त्वा कुत्सितो मया - ख. ५६ पूर्णायुषः (?) । ५७ पूर्णायुषो ह्या(वा)पकम् - ख. । ५८२२१ - ख. ।
व्यास उवाच भगवन् यत्त्वया प्रोक्तं दक्षयज्ञवधे तदा ।
प्राप्य पाशुपतं योगं ब्रह्माद्यास्त्रिदिवौकसः[^१] ॥ १ ॥
लेभिरे परमं तत्त्वं ज्ञानेन हि महामुने ।
तन्मे कथय भक्ताय शिष्याय परिपृच्छते ॥२ ॥
कीदृशं तत्परं योगं ज्ञानं पाशुपतं शुभम् ।
यज्ज्ञात्वा[^२] ब्राह्मणाः सिद्धाः प्राप्नुयुर्मोक्षमुत्तमम् ।
इति[^३] पृष्टस्तु शिष्येण प्रोवाच मुनिसत्तमः ॥३ ॥
सनत्कुमार उवाच
साधु व्यास महाबुद्धे मुमुक्षुरसि पुत्रक ।
यन्मां पृच्छसि तज्ज्ञानं योगं माहेश्वरं परम् ॥४॥
सर्वासां योगविद्यानां यत्तत्त्वं परिकीर्त्यते ।
साङ्ख्ययोगागमोपेताः सर्वाध्यात्मविशारदाः ॥ ५॥
योगैश्वर्यमपि प्राप्य तत्त्वं नैवोपलेभिरे ।
यदबुद्ध्वा महाभाग ज्ञानं शङ्करभाषितम् ॥ ६॥
तद्यथा कथितं तेषां त्र्यम्बकेण[^४] दिवौकसाम् ।
तत्तेहं सम्प्रवक्ष्यामि सङ्क्षेपात्तत्त्वनिश्चयम् ॥७॥
विस्तरेण न तच्छक्यं वक्तुं वर्षशतैरपि ।
तस्याहं स्थि?तपक्षन्तु संसारोत्पत्तिनाशनम् ॥८॥
मुक्तिसिद्धिप्रदं वक्ष्ये सङ्क्षेपान्मतमुत्तमम् ।
नमस्कृत्य महेशानं पुरुषं भूतभावनम् ॥ ९॥
प्रकृतेः परमं गुह्यं पुद्गलं परमेष्ठिनम् ।
यं साङ्ख्याः पुरुषं प्राहुः पञ्चविंशमजं विभुम् ॥ 8.174.१० ॥
योगाश्चापि हि षड्विंशं व्यापिनं त्रिगुणात्मकम् (?) ।
योसृजत् सृष्टिकाले तु देवौ सर्वजगत्सृजौ ॥११ ॥
ब्रह्माद्यास्ते दिवौकसः (?) । २ यं ज्ञात्वा - क. ख. । ३ अथ - क. ख. । ४ त्र्यम्बकेण (?) । ५ नमस्कृत्वा - क. ख. । ६ प्रभुः (भुम्) - क. ।
प्रजापती महात्मानौ ध्यात्वा विष्णुपितामहौ ।
तं प्रणम्य महादेवं त्र्यक्षं वरदमीश्वरम् ॥ १२ ॥
प्रवक्ष्यामि मतं तस्य योगसिद्धान्तनिश्चयम् ।
लक्षणं विद्धि योगस्य प्रोच्यमानमिदं मया ॥ १३ ॥
छिद्यन्ते[^७] पशुपाशानि यस्याभ्यासान्महामुने ।
प्रत्ययस्य बहिर्लोपो मनस्यात्मनि संस्थिते ॥ १४॥
अभिसन्धिः परे चैव ईश्वरस्यात्मनश्च ह ।
एष योग इति व्यास कीर्तितः शम्भुना पुरा ॥ १५॥
भवजन्मापहः सूक्ष्मः प्रपन्नानां दिवौकसाम् ।
शरीरे तिष्ठतः पुंसो यदात्मनि मनः स्थितम् ॥ १६ ॥
अवितर्कं बहिश्चैव सूक्ष्ममभ्यासयोजितम् ।
कृतानां प्रत्ययैः सूक्ष्मैः सुखदुःखादिसञ्ज्ञिनाम्[^८] ॥ १७॥
अशेषलोप इत्यक्त साधकस्य तु युञ्जतः ।
परो महेश्वरो देवः सोभिसन्धिस्तु योजकः ॥१८ ॥
अभिसन्धिस्तदा[^९] यस्मादीश्वरस्यात्मनश्च ह ।
सुखादानमथैकेन भावना - - योजनात् ॥ १९॥
प्र - - - - - - - - - - तिष्ठतस्सतः ।
साधकस्य भवेन्नित्यं ह्यद्रिः (?) सिद्धमिदं फलम् ॥ 8.174.२० ॥
अथाधिकरणं तत्र क्रमशः परिकीर्त्यते (?)
