व्यास उवाच
नगेन्द्रो जीविते क्रौञ्चे तोषिते च सुरैर्गुहे ।
यातो[^१] हिमवतः शृङ्गं पार्वत्या सहितो हरः ॥१ ॥
किमन्यदकरोद्देवः किं चैनं प्राह पार्वती ।
एतत् कथय विप्रेन्द्र न तृप्तिः शृण्वतो हि मे ॥ २ ॥
सिद्धं - ख । ३ मवाप्नुयात् - क. । ३४ मुनिसत्तमः - क. । ३५ संयोग. - क । ३६ शान्तं - क. । ३७ परममृदुता (?) - ख. । ३८ विप्रमुक्तो - क- । ३९ प्रतिबद्धमुक्तो - ख॥ ४०२२० - ख. । १ तया - क., यात्वा - ष ।
सूत उवाच एवमुक्तो मुनीन्द्रेण ब्रह्मणस्तनयोव्ययः ।
ऋषिः परमयोगीशः कथयामास तत्त्वतः ॥ ३ ॥
प्रयाते हिमवच्छृङ्गं देवदेवे सहोमया ।
बभाषे गिरिजा देवं प्रणम्य परमेश्वरम् ॥४॥
उञ्छवृत्तेर्हिरण्यस्य[^२] नैमिशारण्यवासिनः ।
शौचेन तपसा भक्त्या युक्तस्य च शमेन हि ॥५॥
स्वयमेव प्रयाताहं द्विजं पूजां प्रतीच्छितुम् ।
माहात्म्यं तस्य तद् दृष्ट्वा ब्राह्मणस्य तपस्विनः ॥६ ॥
गताहं विस्मयं देव द्विजाः श्रेष्ठतमा इति ।
देवेभ्योपि गरीयांसो ब्रह्मणा इति मे मतिः ।
त्वत्तोथ[^३] श्रोतुमिच्छामि द्विजमाहात्म्यमुत्तमम् ॥७॥
देवदेव उवाच
एवमेतज्जगद्धात्रि सुरासुरनमस्कृते ।
श्रेष्ठास्तपस्विनो विप्रा देवेभ्योपि गरीयसः[^४] ॥८॥
मदीया याः प्रजाः[^५] सृष्टाः[^६] प्रथमाः प्रभवो ह्यहम् ।
रुद्रा द्विजातयः पूर्वं मया सृष्टा महौजसः ॥९॥
मदीयां मृष्टिमालोक्य ब्रह्मणापि सिसृक्षुणा ।
ब्राह्मणा मूर्धतः सृष्टाः पूर्वमेव महाप्रभाः ॥ 8.173.१० ॥
अग्रभूतो[^७] ह्यहं तेषां द्विजश्रेष्ठस्तदाभवम् ।
ततस्ते[^८] मत्सखाः[^९] सर्वे बभूवुर्विप्रसत्तमाः ॥ ११ ॥
उत्तमैषापरा[^१०] सृष्टिर्ब्राह्मणाः[^११] परमेष्ठिनः ।
धर्मादिकं चतुर्वर्णं सर्वं तेषु प्रतिष्ठितम् ॥ १२ ॥
यज्जुह्वति[^१२] हविर्विप्रास्तेन तृप्यन्ति देवताः ।
जगत् प्रतिष्ठितं सर्वं ब्राह्मणानां[^१३] हि तेजसा ॥ १३ ॥
उञ्छवृत्तिर्हिरण्यस्य - ख टि. ३ तत्त्व?- - ख. । ४ गरीयांसः (?) । ५ पुरा - क. । ६ सृष्ट्वा - क. । ७ अग्रीभूतो? - क. । ८ ततते - ख । ९ मत्समाः (मन्मयाः) - ख, १० पुरा - ख. । ११ ब्राह्मणं - क । १२ जुह्वन्ति - क. ख. । १३ ब्राह्मण्येन (?) ।
मृत्युजन्मापहं यत्तन्मम पाशुपतं व्रतन् ।
न वर्णाः साधयन्त्यन्ये मुक्त्वा ब्राह्मणसत्तमान् ॥१४॥
लक्षणं सम्प्रवक्ष्यामि द्विजातीनामिदं शृणु ।
शौचार्जवविधानं च प्रभावं कर्म चैव ह ॥१५॥
ब्राह्मणस्तु भवेज्जात्या[^१४] संस्काराद् द्विज उच्यते ।
विद्यया विप्रतां याति ब्राह्मण्यं त्रिविधं स्मृतम् ॥ १६॥
यश्च जात्या भवेद् विप्रो यश्च[^१५] स्याद् वेदपारगः ।
