१७७

सनत्कुमार उवाच
अन्तरात्मा च १चेतोवान्मनः[^२] सङ्कल्पजं स्मृतम् ।
महाभूतप्रचाराच्च[^३] क्षोभाग्निर्जोव[^४] उच्यते ॥ १॥

न शरीरं विना चेतस्तच्चेन्[^५] नास्ति कुतश्च तत् ।
चेतोपि न विना जीवं स चापि न विना मनः ॥२॥

प्राणो जीव इति प्रोक्तः स्पर्शादन्यत् प्रवर्तते ।
मनः सर्वं निबध्नाति कर्मारम्भमिति[^७] श्रुतिः ॥ ३ ॥

सर्व एते हि सङ्गत्य[^८] धारयन्ति शरीरिणम् ।
यस्य[^९] चेतोधिकन्तेषां१० स चेतोवान् प्रकीर्तितः ॥४॥

चेतसा तु विजानाति शुभाशुभनिबन्धनम् ।
तन्मनश्चेतसि स्थाप्य नित्याध्यात्मरतिर्भवेत् ॥५॥

शब्दादिविषयातीत इन्द्रियाणि निगृह्य तु ।
ध्यानारम्भपरो११ देही स१२ स्यात् कर्मविवर्जितः ॥६॥

इन्द्रियाणि न बध्नन्ति मनो देहसमास्थितम् ।
जीवो बन्धात्मको ज्ञेयः शुभाशुभनिबन्धनात् ॥७॥

रजसस्तमसश्चैव गुणयोरशुभात्मनोः ।
उद्रेकाज्जायते दुःखं सौख्यं सत्वात् प्रजायते ॥८॥

सौख्यस्य परिणामाद्धि दुःखोत्पत्तिः शरीरिणाम् ।
जायते च सुखं विप्र भूयो दुःखविपर्ययात् ॥९॥


षटषष्ट्युत्तर - क. ।
तु - क. । २ मनः - क. । ३ प्रचाराश्च - क. । ४ … ग्नीजीव - ख. । ५ चेतस्तत्ते - ख. । ६ कुतश्चन - ख. । ७ कर्मभिस्तमिति - ख । ८ एवेति सन्तत्य - ख. । ९ तस्य - ख. । १० तेषां - क. ख.। ११ मनो - ख. । १२ देहीश - ख. ।


एवमन्योन्यसम्बद्धं गुणत्रयविकारजम् ।
सुखदुःखात्मकं मोहं भूतान्याविश्य तिष्ठति ॥8.177.१० ॥

मनश्चेतःसमाधानाद्विषयोद्विजनादपि१३ ।
तस्य नाशः समाख्यातः सङ्गस्य च विवर्जनात् ॥११॥

इच्छानिग्रहणे सक्ताः१४ क्रोधादिपरिवर्जिताः ।
निर्ममा निरहङ्कारा बध्यन्ते नैव कर्मभिः ॥ १२॥

आत्मा सर्वगतो ह्येषः१५ सूक्ष्मः सम्भोगवर्जितः ।
योगिनस्तं प्रपश्यन्ति ध्यानाद्वायुविवर्जनात्१६ ॥ १३ ॥

तावद् भ्रमति संसारे चतुर्योनिषु जन्तुषु ।
यावन्नात्मानमन्वेष्टि स च विन्नो न जन्म च (?) ॥१४॥

यद्यपि ध्यानसंसर्गादबुद्ध्वा ब्रह्म नश्यति ।
तथापि ब्रह्मसायुज्यान्न१७ तु जन्म पुनर्लभेत् ॥१५॥

अथैश्वर्यं परं ध्यानाद्योगजं प्राप्नुते मुनिः ।
विदित्वा परमात्मानं ततो न पुनराव्रजेत् ॥ १६ ॥

असुखान्यपि१८ कर्माणि महापापकृतान्यपि ।
कृत्वा ध्यानरतो जन्तुस्तरसा नयति क्षयम् ॥१७॥

प्राप्य कर्मक्षयं कृत्स्नं ध्यानयुक्त्या१९ महामुने ।
तिष्ठते निर्भयो योगी परमैश्वर्यसंयुतः ॥ १८॥

कामरोषौ तथा सङ्गो२० द्वेषो रागविनिश्चयः२१ ।
एते क्षुद्रतरा२२ भावा मुक्त एभिर्विमुच्यते ॥१९ ॥

गर्वो दम्भो२३ ह्यहङ्कारस्तर्को मानोथ मत्सरः ।
पारुष्यं क्रूरता चैव भावाः क्षत्रनिबन्धनाः२४ ॥ 8.177.२० ॥

यस्यैते मोहना न स्युर्विन्दन्त्यात्मानमीश्वरम् ।
मोहभावान्तरातीतः समदुःखसुखस्सदा ॥ २१ ॥


विजनादपि - क. ख., द्वेजनादपि (?) । १४ शक्तिः - क- । १५ योगैः - क. ख- । ५६ वायुर्विवर्जयेत् - क. । १७ ब्रह्मसायुज्यान्न (?) । १८ अभावान्यपि - ख. । १९ ध्यानशक्त्या - क- ख. । २० तथा सङ्गौ - ख. । २१ द्वेषरागविनिश्चयः - क. ख. । २२ शूद्रतरा - क ख. । २३ गर्भस्तम्भो - ख. । २४ क्षात्रनिसबन्धनाः - क. ख. ।


निर्ममत्वादिभिर्युक्तो योगीति परिपठ्यते ।
यज्ञकर्म समुत्सृज्य वैष्णवं मोहबन्धनम् ॥२२ ॥

