१७९

सनत्कुमार उवाच
अन्तःकरणसंसिद्धो यो महान् कथितो मया ।
पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च ॥ १ ॥

पञ्चभूतं मनश्चात्र विकाराः षोडश स्मृताः ।
महान् बुद्धिरहङ्कारस्तन्मात्राणि च१ पञ्च हि ॥२॥

इमाः प्रकृतयो व्यास देहमष्टौ समाश्रिताः ।
तत्त्वानि तु२ चतुर्विशत्येतान्युक्तानि३ योगिभिः ।
देहमेभिरवष्टब्धं त्रैलोक्यव्यापिभिः स्थितम् ॥३ ॥

नाभिमध्ये तु नाडीनां शतमेकं प्रतिष्ठितम् ।
सर्वाङ्गेषु तु यास्त्वन्या जलान्नरसवाहिकाः४ ॥४॥


ओङ्कारं - ख. । १९ शब्दस्पर्शादोनिग्रहात् - (?) । २० यो गदोवानशेषतः - क. ख. । २१. ..ममृतं - ख.। २२ तदवाप्नुयात् - ख. । २३ ध्यानविधौ (?) । २४ अष्टषष्ट्युत्तर - क. ।
तु - क. । २ च - ख । ३. .देतान्युक्तानि - क. ख. । ६ रसवाहिनः - क., रसवाहिनी - ख. ।


तासां त्रिंशत् सहस्राणि व्यानस्रोतसि५ संस्थिताः ।
उदानस्यापरा नाड्यो६ ब्रह्ममूर्ध्नि प्रतिष्ठिताः ॥५॥

चक्रनाभी समाश्रित्य७ भूतसङ्घातमास्थितम् ।
तन्मध्ये तु गुणस्पृष्टः८ कर्मात्मा भूतमोहनः ॥६॥

नक्षत्रोद्योतसङ्काशो ज्योत्स्ना पुञ्जनिभः प्रभः९ ।
विघातजननोन्येषां सूर्यायुतनिभः१० स्थितः ॥७॥

सम्भूतोग्निरिवोत्पाती गिरिनीहारसन्निभः ।
गुणस्थो भूतयोनिस्तु पुरुषः पञ्चविंशकः ॥८॥

तस्यापि परतः शुद्धो महानग्निरिवोत्थितः ।
अर्चिष्मान् सर्वतो दीप्तो निर्विकल्पो निरञ्जनः ॥९॥

निर्धूमाङ्गारसकाशो नविज्ञातागमक्रियः ।
षड्विंशः पुरुषः सूक्ष्म ईश्वरः परमो विभुः ॥ 8.179.१० ॥

स एष११ कथितो व्यास परेषां परतः स्थितः ।
महादेवमिमं ज्ञात्वा मुच्यते तत्क्षणान्मुनिः ॥११ ॥

गुणत्रयविकारस्थः कथितःपञ्चविंशकः ।
भूयः संसरते तस्मादज्ञानेनैव मोहितः ॥ १२॥

देवमानुषतिर्यक्षु भ्राम्यते रागमोहितः ।
षड्विंशकसमाधानात् सिद्धिस्तस्य विकारतः ॥ १३ ॥

क्रियाकार्यविनिर्मुक्तः सर्वज्ञः सर्वसृक्१२ प्रभुः ।
परमैश्वर्यसम्पूर्णः कृतकृत्यो महेश्वरः ॥१४॥

अजः स्वयम्भूः१३ षड्विंशः कूटस्थो ह्यचलो ध्रुवः ।
ततस्तत्त्वानि जायन्ते पुरुषश्च गुणैः सह ॥ १५॥

तस्मिन्नेव च लीयन्ते षड्विंशे तु महेश्वरे ।
विदित्वैनं महेशानं मुक्तिसिद्धिरवाप्यते ॥१६ ॥


ध्यानस्रोतसि - ख. । ६ नाडी - क. ख. । ७ चक्रता?भीन्समाश्रित्य - क । ८ च गुणस्पृष्टः - ख । ९ पुञ्जनिभप्रभः - (?) । १० सूर्यातपनिभः - क. ख. । ११ एष स - ख. । १२ सर्वकृत् - क. । १३ स्वयम्भुः - क. । १४ विदित्वैकं - ख. ।


