१८०


योजयन् (?) । ३६ सर्वतो मनः - ख. । ३७ भवेत् ख., चरेत् (?) ’ ३८ सार्थिकं - क । ३९ श्वेत (? ) । ४० कृत्स्नं - ख । ४१ गुणं - ख. । ४२ यच्च (?) । ४३ गुह्यं (?) । ४४. मद्य (?), मया (?) । ४५ ऊनसप्तत्युत्तर - क । ४६१६९ - क., २२७ - ख. ।


सनत्कुमार उवाच
ब्रह्माद्या देवता व्यास दक्षयज्ञवधे पुरा ।
शङ्करं शरणम्१ जग्मुर्वीरभद्रभयार्दिताः ॥१ ॥

गणेन्द्रेणाभियुक्तास्तु२ भस्मकूटानि भेजिरे ।
यदा भस्म प्रविष्टास्ते३ तेजः शाङ्करमुत्तमम्४ ॥२॥

अभवंस्ते तदा रौद्राः५ पशवो दीक्षिता इव ।
भस्माभसितगात्राणाम्६ शङ्करव्रतचारिणाम् ॥३ ॥

स्वं योगं प्रददौ तेषां तदा देव उमापतिः ।
सर्वासाम्७ मोक्षविद्यानां यत्तत्त्वमतिरिच्यते ॥४॥

हिरण्यगर्भप्रमुखैर्योगिमुख्यैः प्रवर्तितः८ ।
यो योगः सकलो व्यास कृच्छ्रोपायप्रसाधनः ॥५॥

जन्मान्तरसहस्रैस्तु तमभ्यस्य महामुने ।
प्राप्नुवन्ति परम्९ ज्योतिर्योगैश्वर्यमथापि वा ।
योयं भगवता साक्षाद् योगो माहेश्वरः परः ॥६॥

तत्त्वतः कथितस्तेषां प्रपन्नानां१० दिवौकसाम् ।
अस्य सम्यक् परिज्ञानादनेनैव तु जन्मना ॥७॥

व्रतं पाशुपतं प्राप्य षड्मासाज् ज्ञानमाप्नुते ।
योगैश्वर्यं महद्११ व्यास यदवाप्य विमुच्यते ॥८॥

सर्वधर्मं बहिः कृत्वा निष्कलस्य प्रभावतः ।
दीक्षां पाशुपतीं प्राप्य तं१२ विशन्ति महेश्वरम् ॥९॥

सर्वज्ञानसमायुक्तं तपोधर्मबहिष्कृतम्१३ ।
भस्मसाधनमात्रं तु शिवेन कथितं व्रतम् ॥8.180.१० ॥

पापिष्ठा धर्मवन्तो वा भक्ताः केवलमीश्वरम् ।
सेवनाद्यस्य मुच्यन्ते तन्निबोध महाव्रतम् ॥ ११ ॥


शरणं शङ्करं - ख- । २ संयुक्ता - ख- । ३ प्रदीप्तास्ते - ख. । ४ शङ्करमुत्तमम् - क. ख. । ५ महारौद्राः - क । ६ भषित (रुषितः )गात्राणां - ख. । ७ सर्वेषां - क. ।८ प्रवर्तितम् - क । ९ यदि - ख. । १० प्रसन्नानां - क. । ११ गतो - ख. । १२ मा - क. ख. । १३ तयोधर्मविहिष्कृतम् - क. ।


अधर्मं न विना धर्मो न च धर्मं विनाशुभम् ।
एतौ परस्परं बद्धौ त्यक्त्वा तस्मादिमावुभौ ॥१२ ॥

धर्माधर्मपरित्यक्तश्चरेत् पाशुपतं व्रतम् ।
ततो योगमिमं प्राप्य महदैश्वर्यमाप्नुते ॥ १३ ॥

भस्मग्रहणमात्रात्तु१४ ते सर्वबन्धप्रमोचनम् ।
मुच्यते स्पृष्टमात्रस्तु१५ ब्रह्मपूतेन१६ भस्मना ॥ १४॥

दहेत् सोमकृतं वह्निरीश्वरं चानलं१७ विदुः ।
कृताकृत दहत्यग्निर्भूयः१८ सोमसमागतः१९ ॥ १५॥

भस्मना मोचिताः सर्वे ब्रह्माद्या अभिमानिनः ।
भस्मनस्तेजसो२० वीर्यं भस्म पावनमीश्वरम् ॥१६॥

आत्मानमुद्धरेद्२१ व्यास२२ यः स्नानं भस्मना चरेत्२३ ।
भस्मना शिवयोगेन मुच्यते पाशबन्धनात्२४ ॥१७॥

प्रभवन्ति सुराः सोमात् पितरो वह्निसम्भवाः२५ ।
वह्निसोमात्मकं२६ तस्माज्जगत्सर्वं प्रतिष्ठितम् ॥१८॥

ईश्वरोग्निश्च सोमश्च भस्म तत्तेज उच्यते ।
तेजसा तस्य संस्पृष्टो मुच्यते जन्मना२७ द्विज२८ ॥१९ ॥