अध्यात्मपरमो नित्यं मुमुक्षुर्ब्राह्मणो भवेत् ।
त्रिवर्गं सम्परित्यज्य योपवर्गे रतिं लभेत्२५ ॥ २३ ॥

दिवौकसामसौ२६ पूज्यो विप्र इत्यभिधीयते ।
ध्यानेन क्षीयते कर्म पापं वा यदि वा शुभम् ॥ २४॥

क्षीणकर्मा ततो योगी तत्परं ब्रह्म विन्दति ।
प्राप्तयोगो मुनिर्ध्यानी यद्यत् कर्तुमभीप्सते२७ ॥२५॥

तत्तद् भवति तस्याशु मनसा चिन्तितेन वा ।
योगिनं पुरुषं दृष्ट्वा पापैर्मुच्यन्ति तत्क्षणात् ।
योपि सम्भाषते तेन२८ सोपि सद्गतिमाप्नुते२९ ॥२६ ॥

योगमेव परं३० ज्ञात्वा सर्वाशुभविमोचनम् ।
सचेतसो द्विजा विप्र बभूवुर्हि मुमुक्षवः ॥२७॥

ध्यानं ध्येयं परं चैव धातारं चैव ये विदुः ।
तापनात् तपनात् ताप्यान्मुक्तास्ते दुःखबन्धनात् ॥२८॥

सर्वारम्भपरित्यागान्ममत्वादिविवर्जनात् ।
साङ्ख्ययोगागमावेकौ भेदस्तत्वविमोचने३१ ॥२९ ।
निर्गुणः साङ्ख्यमुख्यानां पुरुषः परिपठ्यते ।
दीपनिर्वाणवत्तेषां देहभेदे गतिः स्मृता ॥ 8.177.३० ॥

ईश्वरः सर्वनिर्मुक्तः क्षेत्रज्ञो योगिनां मतः ।
परमैश्वर्यसंयुक्तास्तं विशन्ति हि योगिनः ॥३१ ॥

धारणाभिः समं ताभिः३२ प्राणायामैस्तथैव च ।
आत्मानं योजयेद्यस्तु स यागं लभते परम् ॥३२॥

अहिंसादिसमायुक्तो३३ योगी विगतमत्सरः ।
ध्यानमभ्यसते यस्तु स जयेन्मृत्युजन्मनी ॥ ३३ ॥


योपवर्गरतो भवेत् (?), योपवर्गरतिर्लभेत् - ख. । २६ दिवौकसामपि - क. ख. । २७ मभीप्सति - क. ख.। २८ योभिसभाषते - ख., सम्भावितस्तेन - क. ख. । २९. माप्नुयात् - ख. । ३० योगेश्वरपदं - क. । ३१ विमोचनैः - क. । ३२ समन्त्राभिः - क. ख., समस्ताभिः (?) । ३३ अहिंसाभिः समायुक्तो - क. ।


निर्गुणो निरहङ्कारो जितद्वन्द्वोनवग्रहः ।
भिक्षोपात्तरसाहारो३४ मुमुक्षुरिति शब्द्यते ॥३४॥

सर्वारम्भसमावस्थः सर्वाश्रयविवर्जितः ।
कर्ममार्गादतिक्रान्तो ध्यानीति परिकीर्त्यते ॥३५॥

यस्य नोद्विजते चेतो दुःखापत्तौ३५ महामुने ।
न हष्यति३६ सुखे चैव ध्यानीति स विशब्दितः ॥३६॥

मोक्षसिद्धिप्रदः पन्थास्त्रिविधः परिकीर्तितः ।
पूर्वः३७ सङ्केतनः प्रोक्तः पश्चात् सङ्कथनः स्मृतः ॥३७॥

संसक्तश्च तृतीयस्तु तेषां भेदमिमं३८ शृणु ।
प्रतिरूपं विभोः कृत्वा दशभिर्नियमैर्युतः ॥३८ ॥

उपास्ते यो मुनिर्ध्यायन् स सङ्केतन उच्यते ।
वेदादृतसुखासङ्गः३९ सत्वकर्मा त्वबान्धवान्४० ॥३९॥

परित्यज्येश्वरं ध्यायेत्४१ तत्सङ्कथनमुच्यते ।
सर्वारम्भपरित्यागात् कपिलादिनिषेवितः ॥8.177.४० ॥

स्मृतः सङ्कथनः पन्था योगाग्निपरिदीपकः ।
निर्विकल्पस्तु यत्सर्वं ब्रह्म एवेति पश्यति ॥४१ ॥

भिन्नसर्वक्रियाचारो ध्यानी संसक्त उच्यते ।
त्रिविधस्यापि मार्गस्य नियमानियमानि च ॥४२॥

तान्येव परिकीर्त्यन्ते चर्याभेदा स्त्वनेकधा४२ ।
त्रयोपि हेतवो मुक्तेरिमे ध्यानपथा मुने ॥४३ ॥

सम्यगेतान्मुनिर्ज्ञात्वा निर्ममोन्यतमं श्रितः ।
तदाप्नोति परं ध्यानं येन विन्दति तत्परम् ॥४४॥

सर्वान्ध्यानविधीँस्त्वेतानुच्यमानानिमान्मया ।
शृणु व्यास महाबुद्धे योगैश्वर्यफलप्रदान् ॥४५॥

इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ चतुर्थः सप्तसप्तत्युत्तर४३ शततमोध्यायः४४