१७८


भिक्षावाप्तरसाहारो - क. । ३५ दुखायत्तो - क. । ३६ भविष्यति - क. । ३७ पूर्वं - क. ३८ भेदमिदं - ख. । ३९ वेदामृ?तसुखासङ्गः - क.,. ..सङ्ग - क. ख. । ४० .. र्मत्सबान्धवान् - क. । ४१ ध्याति - क, ख. । ४२ चर्याभेदस्त्वनेकधा क, । ४३ सप्तषष्ट्युत्तर - क. । ४४२२५ - ख. ।


सनत्कुमार उवाच
द्विविधं ब्रह्म निर्दिष्टं क्षरमक्षरमेव१ च ।
विदित्वोभयमेतद्धि मुच्यते सर्वबन्धनैः ॥ १ ॥

पञ्चविंशतिमं तत्त्वं क्षरम्२ तत् प्रकृतेः परम् ।
अक्षरं च३ परं ब्रह्म षड्विंशकमिति४ स्मृतम् ॥२ ॥

मन एकगतं कृत्वा धारणाभिः पुनः पुनः ।
वायुनिग्रहणं कुर्यात् प्रत्याहारपुरस्सरम् ॥ ३ ॥

मुहूर्तार्धं क्षणं वापि प्रत्याहारं समाचरेत् ।
तलात् त्रिंशच्छतं चोर्ध्वं प्राणायामनिबन्धनम् ॥४॥

अभ्यस्तमासनम्५ यत् स्यात् स्वस्तिकादि प्रकीर्त्तितम् ।
तद् बद्ध्वा विजने देशे ध्यानाभ्यासं समाचरेत् ॥५॥

क्षुधार्त्तो वातिभुक्तो वा रुजा दुःखान्वितोपि वा ।
न ध्यायीत पुनर्विद्वान् य इच्छेद् ध्यानमात्मनः ॥६ ॥

योगहस्तं ततः कृत्वा वामस्योपरि दक्षिणम् ।
अधोमुखो भवेत् किञ्चित् पश्यन्नासाग्रमात्मनः ॥७॥

अस्पृशन् दशनैर्दन्तानोङ्कारं ब्रह्म संस्मरन् ।
ध्यायीत निर्ममो६ विद्वान प्राणायामपुरःसरम् ॥८॥

आत्मानमात्मना योज्य सर्वाङ्गानि तु संहरेत् ।
निरीहः पिहिताक्षश्च७ निक्षिप्य हृदि धारणाम् ॥९॥

पाषाण इव निष्पन्दो मुनिर्ध्यानं समाचरेत् ।
एकत्रास्पन्दसन्धानं मनसो८ धारणा स्मृता ॥ 8.178.१० ॥

एवं प्रतिदिनं तस्य ध्यायतो योगिनो मुने ।
विकारा गुणजाः सर्वे नश्यन्ते विघ्नहेतवः ॥ ११ ।
अन्वेष्टि च परम्९ ब्रह्म स्वशरीरं समास्थितम् ।
कृत्वैक्यं१० प्राणमनसामिन्द्रियाणां विनिग्रहात् ॥ १२ ॥


अक्षर क्षरमेव - क., ह्यक्षरङ्क्षरमेव - ख. २ अक्षर - क., त्वमक्षरं तत्क्षरम्? - ख. । ३ अक्षरश्च - क. ख. । ४ इति - क. ख. । ५ स्वभ्यस्तमासनं - ख. । ६ नित्यमों क. । ७ पितिथाक्षश्च - क. क., पतिताक्षश्च - ख.। ८ मानसो - क. । ९ परमं - ख । १० कृत्वैको - क. ख. ।


सर्वभावपरित्यागान्मोक्षमाप्नोत्यसंशयम् ।
प्रत्याहाररतं कृत्वा सर्वमिन्द्रियगोचरम् ॥ १३ ॥