साङ्ख्यं विद्यास्तपश्चैव त्यक्त्वा धर्मांश्च वैदिकान् ।
केवलं भस्मसंस्नानात् पूतो गच्छति तत्पदम् ॥8.180.२० ॥

विषयानपि संसेव्य बह्वधर्मरतोपि सन्२९ ।
पश्चाद् भक्तिपरः शम्भोर्भस्मनैव३० हि शुद्ध्यति ॥२१ ॥

आत्मानं यः३१ पशुं कृत्वा महादेवं हुताशनम् ।
दीक्षितो ब्रह्मभस्मभ्यां शिवयाजी मुनिर्भवेत३२ ॥२२॥


तन्मात्रात् - क, तन्मात्रं - ख., तन्मात्रं तु (?)। १५ सृष्टमात्रस्तु - ख । १६ ब्रह्मभूतेन (?) । १७ चालनं क । १८ दहेदग्निर्भूयः - ख । १९ समागतम् - क । २० भस्मसस्तेजसो - क. ख । २१ शङ्करे - ख. । २२ न्यस्य - ख. । ३ भस्मसाचरेत् - क ख । २४ पापबन्धनात् क। २५ सम्भवान् (त्) - क । २६ वह्नीसोमात्मकं - क ख । २७ जन्मनो ? । २८ द्विजं - क, द्विजः - ख. । २९ सः - ख. । ३० भस्मसैव - क ख. । ३१ स - ख. । ३२ शिवयाजिमुनिर्भवेत् - क., शिवयोगी ? ।


शीघ्रमेव परं योगं प्राप्य मुच्येत३३ बन्धनात् ।
एवं व्रतमनुप्राप्य भूत्वा पाशुपतो मुनिः ॥ २३ ॥

इदं३४ माहेश्वरं ज्ञानं३५ गुह्यं परममभ्यसेत् ।
ज्ञेयं ज्ञानं तथा ज्ञाता त्रयं देहे यथा स्थितम् ॥ २४॥

आत्मा यश्च यथा चासौ स्थानत्रयसमास्थितः ।
नाडीषु च यथा ह्यात्मा आत्मन्येवानुतिष्ठति ॥२५॥

सर्वतः सर्वभूतेषु निगूढस्तिष्ठते यथा ।
पयसीव घृतं व्यास यं विदित्वा विमुच्यते ॥२६॥

न स वेत्तुं३६ विना ज्ञानं शक्य आत्मा कथञ्चन ।
रूपशब्दरसातीतं कस्तं वेत्ति महेश्वरम् ॥२७॥

तथा ह्यहं महाभाग प्रसादात्३७ त्र्यम्बकस्य तु ।
आत्मज्ञानषरोपायं कथयामि तवानघ ॥ २८॥

सर्वमेव तमः पूर्वमिदमासीज्जगत् किल ।
न देवा नानिलो न द्यौर्न सूर्यश्चन्द्रमा न च३८ ॥ २९॥

न किञ्चित् सर्वथा भूतं३९ दृश्यते जगति स्थितम ।
शुद्धं विमलमाभाति अक्षरं परमैश्वरम् ॥8.180.३० ॥

सर्वभावगुणातीतं निर्विकल्पं निरञ्जनम् ।
बहिरन्तश्चरं दीप्तमविनाशि वरं ध्रुवम् ।
यथा तदक्षरं ब्रह्म प्रोच्यमानं तथा शृणु ॥ ३१ ॥

ओमित्येकाक्षरं पूर्वं क्षरं तस्माद्विनिर्गतम् ।
व्यक्षरश्च त्रिमात्रश्च ओङ्कारो ब्रह्म शब्द्यते ॥३२ ॥

अकारे तत्र विष्णुस्तु उकारे तु पितामहः ।
मकारे भगवानीशो मात्रायां प्रकृतिः स्मृता ॥३३ ॥

ब्रह्मविष्णू४० स्मृतौ यौ तौ४१ देवावीश्वरनिर्गतौ ।
प्रकृतिस्त्रीत्वमास्थाय४२ नित्यन्तावीशपार्श्वगौ४३ ॥३४॥


मुच्यति - क. ख- । ३४ इम - क. ख । ३५ योग (?) । ३६ नावसेतु - ख । ३७ महाया (यो)गप्रसादात् - ख. । ३८ न सूर्यो न च चन्द्रमाः (?) । ३९ सर्वभूतानां - ख. । ४० ब्रह्माविष्णु - क. ख. । ४१ तु - क ख. । ४२ प्रकृतिः स्त्रीत्वमास्थाय ( ?) । ४३ तिष्ठन्तावीशपार्श्वगौ - क. ।


पत्नीरूपेण सा शम्भुं भजते प्रकृतिस्सदा ।
क्षरन्तु प्रकृतिः४४ ख्याताक्षरस्तु४५ स्वयमीश्वरः ॥३५॥

ईश्वरान्निर्गता सा हि प्रकृतिर्गुणबन्धना ।
तस्याः स्रष्टा महादेवो यतो विष्णुपितामहौ ॥ ३६॥

