सनत्कुमार उवाच
उत्पद्यते[^१] यथा जन्तुर्वैराग्यं व्रजते यथा ।
यथा प्रबुध्यते चैव तत्ते व्यास वदाम्यहम् ॥ १ ॥
आकाशः[^२] पवनस्तेजो भूमिरापस्तथैव च ।
एषामेकत्र सङ्घाताच्छरीरं नाम जायते ॥ २॥
रसाः सोमात्मकाः सर्वे तथाहारश्चतुर्विधः[^३] ।
देहिनान्तु रसोत्पत्तिराहारस्य निषेवणात्[^४] ॥३ ॥
रसाद्रक्तसमुत्पत्तिः शोणितात् पिशितं स्मृतम् ।
मेद उत्पद्यते मांसात्तस्मादस्थीनि चाभवन् ॥४॥
मज्जा चास्थिभवा ज्ञेया ततः शुक्रसमुद्भवः ।
रक्तशुक्रसमायोगाद् गर्भः[^५] सम्भवति स्त्रियाः ॥५ ॥
ऋतुयोगसमाधानाद् दैवकर्मवशादपि ।
स्त्रियाः पुंसश्च रत्यन्ते द्वावप्येकत्वमागतौ ॥ ६ ॥
परित्याग - क, परित्याग, (?) । ४० विवर्जिता - ख, विवर्जितः - क । ४१ योगाभ्यासः - (?) । ४२ परासङ्गः - ख-, परासङ्गः (?) । ४३ संसक्तनिर्मुक्त - ड । ४४ कारणात् - क. । ४५२२३ - ख. ।
उत्पद्यति - कु. । २ आकाशं - ख । ३ तथाहारञ्चतुर्विधम् - क. । ४ निसेवनात् - क. । ५ गर्भं - क. ।
तावेकत्वमथापन्नौ प्रेरितौ पवनेन च ।
कललं त्वेकरात्रेण पञ्चरात्रेण चार्बुदम् ॥७॥
पिशितं सप्तरात्रेण मासाच्चाङ्कुरसम्भवः ५ ।
ततःप्रभृति गर्भस्य विभागो भवति द्विज ॥८॥
शिरः पाणिमुखस्कन्धग्रीवापृष्ठादिसंयुतः[^७] ।
पञ्चानामथ मासानामक्षिकर्णादिसम्भवः ॥९॥
सर्वसम्पूर्णगात्रस्तु स्रोतोभिर्नवभिर्युतः ।
व्यक्तीभवति तद्गर्भो मासैरष्टभिरेव तु ॥ 8.176.१० ॥
सम्प्राप्ते नवमे मासि सर्वद्रव्यसमन्वितः ।
पञ्चभूतात्मकं तत्तु चेतोवदवतिष्ठति ॥ ११ ॥
गर्भक्लेदेन सिक्ताङ्गः[^८] सर्वदुःखसमन्वितः[^९] ।
जातिं स्मरेद्वसँस्तत्र[^१०] जन्तुः सर्वसमुद्भवाम् ॥ १२ ॥
मृतः पुनरहं जातो जातश्चैव पुनर्मृतः ।
इदानीं जातमात्रस्तु योगमेवाभ्यसाम्यहम् ॥ १३ ॥
न पुनर्येन[^११] संसारं प्रवेक्ष्याम्यशुभोदयम् ।
एवं चिन्तयतस्तस्य नवमे मासि सङ्गते ॥ १४॥
स्वकर्मविनिबद्धस्य जातमात्रस्य देहिनः ।
दहेमाविशते[^१२] वायुः स्मृतिमाक्षिप्य तामसः ॥ १५॥
येन मूढो निरानन्दो नैवाध्यात्मरतिर्भवेत् ।
अग्नीषोमात्मकं सर्वं भूतग्रामं चतुर्विधम् ॥ १६॥
संयोगादेवमुत्पन्नमुत्पत्स्यति च सुव्रत ।
तत्र ये साधुसम्पर्काच्छुभकर्मोदयादपि ॥१७॥
आगमान्वेषणे सक्ताः पापानुष्ठानवर्जिताः ।
मत्वा संसारजं क्लेशं[^१३] जन्ममृत्युभयार्दितम्[^१४] ॥१८ ॥
मासादङ्कुरसम्भवः - क । ७ ग्रीवपृष्ठादिसंयुत - ?, संयुतम् - क. ख. । ८ सिक्ताङ्गं - क. । ९ समावृतः - क. ख. । १० स्मरति - ख, स्मरन् विसँस्तत्र (?) क, (वि)शेस्तत्र क., सन्त्रस्तः - (?) । ११ पुनःप्रत्य - ख. । १२ मोहमाविशते (?) - ख । १३ संसारसक्लेश - ख. । १४.. ..भयादितः (?) ।
कामक्रोधरतिद्रोहलोभमोहसमावृतम् ।
वैराग्यं जन्मतः[^१५] कृत्वा सर्वारम्भपरिक्षयात् ॥ १९॥
अन्विषन्ति[^१६] शुभार्थं हि गुह्यमध्यात्मदर्शनम् ।
ते योगं परमं प्राप्य ब्रह्म विन्दन्ति तत् परम् ॥8.176.२०॥
तस्य ते सम्प्रवक्ष्यामि ब्रह्मसम्बोधकारणम् ।
सर्वेषां योगिनां गुह्यं सर्वयोगनिदर्शनम्[^१७] ॥२१ ॥
ततो माहेश्वरं[^१८] योगमाख्यास्ये तत्परन्तव[^१९] ।
तेजोग्निः कामजो वह्निः क्रोधाग्निर्वीक्षणानलः ॥२२॥
जठराग्निश्च भूतात्मा पञ्चैते देहवह्नयः ।