प्रत्याहारमतो[^१०] विद्या प्राणायामस्तथैव च ।
ध्यानञ्च धारणा चैव[^११] योगाभ्यास उदाहृतः[^१२] ॥२१ ॥
तिस्रो मृत्युमतिक्रम्य क्रिया हि चतुरात्मिकाः ।
वर्त्तन्ते न च वै - - मृत्युः प्रभवते मुने ॥ २२ ॥
वश्या हि धातवस्तस्माद् भवन्त्यस्य न संशयः ।
ततोसौ पवमृत्युश्च साधको भवति - - ॥ २३ ॥
छिद्यन्ति - क. ख । ८ सं व्रतम् - ख । ९ अभिसन्धिस्तु - क, अभिसन्धिस्सा(?), इतः परं पत्रमेकं खण्डितं क पुस्तके । १०.. .स्ततो (।) । ११ धारणाच्चैव - ख । १२ उदाहृतं - ख. ।
इमास्तर्क्कक्रिया व्यास मस्तके हृदि चैव हि ।
अन्तरिक्षे च सर्वास्तु कीर्तिता हि न संशयः ॥ २४॥
स्थानत्रयनिबद्धास्तु चतुर्लक्षणसंस्थिताः ।
क्रियाः प्रमादिना नैताः शक्याः साधयितुं क्वचित् ॥ २५॥
तिस्र एताः सदा मृत्युं प्रवृत्ता मोहलक्षणाः ।
वियोगो न भवेत्तासु क्रियास्वेकैक - - - ॥ २६ ॥
अज्ञानं कम्पते[^१३] तासु बहिरन्तश्चरास्वपि ।
क्रियासु[^१४] साधको युक्तस्तथा मध्यगतासु च ॥ २७॥ भूतेन्द्रियमनःकालदिङ्निवृत्तिः प्रभावतः ।
दशैवाशास्त्रयः काला[^१५] भूतानीन्द्रियविस्तरः ॥ २८ ॥
मनःप्रचारसंयुक्तो विषयाभावलक्षणः ।
प्रत्याहार इति प्रोक्तः पुरा भगवता स्वयम् ॥ २९ ॥
दिगन्तरगमाभावात् मनस्यविचलस्थितौ ।
प्रत्याहारसमुत्पतिर्योगोत्पत्तौ सकृद् भवेत् ॥ 8.174.३० ॥
त्रिकालविषयं ज्ञानमैश्वर्योदग्रमेव च ।
चले मनसि नाभूतां भवेतां संस्थिते[^१६] समम् ॥ ३१ ॥
मनः सर्वमिदं यस्मात् साधनं योगकर्मणः ।
एकतो मनसः स्थाने तस्माद् यत्नं समाचरेत् ॥३२ ॥
प्राणनिग्रहणे[^१७] ध्यानं प्राणायाममिति स्मृतम ।
प्राण एव हि वायूनां सारथ्ये वर्तते सदा । ॥ ३३ ॥
प्राणनिग्रहणे योगी नित्यमभ्यासमाचरेत् ।
उत्तरोत्तरसंसिद्ध्या वायु - - - गोचरे ॥ ३४॥
ज्योतिः प्रवर्तनं विद्यान्नित्यमभ्यासयोजितम् ।
द्विरपाने सकृत्प्राणे समाने च । ’ - - - ॥ ३५ ॥
-
-
- र - -) - - ५ - - । - - - ।
-
-
-
-
- । - - - ’ - - - ’ - - - ॥ ३६ ॥
