१८१

सनत्कुमार उवाच
आत्मा सूक्ष्मो मनोबुद्धिरहङ्कारो गुणास्तथा ।
भूतानीन्द्रियसङ्घातस्तन्मात्राणि दशानिलाः[^१] ॥१ ॥

विभक्ताः क्रमशो देहे विभागेन यथाश्रयम् ।
स्वप्नजाग्रत्सुषुप्तेषु[^२] स्थानेषु त्रिषु सुव्रत ॥२ ॥


स्तन्मात्रण्यनिलात्मकः - ख. । २ जाग्रत्स्वप्नसुषुप्तेषु (?) ।
सुषुप्तेषु ()


हृदये कर्णिकायान्तु यत् पद्मं सर्वतोमुखम् ।
वेष्टितं तन्तुभिः[^३] सूक्ष्मैस्तदूर्ध्वं सर्वदेहिनाम् ॥ ३ ॥

आत्मा तत्र सजीवस्तु समनस्कः[^४] प्रतिष्ठितः ।
तत्[^५] सुषुप्तमिति प्राहुः संसिद्धाः शिवयोगिनः ॥४॥

ज्वालिनी[^६] स्तिमिता धूम्रा विद्युन्मेघा विशालिनी ।
मालिनी शङ्करी चैव सुमैत्री बोधनी तथा[^७] ॥५॥

एता दश[^८] महानाड्यो जीवे तस्मिन् प्रतिष्ठिताः ।
शयानं प्रतिबुद्धं वा यास्ता बिभ्रति देहिनम् ॥ ६ ॥

शब्दादिविषयेभ्यस्तु आत्मा सर्वगतश्च यः ।
अग्निवायुसमायुक्तो जीव इत्युच्यते पुनः ॥७॥

अहङ्कारो मतो बुद्धिर्भावाश्चेतश्च देहजाः ।
सह जीवेन तिष्ठन्ति धारयन्तः शरीरिणम् ॥८॥

त एव सहिताः सर्वे जीवश्चैव तु पञ्चमः ।
कर्णिका तन्तुभिर्व्योम्नि संस्थिता सर्वतोमुखाः ॥९॥

स्थितो मनसि सूक्ष्मस्तु शीतांशुर्नाम तन्तुकः ।
चेतः स एव सम्प्रोक्तः स एव पुरुषः स्मृतः ॥ 8.181.१० ॥

अहङ्कारोथ जीवस्तु तन्तुर्भास्करसम्भवः[^१०] ।
मनः सोमः सुखं ब्रह्मा ज्ञानं[^११] धर्मो[^१२] रतिस्तथा ॥११ ॥

रसमात्मा महौषध्यः सत्वजो भावविस्तरः ।
अहङ्कारो हुताशश्च मृत्युर्दुःखमथामयम्[^१३] ॥१२॥

कामरोषौ जरा तृष्णा अधर्मश्चेति तामसाः ।
विष्णुर्बुद्धिस्तथा कार्यं कारणं[^१४] भूमिरेव च ॥ १३ ॥

ज्ञानं वैराग्यमाकाशं राजसो[^१५] भावविस्तरः[^१६] ।
जीवमध्ये स्थिता सूक्ष्मा विधूमा पावकी शिखा ॥१४॥


दशभिः - क. ख. । ४ सुमनस्कः - क. । ५ तं - ख. । ६ ज्वलिनी - क. । ७ स्नुषा - ख. । ८ एकादश - ख. । ९ - स्सर्वतोमुखा - ख., - मुखाः (?),. .. मुखी (?) । १० सञ्ज्ञकः (?) । ११ ब्रह्मज्ञानं - क. । १२. .ज्ञानैश्वर्यो (र्ये?) - क. । १३ मृत्युर्दुःखमनामयम् - क. ख. । १४ कार्यकारणे - क.। १५ राजसं - क. ख. । १६ विस्तरम् - क. ख. ।


अमृतं सर्वभूतानां गतिश्चैव हि सा परा ।
मध्ये तस्याः स्थितं सौम्यममृतं शशिमण्डलम् ॥ १५॥

मध्ये तस्याग्निसङ्काशो जीव ईशः[^१७] प्रदृश्यते ।
सरसा लोहिता मुख्या प्रीता रसवती तथा ॥१६॥

विधूमा चामृता चैव निकुण्ठा बहुविस्तरा ।
एताः सूक्ष्मतरा नाड्यः सम्भिद्य दशपावकम् ।
तर्पयन्ति सदा सोमं भूताधारं पयोमृतम् ॥ १७॥

स ताभिस्तर्पितः सोमः[^१८] सर्वान्नरसवीर्यतः ।
सञ्छादयति वृद्धस्तां[^१९] जीवमध्यगतां शिखाम् ॥ १८ ॥

तदेवामृतमाख्यातमीश्वरास्पदमुत्तम् ।
रसो यदा हि सोमस्य शिखया कर्षितोधिकम्[^२०] ॥ १९॥