प्राणापानः समानश्च[^२०] उदानो व्यान एव च ॥२३ ॥
पञ्चैते वायवो नित्या देहिनो देहसम्भवाः[^२१] ।
आकाशप्रभवा ह्येते शरीरं चैषु तिष्ठति[^२२] ॥२४॥
मांसरक्तसमाकीर्णं स्नायुमेदोस्थिसञ्चयम् ।
त्वचावनद्धं[^२३] दुर्गन्धं शकृन्मूत्रसमावृतम् ॥२५॥
तडिदभ्रागमानित्यं मृत्पात्रापातसन्निभम् ।
सर्वानर्थसमायुक्तं[^२४] नचिरान्नाशगामि च[^२५] ॥२६॥
एकरूपं नवद्वारं त्रिस्थूणं पञ्चदेवतम् ।
विषयेन्द्रियसङ्कीर्णं नैकव्याधिसमार्दितम्[^२] ६ ॥ २७॥
प्राणादिभिरवष्टब्धं शरीरं यन्त्रवत् स्थितम् ।
विमुक्तमसकृत्[^२७] तैस्तु वायुभिर्जीवसंहतैः ॥ २८॥
आमपात्रमिवापाताच्छीर्यते कालपर्ययात्[^२८] ।
पञ्चभूतानि भूतानि देहान्निष्क्रम्य सर्वशः ॥२९॥
आविशन्ति तथात्मानमात्मा च विशते द्रुतम् ।
भूतेषु पवनः श्रेष्ठो जीवस्तद्विनिबन्धनः ॥ 8.176.३०॥
जन्मनः (?) - क., जन्मना - ख. । १६ अन्वेषन्ति - ख, अन्विष्यन्ति (?) । १७ सर्वयोगिनि- दर्शनम - क. । १८ विभोर्माहेश्वरं - ख । १९ तत्परन्तपः - क । २० प्राणोपानः समानस्तु - क. ख. । २१ देहसम्भवान् - क । २२ तिष्ठते - क. । २३ त्वचावबद्ध - ख. । २४ सर्वानित्यसमायुक्तं - क. ख. । २५ नाशगामिनम् - क. ख । २६ शतार्दितम् - क । २७ वियुक्तमसकृत् (?) । २८ कालपर्यये - ख. ।
वाय्वग्नी सहितौ जीवो[^२९] न जीवः प्राणिनां पृथक् ।
मूर्तिरन्या न जीवस्य मृत्यौ[^३०] दृश्यति[^३१] देहिनः ॥३१ ॥
पञ्चरूपात्परो देवः सूक्ष्मात् सूक्ष्मतरो मतः ।
नासौ पश्यति न घ्राति न शृणोति न जल्पति ॥३२॥
न जानाति न च स्पर्शेज्जीवः[^३२] प्राणसमावृतः[^३३] ।
प्राणो नाम महावायुर्जीवं धारयते द्विज ॥३३॥
भासते श्वसते चैव सर्वेष्वपि[^३५] हि देहिषु ।
स प्राणो धारयत्यग्निं स च जीव इति स्मृतः ॥३४॥
वायुसन्धारणो ह्यग्निः क्रियासु परिवर्तते ।
यो वह्निमानसौ[^३६] देहे स जीव इति शब्द्यते ॥३५॥
अन्तर्गतो हि भूतानां कर्मारम्भनिबन्धनः[^३७] ।
एवमेतच्छरीरन्तु पञ्चभूतगुणात्मकम् ॥३६॥
तद्विकारे प्रनष्टे[^३८] तु मृत इत्यभिधीयते ।
भूतेन्द्रियमनोजीवविषया रागबन्धने (?) ॥३७॥
हृदये कर्णिकायां तु मध्यस्थस्तेजसां निधिः ।
आत्मा सर्वगतो नित्यं वर्जितो विषयादिभिः ॥३८॥
तिष्ठते स विभुस्तत्र यं विदित्वा विमुच्यते ।
स येन योगसंसिद्ध्या ध्यानकर्मक्रियाविदा ॥३९॥
नाडीकर्मसमाधानात् सतताभ्यासयोगतः ।
भाभिः[^३९] प्रकाशितो दृष्टो विकारैर्विप्रमोचितः ॥8.176.४० ॥
दृष्टो भवति विप्रेन्द्र मुक्तिश्चैव ततः स्मृता ।
षड्विंशकपरिज्ञानाल्लयमाधाय तत्र हि ॥४१ ॥
सर्वप्राणिगतं सूक्ष्ममात्मदेहे च संस्थितम् ।
यं प्रपश्यन्ति संसिद्धा योगिनो गतबन्धनाः ॥४२ ॥
जीतो - क. ख. । ३० सृष्टौ (?) । ३१ दृश्येत (?) । ३२ न स्पृशेच्च जीवः (?) । ३३.. स्पर्शं जीवः प्राणसमावृतः - क. । ३४ भाषते - क. । ३५ सर्वेष्वेव - क. । ३६ वह्निर्मानसो - क- ख । ३७ निबन्धनम् - ख. । ३८ तद्विकारप्रनष्टे - ख । ३९ नाभिः - क. ।
योभ्युपायः परस्तस्य विज्ञानादीश्वरस्य तु ।
योगाभ्यासं परं तं ते प्रवक्ष्यामि द्विजोत्तम ॥४३ ॥
इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ तृतीयः षट्सप्तत्युर[^४०] शततमोध्यायः