-
-
अज्ञो न कम्पते (?), प्राज्ञो - (?) ॥ १४ क्रियातु - ख. ॥ १५ कालो - ख. । १६ संस्थिता - ख. ।
॥
कुम्भ एष तृतीयस्तु योगवह्निप्रदीपकः ॥३७॥
एभिर्ध्यानगतिः सूक्ष्मा वायुसंरोधकारिता ।
प्रवर्तते यया योगी परमं वेष्टि पुद्गलम् ॥ ३८॥
सकृदेव समाहारादसकृत्परिमोक्षणात् ।
कुम्भकं चैतदुद्दिष्टं[^१८] प्राणायामादिधारणात् ॥ ३९॥
प्राणो वायुरसावात्मा शरीरे जीव - - - ।
विद्याद् रूपद्वयं तस्य स्थूलं सूक्ष्मं च सर्वतः ॥8.174.४०॥
अव्यक्तं सूक्ष्मरूपं तु स्थूलमाकारलक्षणम ।
स्थूलादारभ्य सूक्ष्मं तु ध्यानाभ्यासान्निरूपयेत् १९ ॥४१ ॥
सूक्ष्मसंरोपणाज्ज्योतिः प्रकाशो जायते मुने ।
ध्यायतः स्थूललक्ष्यं[^२०] तु सर्वदिक्षु सृतं मनः ।
यदा दीप्तिमदुत्पद्येत् तदाशु स्थापयेत् पुनः ॥४२ ॥
गिरौ वृक्षे मरुत्पृष्ठे श्वभ्रे प्रासादपङ्क्तिषु ।
समुद्रे वसुधायां वा मनःसंयोगमाचरेत् ॥४३ ॥
स्थापितं तन्मनस्तत्र पुनः संहारमाव्रजेत् ।
अचैतन्यं दिशेन्मोहाद् वायुर्दृष्टमतोन्यथा[^२१] ॥४४॥
संहृत्य च ततो व्यापि भूयो ध्यानगतिं चरेत् ।
ध्यायतो नित्यमभ्यासान्मनो वायु - - - - ॥४५॥
प्रवृत्तज्ञानयोगस्य[^२२] विषयासङ्गसङ्क्षये ।
प्रातिभानि[^२३] हि विघ्नानि सत्वादिगुणजानि तु ।
विघ्नभूतानि योगस्य प्रोद्भवन्ति हि युञ्जतः ॥४६॥
तानि विद्वान् प्रयत्नेन विषयेच्छाविवर्जितः ।
जित्वा निर्वाणमार्गस्थो भवेत् त्रैगुण्यवर्जितः ॥४७॥
आकाशगमनं दिव्यमप्सरोगणसङ्गजम् ।
अभिषेकश्च देवेभ्यश्चित्रकाव्यप्रवर्तनम् ॥४८ ॥
कुम्भकमेतदुद्दिष्टं - ख., इतः पूर्व पत्रमेकं खण्डितं क. पुस्तके । १९ - सन्निरूपयेत् - ख. २० लक्षं - ख । २१ दृष्टमतोन्यथा - ख. । २२ ध्यानयोगस्य (?) । २३ प्रतिभा(न्) ति - ख,
ऐश्वर्यसुखसंसक्तिर्हेमरत्नागमं बहु ।
सत्वादेतानि विघ्नानि प्रातिभानि तु लक्षयेत् ॥४९॥
उत्पत्तिमदयुक्तानि[^२४] भिन्नाचारक्रमाणि तु ।
रजोविघ्नानि संविद्यात् प्रातिभानि न संशयः ॥8.174.५० ॥ क्षयशूलज्वरोन्मादकुष्टसर्पग्रहाणि तु ।