जागर्त्येष तदा जन्तुः सर्वयोनिसमुद्भवः ।
यामृतेत्यपरा नाडी सा तु स्वप्ने[^२१] प्रतिष्ठिता ॥ 8.181.२० ॥

यदासौ सोममापीति? सुप्त इत्युच्यते तदा[^२२] ।
उभावेतौ मुनिर्जित्वा स्वप्नजागरणाश्रयौ ॥ २१ ॥

अजाग्रन्नस्वपँश्चैव ध्यानयोगेन चिन्तयेत्[^२३] ।
ममत्वाद्याश्च ये भावा मनसश्चैव याः[^२४] घृणा ॥२२ ॥

न बुद्धेर्यच्च वैराग्यं तेन बुध्यन्ति योगिनः ।
मन्यते[^२५] यन्मनः[^२६] किञ्चिद् बुद्धिर्यच्च विकल्पयेत् ॥२३ ॥

यद्वा कुर्यादहङ्कारस्तज्ज्ञानात् सर्वमुत्सृजेत् ।
निष्क्रियस्य कुतः कर्म तद्विना बन्धनं कुतः ॥ २४॥

कर्मबन्धविहीनस्तु संशुद्धो बद्ध्यते[^२७] कथम् ।
य इमान् विषयान् केचिन्न विद्युः सोमसम्भवान्[^२८] ॥२५॥

भोक्ता वह्निः[^२९] स्मृतस्तेषां तज्ज्ञाता केन बद्ध्यते[^३०] ।
इति ज्ञात्वा त्यजेच्चिन्तां भवेद्योगपरः सदा ॥२६॥


ईषिन् ( ईषत्?) - क. । १८ सोमो - ख । १९ वृद्धां तां - ख. । २०.. धिक. - क । २१ सुषुप्ते - ख. । २२ सदा - ख. । २३ ध्यानयोग विचिन्तयेत् - क. । २४ ये - ख. । २५ मन्यन्ते - क. ख २६ यन्मयः - क. । २७ मुच्यते - क. ख. । २२ विद्यात्सोमसम्भवान् - क. ख. । २९ भोक्तृवह्निः - ख. । ३० बद्ध्यति - क. ख. ।


वह्वेर्यदौष्ण्यं तत्पापं तेजोधर्म उदाहृतः ।
प्रकृतिर्या स जीवस्तु या शिखा स महेश्वरः ॥२७॥

यो दहेत्[^३१] तेजसा वह्निं[^३२] न च तेन विदह्यते[^३३] ।
अतीता प्रकृतिस्तेन वित्त[^३४]स्तेन महेश्वरः ॥२८॥

कर्मबन्धो ह्ययं लोको निष्कर्मा बद्ध्यते कथम ।
निर्ममा योगविदुषः शङ्करव्रतमास्थिताः ॥२९॥

गच्छन्ति स्वतनुं त्यक्त्वा हित्वा[^३५] मायां परं पदम् ।
इदमन्यत् परं ज्ञानमस्मात् सूक्ष्मतरं पुनः ॥8.181.३० ॥

प्रवक्ष्यामि तव व्यास भक्तस्त्वमसि शङ्करे ।
योगिनोन्ये न जानन्ति यद् गुह्यं परमाद्भुतम्[^३६] ॥ ३१ ॥

मुक्त्वा पाशुपतान् सिद्धान् यन्न भूतेषु विद्यते ।
मनो बुद्धिरहङ्कार इन्द्रियाणि गुणत्रयम् ॥ ३२ ॥

न स्पृशन्ति तदात्मानं[^३७] विकारास्तस्य ते बहिः ।
सर्वत्र दृश्यते सोथ न च सर्वैः प्रदृश्यते ।
स एवं दृस्यते ध्यानान्नान्योपायात् कथञ्चन[^३८] ॥३३ ॥

सर्वभावगुणातीतं सुचिन्त्यं[^३९] परमेश्वरम् ।
ज्ञानेन ये प्रपश्यन्ति योगिनस्ते परे स्मृताः ॥३४॥

छायैषा दृश्यते या तु चक्षुर्विषयमाश्रिता ।
स जीवः कीर्तितो व्यास स्थितिहेतुः शरीरिणाम् ॥३५॥

तत्रास्ते स परो ह्यात्मा सूक्ष्मो मध्यगतोव्ययः
महानागः स्मृतो नाम्ना वायुराकाशगोचरः ॥३६॥

आकाशे कर्णिकायां च नाड्यां जीवे च संस्थितः ।
गान्धारी विजया चैव सञ्ज्ञया तलवर्तिनी ॥ ३७॥

नाग एतासु नाडीषु वायुः सम्परिवर्तते ।
सा जया[^४०] विजया या च द्वे ते प्राणवहे स्मृते ॥३८ ॥


