१७५

सनत्कुमार उवाच
योगं साङ्ख्यञ्च सर्वत्र द्विविधं ज्ञानमुच्यते ।
तत्र साङ्ख्यरताः केचित् केचिद् योगपथाश्रिताः १ ॥ १ ॥

अव्यक्तं प्रकृतिश्चैव तथाहङ्कार एव[^३] च ।
अष्टौ प्रकृतयो ह्येतास्तन्मात्रः पञ्चभिः सह ॥ २ ॥

पञ्च बुद्धीन्द्रियाण्याहुः पञ्च कर्मेन्द्रियाणि च ।
मनः पञ्च च भूतानि विकाराः षोडश स्मृताः ॥३ ॥

पुरुषः पञ्चविंशश्च सर्वारम्भविवर्जितः ।
नित्यः सर्वगतः सूक्ष्मश्चेतावान्[^४] त्रिगुणेज्झितः ॥४॥

संशुद्धो विमलो भोक्ता अकर्ता साक्षिवत् स्थितः ।
विदित्वा न विशन्त्येनं भूयः संसारपञ्जरम् ॥ ५॥

पञ्चविंशति तत्त्वानि साङ्ख्यैरेतानि योगिभिः ।
प्रोक्तानि यद्[^५] विदित्वा हि मुच्यते किल जन्मनः[^६] ॥६ ॥


देवतातिर्यक्षु - क. ख. । ३१ निर्द्वन्द्वे - क. ख. । ३२ विजने - ख. । ३३ ज्ञात्वा (?) । ३४ ब्रह्म - क.। ३५ मुच्यतीति - क. ।
योगपथे रताः (?),. ग्रताः - क । २ च महांश्चैव () । वे. ..मेव - ख. । ४ श्चैतावान् - क, श्चैत्यवान् (?), ..श्चेतन (?) । ५ यान् - क., ये या - ख. । ६ जन्तवः - क. ।


( ९४५) सूक्ष्मा प्रकृतिरव्यक्ता भोज्या[^७] सर्वरता चला ।
नित्या चाचेतना चैव विज्ञेया सर्वकामिकी ॥७॥

तमः सत्वं रजश्चेति[^८] विषयस्थं गुणत्रयम् ।
येषामव्यभिचाराद्धि[^९] सर्वमेतदवस्थितम् ॥८ ॥

प्रकाशजननं सत्वं रजः सङ्गप्रवर्तनम् ।
तमो विमोहनञ्चैव गुणविस्तर उच्यते[^१०] ॥९ ॥

भिन्नकार्यप्रचाराणामेतेषां गुणसञ्ज्ञिनाम्[^११] ।
हेतुना पुरुषार्थेन साधिका वृत्तिरुच्यते[^१२] ॥8.175.१० ॥

दैवमष्टविभेदन्तु[^१३] तिर्यक् सप्तविधं स्मृतम् ।
अविकल्प्यं च मानुष्यं सर्वतेतद्[^१४] गुणात्मकम् ॥११ ॥

मूढं निश्चेतनं भूतं स्थूलं सूक्ष्ममथापि वा[^१५] ।
अमूर्त्तं मूर्त्तिमद्वापि[^१६] त्रिगुणं सर्वमुच्यते[^१७] ॥ १२ ॥

मोक्षविघ्नकरा ह्येते कीर्तिता योगिनो गुणाः ।
सक्तस्यैव[^१८] हि बन्धः स्यादसक्तो मुक्त उच्यते ।
विभागात् प्रकृतिस्थस्य स्थिता नित्यं गुणत्रयम् (?) ॥ १३ ॥

विभागेन विकारस्था यथाधर्मं समाश्रिताः ।
भूतसर्गस्त्रिधाभूतः[^१९] साङ्ख्यज्ञैः परिपठ्यते ॥ १४ ।
संसिद्धः[^२०] प्राकृतश्चैव[^२१] तथा वैकृत उच्यते[^२२] ।
तत्र धर्मेण संसिद्धा योगे माहेश्वरे स्थिताः ॥ १५॥

