व्यास उवाच
भगवन् सर्वयोगीश सर्वामरनमस्कृत[^१] ।
अहो ज्ञानं त्वयाख्यातमज्ञानविनिवर्तनम् ॥१ ॥
अद्याहं गतसन्देहो महादेवं परं प्रति ।
शङ्करात् प्रकृतिर्जाता ब्रह्मविष्णू तदात्मकौ ॥२॥
ज्ञात्वा षडविंशमीशानं मुच्यते बन्धनादिति ।
सर्वयोगपथात्[^२] पूर्वमुक्त्वा सकलसंहिताम् ॥३ ॥
निष्कलं सकलम्[^३] ज्ञानं कोन्य एवं प्रभाषते ।
श्रवणादस्य विप्रेन्द्र देहं मुक्तमबोधिषम्[^४] ॥४॥
परतर - ख । ५८ ज्ञानिज्ञानमन?. - ख. । ५१ षड्विंशस्य परस्य - क. । ६०… सन्धाना[त्) । - ख. । ६१ एकसप्तत्युत्तर - क । ६२१७१ - क, २२९ - ख. ।
नमस्कृतः - क. । २ मथा ख, ३ शाङ्करं - ख । ४ यत् - क. ।
त्वत्प्रसादादहं तात प्राप्तज्ञानो गताशुभः ।
विसन्देहो[^५] भवम्[^६] शान्तः प्रष्टव्यं किञ्चिदस्ति मे ॥५॥
तत्त्वाम्[^७] विज्ञापयामीदं निष्ठामाख्यातुमर्हसि ।
एवं विज्ञानसम्पन्नः प्राप्तयोगो मुनिर्मुने ॥६॥
विनाक्लेशं तनुं त्यक्त्वा योगी योगबलान्वितः ।
कथमाप्नोति तद् ब्रह्म निष्कलं परमेश्वरम् । ७॥
ईश्वराधानसम्प्राप्तेरुपायम्[^८] मोक्षलम्भनम् ।
कथयस्व मुनिश्रेष्ठ प्रष्टव्यं नान्यदस्ति मे ॥८॥
एवमुक्तः स शिष्येण व्यासेन सुमहात्मना ।
कथयामास विप्रेन्द्रः शिवसिद्धान्तनिश्चयम् ॥९॥
सनत्कुमार उवाच
शृणु व्यास परं ज्ञानमीश्वराधानकारणम्[^९] ।
स्वेच्छया[^१०] येन मुच्यन्ते[^११] योगिनो ज्ञानतत्पराः ॥ 8.182.१० ॥
त्रिधोत्क्रान्तिमिमां[^१२] ज्ञात्वा मुहुरभ्यस्य चैव हि ।
स्वदेहं रिपुवत् त्वक्त्वा[^१३] षड्विंशे लयमाप्नुयात् ॥११ ॥
या नाड्यो वाय्ववष्टब्धाः[^१४] संवरन्ति[^१५] शरीरिणम्[^१६] ।
शतं तासां शतानां तु कर्णिकामध्यमाश्रितम्[^१७] ॥ १२॥
तमाश्रित्या[^१८] स्थिता नाड्यो[^१९] नाभ्यां पादेष्वधोगताः ।
शिरोबद्धाः स्मृता भूयस्ता एव करमास्थिताः[^२०] ॥१३ ॥
करमाश्रित्य ता भूयः कर्णिकां पुनराश्रिताः ।
द्विसप्ततिसहस्राणि नाडोनामपरा[^२१] मुने ॥ १४॥
तासामेकैकशो भेदाः[^२२] सूक्ष्मसूक्ष्मतराः[^२३] स्मृताः[^२४] ।
तासु सञ्चरते प्राणः कर्णिकाव्योमसम्भवः ॥ १५॥
निःसन्देहो - ख. । ६ भवान् - क. ख. । ७ तन्त्वा - ख । ८ ईश्वरध्यानसम्प्राप्तेरुपायं - ख. । ९ ध्वानकारणम् - ख. । १० स्वेप्सया - ख. । ११ मुच्यन्ति - क ख. । १२.. .मिमं - क । १३ कृत्वा - ख. । १४ वेष्टिताष्टब्धा? - क । 7। ९ सञ्चरन्ति - ख. । १६ शरीरिण - क. । १७ समाश्रिताः - क. । १८ तमाश्रिता - ख. । १९ नाडी - क. ख. । २०. श्रिय?. - क । २१ मपरं - क ख. । २२ भेदे - क. । २३ सूक्ष्मातरा . क । २४ स्थिता - क ।
तत्रात्मा सूक्ष्मसंलक्ष्यः प्रागुक्तस्तिष्ठति द्विज ।
या प्रभा दुर्दृशा तस्य तां भजेद् योगविन्मुनिः ॥ १६॥
तत्तेजः सर्वनाडीषु विभक्तं सर्वदेहिनाम् ।