देह - क. । ३२ वह्निर्न - ख. । ३३ विदह्यति - क. ३४ विद्धः - ख., विन्नः - क. । ३५ भित्वा - ख । ३६ परमद्भुतम् - ख. । ३७ तमात्मान (?) । ३८ तानुपायान् - क.,.. .पायान्न तु - ख. । ३९ स्वभावगुणातीतम- चिन्त्यं - ख. । ४० सञ्जया (?) ।


अपाने तलगान्धार्यौ नाड्यौ नागेन संयुते ।
योगादपानमनसोर्नागेन समुदीरिताः[^४१] ॥३९ ॥

स प्राणो बहिरन्तश्च तर्पयन् हव्यवाहनम् ।
वृद्धं[^४२] सन्धारयेद् देहमायुषा च बलेन च ॥8.181.४० ॥

नाडी त्वन्या सुषुम्णेति[^४३] सोमवह्निमनःस्थिता ।
सास्मिन् सधातुके देहे कूर्मारे[^४४] चानिले स्थिता ॥४१ ॥

गुल्फे[^४५] करतले[^४६] सक्ता[^४७] निकुञ्चा सप्रसारिणी[^४८] ।
समानव्यानसंयुक्ता रक्तमांसे हि तर्पयेत्[^४९] ॥४२॥

उदानो योपरो वायुर्यञ्ज कूर्मार[^५०] उच्यते ।
नाड्यां नाभिनिबद्धायां तुलायां तौ प्रतिष्ठितौ ॥४३ ॥

अध एकश्चरेन्नाड्या वायुरन्यस्तदूर्ध्वगः ।
अधःस्थः पादसम्बद्ध ऊर्ध्वगः शिरसि स्थितः ॥४४॥

यो वायुर्देवदत्ताख्यः कृतको[^५१] योपरोनिलः ।
वह्निसोमनिबद्धौ तौ प्राणहेतू महाबलौ[^५२] ॥४५॥

एको विवर्द्धयत्यग्निमन्यः सोमञ्च तर्पयेत्[^५३] ।
देवदत्तमहानागकृतकूर्मधनञ्जयाः[^५४] ॥४६ ॥

प्राणास्ते पञ्च विख्याता वह्नयो- - याजिनः ।
हुतमेषु यदिष्टं वा सोमं तदुपतिष्ठति[^५५] ॥४७॥

सोमं विशन्ति यज्वानो न तेषां मुक्तिलक्षणम् ।
दीप्तिरग्नेः स्मृता या तु ओषधिभ्यश्च यद्रसम् ॥४८॥

तर्पणं यच्च सोमस्य कर्णिकायां तदास्थितम् ।
नेत्रेषु दृश्यते योयं ज्योतिः छायाप्रकाशकः ॥४९॥

स जीवः सर्वसत्वानामात्मा तत्र समास्थितः ।
ज्योतिषोन्तर्गतः सूक्ष्मस्तद्धर्मं[^५६] परमं स्मृतम् ॥8.181.५० ॥


समुदीरितां - ख., समुदीरिते (?) । ४२ वृद्धः - ख । ४३ सुषुम्नेति - क., सुसुप्तेति - ख. । ४४ कुर्मारे - ख., कुमारे - क. । ४५ गुल्फा - क. । ४६ खुरतले - क., करतला - ख. । ४७ शक्ते- ख । ४८ सुप्रसारिणी - क. । ४९ ह्यतर्पयेत् - क ख. । ५० कुर्मार - क. । ५१ कृकको( लो) (?) । ५२ समानिलौ - ख. । ५३. .मतर्पयत् - क ख. । ५४ कृककूर्मधनञ्जयाः - ख, । ५५ तदुपतिष्ठते - ख. । ५६ तद्धर्मा - क., तद्धर्म - ख. ।


तच्चामृतं समाख्यातं ज्ञानलभ्यं तदुच्यते ।
तस्मात् परतरा[^५७] नास्ति ज्ञानविज्ञानयोर्गतिः[^५८] ॥५१ ॥

ज्ञात्वैवं सन्त्यजेन्मोहं गुणत्रयविकारजम् ।
अभिन्नस्यात्मनस्तस्य षड्विंशस्येश्वरस्य[^५९] ॥५२ ॥

भेदं भगवतः कुर्यात् कोन्यो योगविशारदः ।
निरञ्जनं निर्विकल्पं प्रभुं तं न विकल्पयेत् ॥५३ ॥

विमोहास्त्यक्तसंसर्गाः क्रियाकार्यविवर्जिताः ।
तं विशन्ति महेशानमीश्वरव्रतचारिणः ॥५४॥

इतीदं योगमाख्यातं व्यास माहेश्वरं तव ।
सम्यगीश्वरसन्धानं[^६०] यदन्यत्र न विद्यते ॥५५॥

सन्देहो यत्र ते विप्र प्रष्टव्यं यच्च मन्यसे ।
तद् ब्रह्मन् परिपृच्छाशु नावक्तव्यं तवास्ति मे ॥५६ ॥

इति स्कन्दपुराणे पाशुपतयोगवर्णने योगविधावष्टमोयमेकाशीत्युत्तर[^६१] शततमोध्यायः[^६२]