यातनोद्गमपूर्वाणि तामसानि विनिर्दिशेत् ॥५१॥
गुणत्रयसमुत्थानि प्रातिभानि सदा मुनिः ।
युञ्जन् संलक्षयेच्छीघ्रं चिकित्सेदाशु चैव हि ॥५२ ॥
प्राणाद्यानभिसन्धाय[^२५] मनः संहृत्य चैव हि ।
प्राणायामेन कुम्भेन हन्याद्विघ्नानि सर्वतः ॥५३ ॥
रजः सत्वं तमश्चैव प्रधानस्य[^२६] गुणास्त्रयः ।
तस्यैव हि महेशस्य प्रजासंसर्गहेतवः ॥ ५४॥
योगमोहाद् भवन्त्येते साभिमानस्य युञ्जतः ।
निरीहो निर्वृतो योगी सचेता घटते यदा ॥५५॥
प्रातिभानि तदा यान्ति विघ्नानि हि समं क्षयम् ।
प्रादुर्भावस्ततस्तेषां गुणानां मोहकारणम् (?) ॥५६ ॥
तमो रौद्रं विजानीयात् सत्वं ब्रह्मणि संस्थितम् ।
रजस्तु बैष्णवं विद्यात्तेषां हन्ता[^२७] महेश्वरः ॥५७॥
महादेवं परं ज्ञात्वा योगाभ्यासरतो द्विजः ।
गुणत्रयविनिर्मुक्तः शङ्करे लयमाप्नुयात् ॥५८ ॥
यमैः सनियमैः पूर्वं शोधयेदात्मनस्तनुम् ।
ततः शास्त्रप्रणीतेन धर्माधर्मविवर्जितः[^२८] ॥५९॥
क्रमेण सोपदेशेन ध्यानाभ्यासं समाचरेत् ।
शब्दादीन् विषयान् जित्वा श्रोत्रादीन्द्रियगोचरान्[^२९] ॥8.174.६० ॥
उन्मत्तमदयुक्तानि - क. । २५ नाभिसम्बन्धान् - ख. । २६ प्राधान्यस्य - क., प्राधान्येन(?) । २७ हर्ता - ख. । २८ -धर्मविवर्जितात् - क. । २९ त्वगादिन्द्रियगोचरान् - क. ख. ।
समो दैवततिर्यक्षु[^३०] निर्ममः सर्ववस्तुषु ।
सर्वारम्भविनिर्मुक्तः पुण्यपापविवर्जितः ॥६१ ॥
निर्द्वन्द्वो[^३१] निर्जने[^३२] ईशे योगाभ्यासं समाचरेत् ।
साभिमानं सनियमं त्यक्त्वा[^३३] साङ्ख्यविनिश्चयम् ॥ ६२ ॥
परे माहेश्वरे योगे नित्यमम्यासमाचरेत् ।
अष्टौ प्रकृतयो नित्या विकाराश्चैव षोडश ॥६३ ॥
पुरुषः पञ्चविंशश्च साङ्ख्यसिद्धान्तगोचरः ।
एतदेव परं गुह्यं[^३४] द्र्ये साङ्ख्यानां तत्त्वनिश्चये ।
प्रकृतेरन्तरं ज्ञात्वा पुरुषस्य च मुच्यते[^३५] ॥६४॥
इति स्कन्दपुराणे पाशुपतयोगवर्णनं नाम ध्यानविधौ प्रथमोयं चतुःसप्तत्युत्तरशततमोध्यायः