तयोस्त्राणे वधे चापि[^१६] पुण्यपापे[^१७] समे[^१८] स्मृते[^१९] ॥ १७॥
जात्या च यो भवेद्विप्रः सर्वागमविशारदः[^२०] ।
तपशौचसमायुक्तस्त्र्यवदातः स उच्यते ॥ १८ ॥
तादृशं भोजयेच्छ्राद्धे दैवे कर्मणि वापि[^२१] यः ।
अक्षयं तद् भवेत् तस्य व्यवदातस्य तर्पणात् ॥१९॥
वेदविद्यो भवेद्विप्रो नित्यं होमपरायणः ।
सोपि श्रेष्ठः स्मृतो देवि पूजितस्तारयेत् कुलम् ॥8.173.२० ॥
सर्वथा जातिमात्रेण योपि स्याद् ब्राह्मणः क्वचित् ।
सोपि लोकगुरुर्देवि पूजितः स्वर्गदो भवेत ॥२१ ॥
अग्निहोत्रं तपो यज्ञः शौचमार्जवमेव च ।
सत्यं वेदप्रसङ्गश्च द्विजकर्म परं स्मृतम् ॥२२ ॥
नानृतं ब्राह्मणो ब्रूते न हन्ति प्राणिनं द्विजः ।
न सेवां कुरुते विप्रो न द्विजः पापकृद्भवेत् ॥ २३ ॥
ब्राह्मणश्च तपस्वी च न जन्म पुनराप्नुते ।
विद्वद्ब्राह्मणतां लब्ध्वा किन्न लब्धं हि देहिना[^२२] ॥ २४॥
मूर्त्तयो याः स्मृता ह्यष्टावर्कसोमादयो मम ।
सर्वास्ता निवसन्ति स्म ब्राह्मणे तपसैधिते[^२३] ॥२५॥
भवेज्जन्मात् - क. । १५ यच्च - क. । १६ वापि - ख. । १७ पुण्यपापौ - क ख । १८ समौ - क- ख. । १९ स्मृतौ - क. ख. । २० विदे(व च) विशारदः - ख । २१ चापि - ख । २२ देहिनाम् - ख. । २३ तपमधिते - क. ख. ।
द्विजतेजो ह्यवष्टभ्य अमृतं गाव एव च ।
प्रभवन्ति सदा देवि विप्राः श्रेष्ठतमास्ततः ॥२६॥
नासाध्यं[^२४] विद्यते तेषां द्विजानां परमौजसाम् ।
रुषितास्ते[^२५] प्रसन्ना वा प्रयच्छन्ति शुभाशुभम् ॥२७॥
द्विजास्तपस्विनो ये तु वेदविद्याविशारदाः ।
मुक्तिदास्तु[^२६] भवेयुस्ते देवानामपि देवताः ॥२८॥
अहं पितामहश्चैव तेषां योनिद्वयं[^२७] स्मृतम् ।
मत्तः पूर्वं प्रसूतास्ते ततो देवि पितामहात् ॥२९॥
आवां हेतू द्विजातीनां प्रकृतित्वात् त्वमेव च ।
प्रकृतिस्त्वं समाख्याता पुरुषः परमो ह्यहम् ॥8.173.३० ॥
ब्रह्मविष्णू स्मृतौ यौ तौ रजःसत्वगुणात्मकौ ।
आवाभ्यां तौ प्रजायेते सृष्टिकाले प्रजापती ॥३१ ॥
अहं[^२८] ह्यग्निस्तमो विष्णुः सत्वं ब्रह्मणि संस्थितम् ।
रजस्त्वं व्यापितं विद्धि गुणभूतेषु कर्मसु ॥३२॥
मोहात्मको स्मृतावेतौ तमो रागस्तथैव च ।
सत्वं नाशयते तौ हि स चाग्नेः[^२९] सम्प्रजायते ॥३३ ॥
वह्नितेजाः स्मृता ह्येते महात्मानो द्विजातयः ।
सर्वतः प्रभवन्त्येते नास्ति तेषां निवारणम् ॥ ३४॥
आर्जवं समतां चैव विद्धि तेजो द्विजातिषु ।
तपोविद्यासमायुक्तादार्जवस्तु विशिष्यते ॥३५॥
अशाठ्यं[^३०] हन्ति पापानि समता मोहबन्धनम् ।
उभेप्येते निहन्ति स्म आर्जवं सेवितं द्विजैः ॥ ३६॥
पुरा भागीरथीतीरे द्विजः परमधर्मवित् ।