प्रजापती समुत्पन्नौ गुणत्रयनिबन्धनौ ।
तावाक्रम्य महेशस्तु प्रकृतिस्थौ गुणात्मकौ ॥३७॥

मकारस्थो विभुर्भूत्वा भुङ्क्ते सञ्चरते च हि ।
गुह्यमेतत् परं ज्ञात्वा मयोक्तं तत्त्वमक्षरम्४६ ॥३८॥

येनैव४७ घ्यानिना४८ व्यास ईश्वरोसौ विकल्पितः ।
स तमाविश्य मुक्तात्मा कृतार्थो जायते मुनिः४९ ॥३९॥

नैनं जानन्त्यमार्गस्थास्तर्कहेतुपरायणाः ।
भोक्तारं प्रकृतेरीशं परं षड्विंशसञ्ज्ञितम् ॥8.180.४० ॥

ओङ्कारः५० प्रकृतिर्नित्यं तन्मध्ये चेश्वरः स्थितः५१ ।
पयोमध्ये यथा व्यास सर्पिरन्तर्गतं स्थितम् ॥४१ ॥

ओङ्कारं ध्यायता येन५२ अतीत्य प्रकृतिं मुने ।
ईश्वरोसौ महान् विन्नः स मुक्तः पशुबन्धनैः ॥४२॥

ईश्वरी प्रकृतिः ख्याता गुणबन्धाद्विमोहनी ।
ब्रह्मत्वाद् बृंहणी ह्ये षा विष्णुत्वाद्विभवाश्रिता ॥४३॥

प्रसादादीश्वरस्यैषा प्रकृतिस्त्रिगुणात्मिका५३ ।
साभिमाना भवस्रष्ट्री५४ भोक्ता तस्या महेश्वरः ॥४४॥

अष्टबाहुस्त्रिपादा च पञ्चदेहमुखी तथो ।
द्विनेत्रा पञ्चकर्मस्था सप्तवाजिरथोपगा ॥४५।
जगन्माता स्मृता ह्येषा गुणत्रयविकारजा ।
उभे शुभाशुभे तस्यान्५५ विद्याविद्ये तथा ह्युभे ॥४६॥


अक्षरप्रकृतिः - ख. । ४५ क्षरस्तु - ख. । ४६ तत्त्वतोक्षरः - क । ४७ येनैवं - ख । ४८ ध्यानिनो- ख. । ४९ मुने (?) । ५० ओङ्कारं - ख. । ५१ चेश्वरं स्थितं - क. । ५२ ध्यायतो नित्यं - ख. । १३ स्त्री गुणात्मिका - क, । ५४. .भवत् स्रष्टी - क., .. .भवत्स्रष्टा - ख. । ५५ तस्यां - ख. ।


उद्भवोथ प्रणाशश्च क्रियानुष्ठानमेव च ।
निमित्तं चाभवद्योनिर्भावाः५६ सङ्क्षेपतस्त्वमी ॥४७ ॥

ईश्वराज्जात ओङ्कारः५७ स च तस्मिन् प्रतिष्ठितः ।
ओङ्कारात् सर्वमुत्पन्नमाब्रह्मभवनं५८ जगत् ॥४८ ॥

अतः कृत्वा महाभाग योगिनः कपिलादयः ।
ओङ्कारं परमं५९ ब्रह्म निर्विकल्पमुपासते ॥४९॥

स एव सर्वगो ह्यात्मा कारणं च स एव तु ।
एवं प्रकृतिभूतौ तावोङ्कारप्रभवौ स्थितौ६० ॥8.180.५० ॥

ईशभोज्यौ गुणात्मानौ ज्ञात्त्वा विष्णुपितामहौ ।
तत्सृष्टौ वेदयज्ञाख्यौ मुक्त्वा धर्मनिबन्धनौ ॥५१ ॥

महामोहौ तमोनिष्ठौ६१ विषयासङ्गसंयुतौ ।
सत्वपूर्वौ रजोमध्यौ सुखदुःखान्वितौ सदा ॥५२॥

संसारभ्रमणौ मूढौ सर्वानित्यसमायुतौ ।
ईश्वरेप्सुर्भवेद्विद्वान् ध्यायोगपरायणः ॥५३ ॥

तस्मात् प्रकृतिरुत्पन्ना तस्मिन्नेव प्रणश्यति ।
येनासावीश्वरो विन्नो योगेनात्मनि संस्थितः ।
प्रकृतिस्तं न बध्नाति मुच्यते च भवार्णवात् ॥५४॥

इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ सप्तमः अशीत्युत्तरशततमोध्यायः


चारुव द्योनिर्भावाः - क, चाभवेद्योनिर्भावाः - ख. । ५७ जायतोङ्कारः - क. । ५८ भुवनं (?) । ५९ ओङ्कारपरमं - क. ख. । ६० प्रभवास्थितौ - क. ख. । ६१ महामोहतमोनिष्ठौ (?) । १ स्तन्मात्रण्यनिलात्मकः - ख. । २ जाग्रत्स्वप्नसुषुप्तेषु (?) ।
सुषुप्तेषु ()