नेच्छन्ति सम्भवं व्यास धर्मो (?) पञ्चात्मतः स्मृतः ।
ते पुनर्द्रव्यसम्बन्धात् साङ्ख्यदृष्टान्तपण्डिताः ॥ १६॥

इच्छन्ति[^२३] कार्यमाश्रित्य कारणाश्रयिणो न हि ।
प्रधानात् पुरुषाद् बुद्धिरभूत् सत्वाधिकासकृत् ॥१७॥


भोग्या (?) । ८ रजश्चैव - ख. । ९ येषामाद्यविचाराद्धि - ख. । १० मुच्यते - क. ख. । ११ सज्ञिना गुणः - क, । १२ वृत्तिरीरिता - ख. ’ १३ विभिन्नन्तु - क ख । १४ सममेतद् - ख । १५ च - ख । १६ भूर्तिमच्चापि - ख. । १७ सर्व त्रिगुणमुच्यते (?) । १ न सक्तस्यैष - क. । १९ स्त्रिधाभूता - ख. । २० संसिद्धं - ख. । २१ प्राकृन्तञ्चैव - ख. २२ मुच्यते - ख. । २३ इच्छन्ते - ख. ।


गुणानां परिणामेन प्राकृतानां जलादिवत्[^२४] ।
ब्यवसायस्तथा रूपं निश्चयश्चेति भाष्यते ॥ १८ ॥

बुद्धिरेव ह्यहङ्कारः प्रत्ययान्तरसम्भवात्[^२५] ।
मनः केचित् तमिच्छन्ति[^२६] क्रियाजं गुणसङ्ग्रहम् ॥ १९ ॥

अहमेव हि कर्तेति[^२७] अहङ्कार उदाहृतः ।
मनसः कल्पनं वापि[^२८] स्मृतमिन्द्रियगोचरम् ।
बुद्धिभूतादहङ्कारात् सत्वोत्पन्नात् प्रकाशिनः ॥ 8.175.२० ॥

बुद्धीन्द्रियाणि जातानि पञ्च सत्त्वोदयानि तु ।
बोध्यते बुध्यते वापि मुमुक्षुस्त्विन्द्रियैर्यतः[^२९] ॥ २१ ॥

ततो बुद्धीन्द्रियाणीति कीर्त्यन्ते तत्त्वचिन्तकैः ।

                                • ॥ २२॥

अतः कर्मेन्द्रियाण्याहुर्गुणाज्जातानि राजसात् ।
तामसादप्यहङ्कारात् तन्मात्राण्यभवन् पुनः ॥२३ ॥

केचित् सर्वगतान्याहु - - - - - - - - ।

        • विधं तच्च धर्माधर्मसमुद्भवम् ॥ २४॥

याति सर्वत्र सिद्धार्थं भूतव्यापि विमोहनम् ।
शक्तं सर्वाश्रयं सूक्ष्ममनिवारितदिक्पथम् ॥ २५॥

लिङ्गः तच्च समाख्यातं देहिनां यच्च कारणम् ।
यश्च सर्गस्त्रिधा प्रोक्तः स एव नवधा पुनः ॥ २६॥

प्राकृतस्य विकारस्य देहभेदाः सहस्रशः ।
तत्त्वसर्गः स्मृतः पूर्वः[^३०] पिण्डसर्गस्ततोपरः ॥ २७॥

प्रत्ययानां ततः सर्गस्तृतीयः समुदाहृतः ।
असक्ति[^३१] र्विलयस्तुष्टिः सिद्धिश्चेति चतुस्थि - ॥२८॥

भेदाः प्रत्ययसर्गे तु वैषम्यादपरे स्मृताः ।
पञ्चाशत् परितो भेदा ये च तेषां गुणा दश ॥ २९ ॥


जलाद्रिवत् - ख. । २५ प्रयात्यन्तरसम्भवात् - ख., .. सम्भवाम् - ख. । २६ समिच्छन्ति - ख. । २७ तर्केति - ख. । २८ व्यापि - ख. । २९ .. र्युतः - ख. । ३० पूर्वं - ख. । ३१ अशक्ति - ख. ।