एतज्ज्ञात्वा न लिप्येत कर्मभिर्मोहबन्धनैः ।
यथाग्निर्निर्दहेदन्ते भूतग्राममशेषतः ॥ १७ ॥

षडविंशकपदार्थज्ञस्तथा कर्माणि निर्दहेत् ।
सर्वव्यापि यथाकाशं सूक्ष्मं नैव तु लिप्यते ॥१८॥

षड्विंशकरतो योगी तथा पापैर्न लिप्यते ।
षड्विंशात् परतो नास्ति तस्मात् तत्परमो१५ भवेत् ॥ १९॥

एकत्वं सह तेनैव त्यक्त्वा देहमवाप्नुते१६ ।
ब्रह्मविष्ण्वादिकं सर्व भूतग्राममशेषतः ॥8.179.२० ॥

ईश्वराज्जायते व्यास तस्मिन्नेव प्रलीयते ।
नास्ति तस्मात् परो ह्यन्य१७स्तं विद्यात् सर्वतः स्थितम् ॥२१ ॥

यमध्यात्मविदः सिद्धाः परमात्मेत्युपासते१८ ।
स एष सर्वगो देवः षड्विंशः परमेश्वरः ॥२२ ॥

प्राणोपानः१९ समानश्च उदानो व्यान एव च ।
ये पञ्चवायवो देहे तेषां निग्रहणं यतेत्२० ॥ २३ ॥

अपानञ्च समानञ्च कृत्वैकगतमादृतः२१ ।
व्यानेन सहितं प्राणमुदाने सन्निवेशयेत् ॥२४॥

नासाग्रे तु सकृत् प्राणं२२ प्रापयेद् योगशक्तितः ।
भद्रां दृष्टिं समास्थाय२३ षड्विंशं चिन्तयेत्ततः ॥२५॥

मात्राः पञ्चदश प्रोक्ताः प्रथमं सन्धिबन्धनम् ।
मात्रा विंशति विज्ञेयाः२४ पञ्चमःसन्धिविग्रहः ॥२६॥

निश्शब्दे विजने देशे निरीहो विजितेन्द्रियः२५ ।
स्वस्तिकं पद्मकं भद्रमथवा सिंहकच्छपौ२६ ॥ २७॥

एकमासनमास्थाय षड्विंशं समनुस्मरन् ।
सर्वाङ्गानि समाहृत्य निष्पन्दो ध्यानमाचरेत् ॥२८॥


परतमो - ख. । १६ त्यक्त्वा देहं स तैनैव सहैकत्वमवाप्नुते (?) । १७. त्स्तं - क. । १८ पर इत्युपसेवते - क. ख. । १९ प्राणापानौ - ख. । २० यतः - क । २१ मादितः (?) । २२ प्राणां (न्) - क. । २३ समादाय - ख. । २४ विंशतिका ज्ञेयाः - (?) । २५ विचलेन्द्रियः - ख. । २६ भद्रं सिंहं कच्छपमेव वा (?) ।


शनैः सञ्चारयेद्वायुं नाडीभिः स्रोतसि स्थितम् ।
तावत्तिष्ठेत युक्तात्मा ध्पानयोगाद् गतस्पृहः ॥२९॥

सोममण्डलसङ्काशं यावत् पश्येद्धृदि स्थितम् ।
ज्योतिर्देहाश्रितं दृष्ट्वा योगैश्वर्यं२७ प्रवर्तते ॥ 8.179.३० ॥

तत एवं सदाभ्यासाद् योगसिद्धिप्रवर्तनात् ।
त्रिकालविषयं ज्ञानं प्रत्यक्षं योगिनो भवेद् ॥३१ ॥

व्याधयो नाविशन्त्येनं न च दुःखान्वितो भवेत् ।
स्वदेहस्य च सौगन्ध्यं वपुर्दिव्यं च जायते ॥३२ ॥

अमोघञ्च वचस्तस्य शापानुग्रहकारितम् ।
प्रत्यवायो न चैवास्य भवेत् कर्मनिबन्धनः ॥ ३३ ॥