नाम्ना दानरुचिर्नाम उञ्छवृत्तिर्बभूव ह ॥३७॥
सर्वविद्याविनीतात्मा सर्वभूताभयप्रदः ।
सह पत्न्या च मद्भक्तो वह्निहोमपरायणः ॥३८॥
नासाद्यं - ख. । २५ तुषितास्ते - क. । २६ वृत्तिदास्तु - क. । २७ योनीद्वयं - क ख. । २८ अह - क. । २९ तच्चाग्नेः (?) । ३० असाध्यां - ख. ।
अतिथिं भोजयित्वा च[^३१] पूर्वं देवि यथागतम् ।
षष्ठे काले ततोश्नाति तस्येदं व्रतमुत्तमम् ॥३९ ॥
अथैवं वर्तमानस्य भूयान् कालो जगाम ह ।
अतिथावागते[^३२] तस्य न विकल्पः प्रजायते ॥8.173.४० ॥
तपशौचसमायुक्त[^३३] आर्जवैकरतो द्विजः ।
बभूवात्यर्थमर्चिष्मानर्काग्नी इव[^३४] तेजसा ॥४१ ॥
तस्यैवं तपसो[^३५] वह्निः प्रीतस्तुष्टिमगात् पराम् ।
शुभदित्सुरभूच्चास्य समीहितफलप्रदः ॥४२ ॥
कदाचिदथ कालेन षष्ठे काले समागते ।
हिममेघोल्बणे शीते दुर्दिने पर्यटन् द्विजः ॥४३ ॥
नापश्यदतिथिं कञ्चिद्[^३६] बुभुक्षाक्लमखेदितः ।
यदा नासदितस्तेन दिनान्तेप्यतिथिः क्वचित् ॥४४॥
अप्राश्यैव तदा किञ्चिदुपवासपरायणः ।
बभूव द्विजमुख्योसौ नात्मखेदमचिन्तयत्[^३७] ॥४५॥
पत्न्यप्यस्य महाभागा पतिभक्तिव्रते रता ।
यथैवास्याः[^३८] पतिश्चक्रे तथा साप्यकरोत्तदा ॥४६॥
शीतक्षुदुपतप्ताङ्गो नैकद्वन्द्वसमावृतः ।
क्लेशेन महतातीव खिन्नोभूद्देवि स द्विजः ॥४७॥
द्वितीयेथ समायाते षष्ठे काले स ह द्विजः[^३९] ।
शीतदुर्द्दिनजाद्दोषान्नैवातिथिमवैक्षत[^४०] ॥४८ ॥
अथाग्निस्तस्य[^४१] तज्ज्ञात्वा[^४२] निश्चयं परमं महत् ।
श्वपाकसदृशं रूपं विकृतं कुत्सितं च हि[^४३] ॥४९॥
कृत्वा पादपमूलस्थः[^४४] प्रददौ तस्य दर्शनम् ।
क्षुधार्तोथ स विप्रेन्द्रः पर्यटन्नतिथीप्सया ॥8.173.५० ॥
तु - ख । ३२ अतिथेरागमे(?) । ३३ तपसः शौचसंयुक्त - क. ख.। ३४. .नर्काग्न्योरवि(ग्न्योरिव? - ख. । ३५ तप(प्य)तो (?) । ३६ किञ्चिद् - क. । ३७ मन्नखेदमचिन्तयत् - ख. । ३८ यथैव च - ख. । ३९ समागते - क, महाद्विजः - ख. । ४० मवेक्षत - क । ४१ तथाग्निस्तस्य - क. ख । ८२ तं ज्ञात्वा - क. । ४३ बहिः (?) । ४४पादमूलस्थो - क. ख. ।
अपश्यद् वृक्षमूलस्थं घोरं विकृतरूपिणम् ।
श्वपाकं शीतसङ्खिन्नं नैकव्रणशताङ्कितम्[^४५] ॥५१ ॥
दुर्दृशं[^४६] वृद्धमार्त्तञ्च प्रस्रवत्कृमिशोणितम् ।
विक्रोशन्तं च तातेति सोपश्यद् द्विजसत्तमः ॥५२ ॥
कृपणं तमथो दृष्ट्वा श्वपाकं द्विजसत्तमः ।
समाश्वसिहि भद्रेति प्रोवाच मधुरं वचः ॥५३ ॥
शीतापनयनार्थञ्च वह्निमस्यानयद् द्विजः ।
अथ तं[^४७] वह्निसंसर्गात् समाश्वस्तमुवाच सः[^४८] ॥५४॥
एहि भुङ्क्ष्वातिथिर्मे त्वं[^४९] भव भद्रेति सादरम् ।