षष्टिरेते पदार्था हि गीयन्ते कपिलादिभिः ।
सा तुष्टिर्नवधा भिन्ना सिद्धिश्चैवाष्टधा पुनः ॥8.175.३० ॥

स्मृतः पञ्चविधश्चापि तेषामेव विपर्ययः ।
अष्टभेदा[^३२]स्त्रिभिन्ना[^३३] स्याद् दशभिः कार्यबन्धनैः ॥३१ ॥

एते षष्टिपदार्थास्तु सङ्ख्याज्ञानमिति[^३४] श्रुतिः ।
न्यूनामेकाधिकामेके[^३५] षष्टिमन्ये[^३६] तु जानते ॥३२॥

ममैव हि पुरा वत्स गुणजे पदपञ्चके ।
अन्तरं तत्त्वमन्वेष्टुं प्रकृतेः पुरुषस्य च ॥३३ ॥

साङ्ख्यतन्त्रं महद् बुद्ध्वा ज्ञात्वा तत् प्रकृतेः परम् ।
पचविंशमजं तत्त्वं भोक्तारमभिमानिनम् ॥३४॥

सन्देहापगमो नाभूदबुद्ध्वा परमेश्वरम् ।
यदाहं देवदेवेन स्वयमेव जगत्सृजा ॥३५॥

स्वयोगं शम्भुना वत्स ग्राहितो गतसंशयः ।
तदा षड्विंशकं तत्त्वं ज्ञात्वा सर्वगमीश्वरम् ॥ ३६॥

विमुक्तो योगसंसिद्धौ जातोहं मोहवर्जितः ।
भोक्ता चेत् प्रकृतेरस्ति भुङ्क्ते च पुरुषः स्वयम् ।

                        • नपि द्विज ॥३७॥

यस्तयोः परतो नित्यम्[^३७] षड्विंशस्त्वीश्वरो विभुः ।
तं ज्ञात्वा परमं तत्त्वं मुच्यते जन्मबन्धनात् ॥३८॥

साङ्ख्यं कृत्स्नमपि ज्ञात्वा गुणान्तरविचारणात् ।
पञ्चविंशकसम्बोधान्नैव मुक्तिः प्रजायते ।
स बद्धो[^३८] भोक्तृपाशैस्तु गुणैः प्रकृतिसम्भवः ॥३९॥

अभिमानात्मको भोक्ता पुरुषत्वादमोचकः ।
तं विदित्वापि नैव स्यान्मुक्तिः प्रत्ययवर्जिता ॥8.175.४० ॥

एष उक्तस्समासेन साङ्ख्यसिद्धान्तविस्तरः ।
योगतत्त्वं प्रवक्ष्यामि दुःखजन्मविनाशनम् ॥४१ ॥


भेद (?) । ३३ त्रिभिन्नः (?) ३४ साङ्ख्या (साङ्ख्य?) ज्ञानमिति - ख. । ३५ … नेकाधिके - ख. । ३६ रन्ये - ख. । ३७ नित्यं - ख, इतः पूर्व पत्रमेकं खण्डितम् क पुस्तके । ३८ सम्बन्धो - क. ।


सम्भवं देहिनश्चैव वैराग्यं येन चोद्भवेत् ।
धर्माधर्मपरित्यागं[^३९] सत्यानृतविवर्जितम्[^४०] ॥४२॥

योगाभ्यासं[^४१] परासङ्गं[^४२] सूक्ष्मज्ञानमनिन्दितम् ।
सर्वसंसक्तिनिर्मुक्त[^४३] मीश्वरप्राप्तिकारणम्[^४४] ॥४३ ॥

सिद्धिनिर्द्वन्द्वसंयोगमशुभोदयनाशनम् ।
परोपलब्धिविज्ञानं तत्त्वार्थपदनिश्चयम् ॥४४॥

भवजन्मापहं योगं विषयेन्द्रियवर्जितम् ।
मतं पशुपतेः कृत्स्नममृतास्पदलम्भनम् ॥४५ ॥

इति स्कन्दपुराणे पाशुपतयोगवर्णने ध्यानविधौ द्वितीयोयं पञ्चसप्तत्युत्तरशततमोध्यायः[^४५]