तेन नाड्यो बहिः स्पर्शान्मनः कुर्वन्ति विस्तृतम् ॥ १७॥
तत्तेजश्चक्षुषा हृत्वा सर्वनाडीसमाश्रितम् ।
मन एकगतं कुर्यात् तच्चात्मनि नियोजयेत् ॥ १८॥
वायुर्धनञ्जयो नाम्ना यो हृदि स्फुरते सदा ।
त्रीणि तस्य मुखान्याहुः शिरो नाभि[^२५] र्हृदेव च ॥१९॥
येन्ये प्राणा नवाख्याता वायवः कीर्तिता मया ।
धनञ्जयस्य सर्वे ते वशगास्तन्निबन्धनाः ॥8.182.२० ॥
तद्वशादुत्क्रमन्त्येते तस्मिँतिष्ठन्ति संस्थिताः ।
नाभीबन्धनमासाद्य[^३६] नाडीनां वक्त्रमास्थितम् ॥ २१ ॥
द्वितीयं कर्णिकायान्तु तृतीयं तालुसंस्थितम्[^२७] ।
क्षुरिका परशुः शूलं त्रिविधोत्क्रान्तिरुच्यते ॥२२ ॥
शूलं हृदि क्षुरं नाभ्यां तालौ परशुरास्थितः ।
तालुके हृदि वा[^२८] बद्ध त्रयं[^२९] नाभ्यां प्रतिष्ठितम् ॥२३ ॥
तालौ वियोजितं सर्वं प्राणमेव विमुञ्चति ।
आक्षिप्तं त्रितयं नाभ्यां कर्णिकायां वियोजितम्[^३०] ॥ २४॥
स्थितम् (?) आत्मनि संयोज्य विक्षिपेदूर्ध्वतो मनः ।
प्रयोगादस्य विप्रेन्द्र मुच्यते तत्क्षणान्मुनिः ॥२५॥
स्वच्छन्दतनुसन्त्याग एष ते परिकीर्तितः ।
धर्माधर्मनिबद्धैस्तु कर्मभिः प्रागनुष्ठितैः ॥२६ ॥
यथा[^३१] जीवो न बद्ध्येत[^३२] योगिनस्तदिदं[^३३] शृणु ।
बाह्यःशरीरजश्चैव मृत्युर्द्विविध उच्यते ॥ २७ ॥
नामा(सा) - क. । २६ नाडीबन्धनमासाद्य - ख । १७ तालुसंस्थिता - ख २८ वा हृदि - क. । २९ बन्धत्रयं - ख. । ३० वियोजयेत् - क । ३१ तथा - ख । ३२ बुद्ध्येत - ख. । ३३ …स्तदिमं - क, स्तमिमं - ख. ।
विषशस्त्राग्नियोगैस्तु सर्पदंष्ट्रिमरुज्जलैः ।
बाह्यो मृत्युरिति ख्यातः शारीरं तु निबोध मे ॥२८ ॥
रोगजः कालजो वापि मृत्युराभ्यन्तरो[^३४] भवेत् ।
कालजो जरया प्रोक्तो रोगजो व्यधिसङ्क्षयात्? ॥२९॥
दुर्लभो मृत्युरन्योयं[^३५] योगसन्धानजो मुने ।
योगोपायकृतो यश्च यश्च कालक्षयागतः ॥8.182.३० ॥
तयोर्भेदविकारे तु शृणु व्यास समासतः ।
कालक्षयाद् भवत्येको द्वितीयो मनसेप्सितः ॥३१ ॥
योयमाघोषजः शब्दः श्रूयते श्रोत्रसन्धितः[^३६] ।
स पूर्वं लीयते कूर्मे तेन वह्निस्त्यजेत् प्रभाम् ॥३२॥
निष्प्रभः स ततो वह्निः शब्दयोगाद्वियुज्यते ।
शब्दस्पर्शगुणातीतो रूपयोगं विमुञ्चति ॥३३ ॥
एवमग्नौ प्रणष्टे तु सर्व एवानिलास्ततः ।
एकतो योगमिच्छन्तो[^३७] मर्माणि विनिकृन्तते ॥३४॥
कूर्मारो[^३८] देवदत्तश्च कृकरो नाग एव च ।
उदानेनाशु संयुज्य कर्णिकायां विशन्ति[^३९] हि ॥३५॥
तत[^४०] ऊर्ध्वो भवेच्छ्वासो मनोजीवविनिर्गमः ।
ततो ज्योतिर्यदक्षिभ्यां[^४१] तत्सोमं विशति द्रुतम्[^४२] ॥३६॥
इन्द्रियाणि मनो यान्ति मनः प्राणविनिर्गमम् ।
तेषु सर्वेषु लीनेषु प्राणान् वायुर्निपीडयेत् ॥३७॥
पीड्यमानास्ततः सर्वे[^४३] ते भवन्त्येकतोनिलाः[^४४] ।
स्वं स्वं त्यक्त्वा ततः स्थानं यच्च[^४५] कर्म यदात्मकम् ॥३८॥