तमुवाच ततो[^५०] दीनं[^५१] श्वपाकस्तपसां निधिम् ॥५५॥
श्वपाकोहं द्विजश्रेष्ठ मह्यमन्नमिहैव हि ।
कुत्सिताय प्रयच्छस्व यथैव मृगपक्षिणाम् ॥ ५६ ॥
नाहं संस्कृतमाहर्तुं योग्योन्नमिति चाब्रवीत् ।
तमेवं वादिनं ध्यानाज्ज्ञात्वा[^५२] वह्निमुपस्थितम् ॥५७॥
प्रोवाच द्विजशार्दूल इदं वचनकोविदः ।
नाहं जातिं गर्हयामि पूजयामि .न चानघ ॥५८॥
आत्मा सर्वगतो ह्येष सर्वप्राणिषु संस्थितः ।
आत्मानं तमहं भक्त्या पूजयामि परं शिवम् ॥५९॥
सर्वत्र संस्थितं मत्वा पुरुषं परमेश्वरम् ।
तिर्यक्षु नहि मे कुत्सा त्वद्विधेषु विशेषतः ॥ 8.173.६० ॥
सर्वमेव स एवेति तपःशौचपरायणः ।
पूजयाम्यहमव्यग्रस्तत्र निस्संशयो भव ॥६१ ॥
कृमिकीटाखुसर्पेषु[^५३] श्वपाग्देवद्विजातिषु ।
यदा सर्वगतो ह्यात्मा तदा कुत्सा कथञ्च नः[^५४] ॥ ६२ ॥
व्रणशतार्दितम् - ख. । ४६ दुर्दर्श - ख. । ४७ श्वपाकं (?) । ४८ ह - ख । ४९. मंह्य - ख. । ५० तदा - क. । ५१ दीनः - क । ५२ ध्यात्वा ज्ञात्वा - ख. । ५३ क्रिमिकीटाखुसर्पेषु - ख. । ५४ कथञ्चन (?) ।
न हि मे कुत्सितो भद्र एहि मे त्वमकुत्सितः[^५५] ।
भुङ्क्ष्व संस्कृतमन्नन्तु प्रापयास्माननुग्रहम् ॥ ६३ ॥
एवमुक्तो द्विजेन्द्रेण श्वपाकः प्रीतिमाँस्तदा ।
गृहं जगाम विप्रस्य तस्यानुग्रहलिप्सया ॥ ६४॥
अथ दानरुचिस्तस्य अतिथेरिव पूजितम् ।
आतिथ्यं विधिवच्चक्रे भावशुद्धेन चेतसा ॥६५ ॥
मूर्त्तिमान् सोभवत् प्रीतो भोजितो हव्यवाहनः ।
प्रददावीप्सितं चास्मै योगैश्वर्यमनुत्तमम् ॥६६ ॥
स योगं परमं प्राप्य उञ्छवृत्तिर्द्विजोत्तमः ।
विमुक्तः सह पत्न्या तु प्राप्तवानमृतं पदम् ॥ ६७॥
यथैव कपिलः सिद्धस्तत्त्ववित् परमो मुनिः ।
एवमार्जवसम्पन्नो ब्राह्मणः कृतलक्षणः ।
न किञ्चिन्नाप्नुयाद्देवि शुभाच्छुभतरं पदम् ॥६८ ॥
एतत्ते कथितं नगेन्द्रतनये माहात्म्यमग्र्यं परं
विप्राणाममरत्विषां सुबहुशः पुण्यायुषः[^५६] प्रापकम्[^५७] ।
शृण्वन्नित्यमिदं पठँश्च विधिवद्विद्वाञ्छुचिर्मानवः
पुण्यं सौख्यमथायुरीप्सितफलं तेजो बलं चाप्नुयात् ॥६९॥
माहात्म्यमेतत् कथितं यथावत्
महामहीध्रेन्द्रसुते द्विजानाम् ।
सृष्टेः प्रभवान्मम ते द्विजेन्द्रा
माहात्म्यमित्थं परमं ह्यवापुः ॥8.173.७० ॥
सनत्कुमार उवाच
द्विजमाहात्म्यमुल्लिख्य पार्वतीपरमेशयोः ।
बभूवेत्थं सुसंवादः पुण्यः पापविनाशनः ॥७१ ॥
-
-
-
-
-
-
-
- पाराशर्य तपोधन ।
श्रोतव्यं मन्यसे मत्तस्तत् पृच्छस्व समाहितः ॥७२॥
- पाराशर्य तपोधन ।
-
-
-
-
-
-
इति स्कन्दपुराणे द्विजमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमोध्यायः[^५८]