ततो युञ्जति निर्द्वन्द्वो मनस्सन्धानमाचरन् ।
सर्वं मनसि संस्थाप्य परं तत्त्वं निरूपयेत् ॥ १४॥

अथैश्वर्यगतां सिद्धिं ध्यायन्नष्टविधां यदा ।
पश्यते योगसंसिद्ध्या तदा योगी प्रकीर्त्यते ॥ १५ ॥

ब्रह्मसोमादिकान्११ देवान् यदा युक्तः प्रपश्यति ।
योगिभिः कथ्यते ह्येषा सिद्धिर्योगविकारजा ॥ १६ ॥

मनसा योगिनां सिद्धिः साख्यास्तत्त्वविनिश्चयात्१२ ।
न विशेषोस्ति योगानां१३ मुक्त्वा माहेश्वरं१४ विधिम् ॥ १७॥

योगिनो ध्यानसंसिद्धिं साङ्ख्यास्तत्त्वविनिश्चयम् ।
अविभिन्नावुभावेतौ ध्यानतत्त्वार्थनिश्चयौ१५ ॥ १८ ॥

सर्वबन्धपरिभ्रष्टः सङ्गदोषविवर्जितः ।
रागमोहादिसन्त्यक्तो मुक्त इत्यभिधीयते ॥ १९ ॥

शब्दादीन् विषयान् युक्तो न ध्यायन्वेत्ति वै यदा ।
असकृद् योगसंसिद्ध्या तदा पश्यति तत्परम् ॥8.178.२० ॥

मृत्युजन्मभयोद्विग्नः सङ्गदोषविवर्जितः ।
अरण्ये मौनमाधाय ध्यायेदोङ्कारमक्षरम् ॥ २१ ॥

वेदादौ यः स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः
तस्य प्रकृतिलीनस्य१६ यः परः स महान् स्मृतः ॥२२ ॥

त्रिसंस्थानं त्रिमात्रं च त्रिब्रह्म त्र्यक्षरं तथा१७ ।
मात्राहीनं समात्रं च यो विद्यात् स विमुच्यते ॥ २३ ॥

नाग्निस्तत्र न वायुश्च न सोमो न दिवाकरः ।
प्रभवन्ति महेशाने ईश्वरे त्रिविकल्पिते ॥२४॥


ब्रह्मसोमादयो - क. ख. ’ । पे सख्याना गुणवर्जिता - ख. । १३ योगिनां न विशेषोस्ति (?), योगिनां - क. ख. । १४ माहेश्वरी - क. ख. । १५ निश्चितौ - क. ख. । १६ प्रकृतिहीनस्य - खः । १७ तदा क


ओङ्कारः१८ परमं तत्त्वमात्मा ब्रह्म च कीर्त्यते ।
क्षेत्रज्ञैरात्मसम्बोधाद्योगिभिः सूक्ष्मदर्शनात् ॥२५॥

एवमेव सदा ध्यायन् मन आत्मनि योजयेत् ।
ईश्वरं प्राप्नुते योगी यमवाप्य विमुच्यते ॥२६॥

इन्द्रियाणि तु सर्वाणि शब्दरूपादिनिग्रहात्१९ ।
विदित्वा कर्मजान् हन्ति योगी दोषानशेषतः२० ॥२७॥

ध्यानशक्त्या ततः शुद्धः सर्वजिन्मोक्षमाप्नुते ।
युञ्जन् प्रतिदिनं व्यास षड्मासाद् योगमाप्नुते ॥२८॥

पश्यते च परं ब्रह्म येन मुच्येत बन्धनात् ।
तमात्मानं परं ज्ञात्वा योगशक्त्या महामुनिः ।
परमैश्वर्यसंयुक्त अमृतं२१ पदमाप्नुयात्२२ ॥२९ ॥

इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ पञ्चमः२३ अष्टसप्तत्युत्तर- शततमोध्यायः