एकस्था वायवः सर्वे पूरयन्ति धनञ्जयम् ।
शेषस्तत्र हि कूर्मारो जीवं त्यक्त्वा स तिष्ठति ॥ ३९ ॥
मृत्युरभ्यन्तरो - ख. । ३५ रभ्यासाद् - क. । ३६ सन्धिते (तैः) - ख. । ३७ लोकमिच्छन्तो - ख. । ३८ कुर्मारो - क ख. । ३९. ..माविशन्ति - ख. । ४० अतः - ख, । ४१ ज्योतिर्यदक्षिभ्यां - क. । ४२ द्रुते - ख. । ४३ भवन्त्येकगतो - क., भवन्त्यन्तगतो - ख. । ४४ ता - ख. । ४५ धर्म - ख. ।
मनोबुद्धिरहङ्कारश्चेतो जीवस्तथैव च ।
निष्क्रमन्ति ततो देहात्त्वरितं वायुनेरिताः ॥8.182.४० ॥
प्रागुपात्तस्ततोस्यान्यो देहः सूक्ष्मो विजायते ।
स तत्र सन्धितो[^४६] जीवो भूयो मूढश्च तिष्ठति[^४७] ॥४१ ॥
एवं कालकृता ह्येषा सर्वभूतगणस्थितिः[^४८] ।
विना योगं न जीयेत सूक्ष्मं माहेश्वरं पदम् ॥५२ ॥
उपविष्टः प्रसुप्तो वा उत्क्रान्त्यभ्यस्तसंयमः[^४९] ।
स्वेच्छया मुच्यते व्यास ज्ञात्वा तन्तुः[^५०] महेश्वरम् ॥४३ ।
क्षुरिकां परशुं वाथ शूलं वा धारयेन्मुनिः ।
ततः सर्वेस्य लीयन्ते[^५१] विकाराः करणैः सह ॥४४॥
वीक्षते चेश्वरं ब्रह्म षड्विंशं स्वतनुस्थितम् ।
मनस्तीव्रं जडं जन्तोः प्रयच्छति विपद्यतः[^५२] ॥४५ ॥
स रुजा मोहमापन्नो ज्ञानवस्तु न विन्दति ।
अनेन कर्मणा विप्र सर्वरुक्परिवर्जितः ॥४६ ॥
सुखमारोहति ब्रह्म हर्म्यपृष्ठं[^५३] तलादिव ।
पदार्थं पञ्च विज्ञाय दुःखान्तपरिनिष्ठितः ॥४७॥
पञ्चभिर्ब्रह्मभिः पूतो भस्मसा[^५४] दीक्षितो द्विजः ।
शङ्करैकमना योगी ज्ञानमेतदवाप्नुते ॥४८ ॥
माहेश्वरमिमं योगं निष्कलं मुक्तिकारणम्[^५५] ।
यत्नादपि न विन्दन्ति व्रतमप्राप्य शाङ्करम्[^५६] ॥४९ ॥
स त्वं व्यास महाबुद्धे[^५७] चरन्[^५८] पाशुपतं व्रतम् ।
महादेवपरो भूत्वा ज्ञानमेतदवाप्नुहि ॥8.182.५० ॥
नैवमेतत्[^५९] परं ब्रह्म अन्ये विन्दन्ति योगिनः ।
महादेवं प्रपन्ना[^६०] ये तान्मुक्त्वा शिवयोगिनः ॥५१ ॥
तत्रापस्थितो (?) । ४७ मूढस्मृति? - क. ’ ४८. गणास्थिति - ख. । ४९ उत्क्रान्ताभ्यस्तसंयमः -ख.। ५० तत्त्वं - ख. । ५१ लीयन्ति - ख. । ५२ विपद्यते - ख. । ५३ हर्म्यमृष्ठे - क. ख. । ५४ भस्मना (?) । ५५ मूर्तिकारणं - क, मूर्त्तकारणम् - ख । ५६ शङ्करम् - क. ख. । ५७ महाप्रज्ञ - ख. । ५८ चर - ख. । ५९ दैवमेतत् - ख. । ६० महादेव प्रपन्ना - क ।
एष[^६१] मोक्षविधिः कृत्स्नः[^६२] सर्वप्रत्ययवजितः[^६३] ।
निष्कलः[^६४] कथितो व्यास परो यस्मान्न विद्यते[^६५] ॥ ५२॥
एवं पाशुपता विप्रा निष्कलं तं महेश्वरम् ।
योगादाविश्य मुच्यन्ते[^६६] पुनर्जन्मविवर्जिताः ॥५३ ॥
सकलस्यास्पदं दिव्यं ब्रह्मलोकात् परे[^६७] स्थितम ।
महादेवस्य वक्ष्यामि तद्भक्ता यत्र यान्ति ते[^६८] ॥५४॥
इति स्कन्दपुराणे पाशुपतयोगवर्णने योगविधौ नवमः द्व्यशीत्युत्तर[^६९] शततमोध्यायः[^७०]