सर्वविद्याविदां व्यास यतीनां व्रतचारिणाम्२८ ।
तपस्विनां च विप्राणां योगी श्रेष्ठ उदाहृतः ॥ ३४॥

नान्यथा मुच्यते जन्तुः संसारात् तमसः२९ परात्३० ।
षड्विंशकपरिज्ञानं मुक्त्वा योगनिबन्धनम् ॥३५ ॥

षडङ्गेन तु योगेन तथा पञ्चविधेन च ।
जित्वा ह्यष्टप्रकारन्तु३१ आसनानां निबन्धनम् ॥३६॥

मात्रोत्कर्षेण जित्वा च प्राणायामं चतुर्विधम् ।
तन्मात्राणीन्द्रियैर्जित्त्वा विषयैरिन्द्रियाणि च ॥३७॥ अहङ्कारभयायासक्रोधलोभविवर्जितः ।
विमत्सरोथ निःसङ्गो निःस्नेहो निःस्पृहस्तथा ॥ ३८॥

योगास्पदं समाधाय३२ पूर्वोक्तं गुणवर्जितम्३३ ।
ध्यायीत हृदि तं देवं विश्वं विश्वेश्वरं विभुम् ॥३९॥

अनादिनिधनं शान्तं त्रैगुण्यपरिवर्जितम् ।
तालौ जिह्वां समाधाय दन्तैर्दन्तान् न च स्पृशन्३४ ॥8.179.४० ॥


योगी स्वैरं (?) । २८ ब्रह्मचारिणाम् - ख.। २९ तपसः - क. । ३० पुरान् - क. । ३१ पञ्चप्रकारन्तु - ख.। ३२ समादाय - ध. । ३३ गुणवर्जितः - ख. । ३४ न चास्पृशन् - क., निवास्पृशन् - ख. ।


इन्द्रियाणि मनश्चैव परमात्मनि योजयेत्३५ ।
कृत्वा मनसि तत्सर्वं प्राणापानौ निरुद्ध्य च ॥४१ ॥

ओङ्कारं त्वसकृद् ध्यायन् संहृत्याङ्गानि कूर्मवत् ।
शरीरं सर्वमापूर्य विक्षिपेत् सर्वमात्मनि३६ ॥४२॥

तत्संहृत्य मुनिर्भूयो व्यापि भूतं प्रविस्तृतम् ।
नाडीवायुप्रचारेण भूयोभूयस्तथारभेत्३७ ॥४३ ॥

स पूर्वापररात्रे तु सात्विकं३८ चेत३९ उच्यते ।
मध्याह्ने चापराह्णे च कृष्णं४० ध्यायीत तामसम् ॥४४॥

सन्ध्ययोरुभयोर्नित्यं राजसं ध्यानमाचरेत् ।
तैजसं सर्वतश्चापि ध्यानादेव जयेद् गुणान्४१ ॥४५ ॥

सदैवं ध्ययतो व्यास तदैश्वर्यं प्रवर्तते ।
येन षड्विंशकं बुद्ध्वा हृदयस्थं महेश्वरम् ॥४६॥

स्वेच्छया स्वतनुं त्यक्त्वा तस्मिन्नेव प्रलीयते ।
परमात्मा परं ब्रह्म कारणं पुरुषो महान् ॥४७॥

ईश्वरो निर्गुणो भोक्ता षड्विंशः समुदाहतः ।
यच्चा४२ सत् सदसच्चैव भूतिभूतो विभुः परः ॥४८॥

जागर्त्ति स्वपते भुङ्क्ते सन्तिष्ठति ददाति च ।
स स्रष्टा स च संहर्ता गुणातीतो महेश्वरः ॥४९॥

इत्येतत् कथितं सर्वं सर्वयोगनिदर्शनम् ।
योगं पाशुपतं तुभ्य४३ माद्यं४४ मोक्षगतिप्रदम् ॥8.179.५० ॥

सर्वप्रसङ्गरहितं हरवक्त्रविनिःसृतम् ।
सूक्ष्मं तत्परमं ज्ञानं प्रवक्ष्यामि तवानघ ।
यस्य सम्यक् परिज्ञानाद् विज्ञेयं नापरं भवेत् ॥५१ ॥

इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ षष्ठः ऊनाशीत्युत्तर४५ शततमोध्यायः४६