यानं सर्वज्ञानार्णवं महत् ॥६४॥
तस्माद्यूयमपि ज्ञात्वा[^५४] व्रतं पाशुपतं द्विजाः ।
अभ्यस्य शाङ्करं[^५५] योगमीश्वरे लयमाप्नुत ॥६५ ॥
योगात् मां - ख. । ४७ ब्रह्माण्डे भवकारणे - ख. । ४८ पुराणा (ण) ञ्च - ख । ४९ ..मिमं - ख. । ५० लोकस्थितिकरं - ख. । ५१ शङ्करज्ञासम्पन्न - ख. । ५२ लयमेष्यसि (?) । ५३ सूत उवाच (?) । ५४ प्राप्य - ख. । ५५ शङ्करं - ख ।
इममागममन्विष्य व्यासोसौ मुनिपुङ्गवः ।
वेदार्थस्मृतिसम्बद्धा[^५६] विद्याश्चके महामुनिः ॥६६ ॥
अतो विनिर्गता धर्मा योगविद्यास्तथैव च ।
पुराणं प्रथमं प्राहुराद्यं नन्दीश्वरो[^५७] द्विजाः (?) ॥६७॥
-
-
-
-
-
- ख्यातो य इमं वेत्ति तत्त्वतः ।
त्रिवर्गः प्राप्यते तेन मुक्तिरेतेन जायते ॥ ६८ ॥
- ख्यातो य इमं वेत्ति तत्त्वतः ।
-
-
-
-
आयुः प्रवर्द्धतेनेन सर्वमेतेन लभ्यते ।
कृत्स्नस्य जगतो विप्रा आदिकर्ता यथा हरः ॥६९॥
तथा सर्वपुराणानां पुराणोयं परः स्मृतः[^५८] ।
अधीतो यैरयं[^५९] विप्रैस्तत्प - - - - - - ॥8.183.७० ॥
।
-
-
-
-
-
- ( ष्य )सायुज्यं शृणुयाद्विभोः ॥७१ ॥
-
-
-
-
सेवनाद्योगसंसिद्धिं मोक्षं च परमं लभेत् ।
आद्यं पुण्यमुमापते[^६०]र्द्विजवृषाः स्तोत्रानुवादं परं
देव्याश्चापि महाप्रभावकथनं सर्वागमैरन्न्वितम् ।
स्कन्दस्योद्भवविक्रमै[^६१] - - - - - - - -
-
-
-
-
-
-
-
-
-
-
-
-
- प्नुयुः ॥७२॥
-
-
-
-
-
-
-
-
-
-
-
नागेन्द्रैरसुरेन्द्रयक्षविबुधैः सिद्धैर्द्विजेन्द्रैरपि
शम्भावर्पितसर्वभावहृदयैर्यैयैरयं[^६२] सेवितः[^६३] ।
सर्वे ते ज्वलदर्कवह्निवपुषस्त्र्यक्षाः शशाङ्कत्विषः
देवास्यानुचरा बभुर्गणवरा - - - - - - - ॥७३ ॥
वेदार्थस्मृतिसम्बन्धा - ख. । ५७ नन्दीश्वरं (?) । ५८ पुराणमिदमुत्तमम् (?) । ५९ … रियं - ख, . .रिदं (?) । ६० पुराणः.. - ख. । ६१… विक्रमे - ख । ६२.. रिदं (?) । ६३ सेवितं (?) ।