सनत्कुमार उवाच
शक्रेण गिरयः पूर्वं छिन्नपक्षा यथा कृताः ।
तत् प्रवक्ष्यामि ते व्यास शृणु सर्वमशेषतः ॥१ ॥
पुरा सिंहवपुः कृत्वा विष्णुना परमौजसा ।
दैत्यदानवनाथे तु हिरण्यकशिपौ हते ॥२ ॥
प्रह्रादस्तत्सुतो दैत्यो विष्णुं प्रति चुकोप ह ।
हते पितरि स श्रीमान् महादैत्यपतीश्वरः ॥३ ॥
बहून्यब्दसहस्राणि चकारोग्रं महातपः ।
अथ देवश्चतुर्वक्त्रस्तुष्टस्तमसुराधिपम् ॥४॥
प्रोवाच स्वयमागत्य वरदोस्मीति सादरम् ।
प्रणम्योवाच वरदमिदं ब्रह्माणमागतम्[^१] ॥५ ॥
प्रह्लादो मन्युतप्ताङ्गः पितुर्वधमनुस्मरन् ।
भगवन् यदि तुष्टोसि वरदश्च समागतः ॥६॥
राजानं हतवान् विष्णुः पितरं मम मायया ।
सङ्ग्रामे तमहं विष्णुं यथा हन्यां तथा कुरु ॥७॥
तमुवाच ततो ब्रह्मा प्रह्लादमसुरोत्तमम् ।
अजय्यः समरे विष्णुरवध्यश्च सुरासुरैः ॥८॥
प्रसादाद्देवदेवस्य जगत्स्रष्टुरुमापतेः ।
नैष शक्यो मया दातुं वरस्तुभ्यं महासुर ॥९ ॥
जगतीश्वराणां क ।
प्रणम्य तमुवाचेदं वरदं ब्रह्ममागमतम् - क. ।
अन्यं वृणु[^२] यथेष्टं त्वं वरं यावद्ददामि[^३] ते ।
चिन्तयित्वा ततो भूयो महाबुद्धिर्महासुरः ॥ 8.172.१० ॥
प्रोवाच[^४] वचनं देवं कमलासनसंस्थितम् ।
अजय्यो यद्यवध्यश्च स विष्णुर्देवसत्तमः[^५] ॥ ११ ॥
तस्य विष्णोस्ततो देव शक्रस्यान्यस्य वा रिपोः ।
अवध्योहमजय्यश्च सम्भवेयं तवाज्ञया ॥ १२ ॥
एवस्त्विति तं ब्रह्मा प्रोच्य दानवसत्तम ।
दिव्यपद्मासनो देवस्तत्रैवान्तरधीयत ॥ १३ ॥
प्रह्लादोपि वरम्[^७] लब्ध्वा ब्रह्मणः परमाद्भुतम् ।
पश्चिमस्योदधेस्तीरे तस्थौ चिन्ताकुलेन्द्रियः ॥१४॥
कथं हन्यामहं विष्णुं शक्रं चैव शतक्रतुम् ।
एवं चिन्तयतस्तस्य प्रह्लादस्य सुरद्विषः ॥ १५॥
सर्वशैलाधिपः श्रीमाँश्चक्रमन् हिमवान् गिरिः ।
द्वाभ्यामुत्पत्य पक्षाभ्यामाजगाम वियच्चरः ॥ १६॥
पुरा हि गिरयो व्यास आसन् पक्षसमन्विताः ।
दिव्या वियद्गमाः सर्वे सर्वलोकचरास्तथा ॥ १७॥
तमागतमथो दृष्ट्वा प्रह्रादो हिमवद्गिरिम् ।
प्राहेदं वचनं प्रीतः कृत्वा स्वागतमादितः ॥ १८ ॥
कश्यपस्य[^९] वयं पौत्रा दैत्या गिरिवराधिप ।
भवन्तोपि[^१०] सुतास्तस्य देवा अपि महागिरे[^११] ॥१९॥
अस्माकं भवतां चैव एकस्मात् सम्भवो गिरे[^१२] ।
देवता भ्रातरो[^१३] भूत्वा अस्माकं देवताश्च[^१४] हि ॥8.172.२० ॥
अवमन्यासुरानस्मान् राज्यं कुर्वन्ति दर्पिताः ।
वयं यूयं च सङ्गत्य जित्वा देवानशेषतः ।
त्रैलोक्यं सर्वमाक्रम्य राज्यं कुर्मो[^१५] महागिरे ॥२१ ॥
अन्यद् वृणु - क. । ३ वरं दैत्य ददामि - ख, ददानि - क. । ४ उवाच - ख । ५ देवसत्तम - ख. । ६ दानवसत्तमः - क.,. म - ख. । ७ वरान् - ख. । ८ प्रीतो दत्त्वा - क. । ९ कास्यपस्य - क । १० भवतोपि - क ख. । ११ महामुने - क. । १२ मुने - क. । १३ भ्रातरो देवता - क. ख. । १४ देवताञ्च - क. ख. । १५ कुर्म - ख. ।
देवानां[^१६] यजनं येषु हूयन्ते येषु चाग्नयः ।
प्रीयन्ते देवता येषु देशाँस्तानचलेश्वर ॥२२॥
सहितः सर्वशैलैस्त्वमाक्रम्य त्वरितं जहि ।
इज्याहीनान् ततो देवान् सुखं हंस्याम निर्वृताः ॥ २३ ॥
इत्युक्तो दैत्यराजेन हिमवानचलोत्तमः ।
नैतद्युक्तमिति प्राह साशङ्को दानवाधिपम् ॥२४॥
पुनरेव ततः प्राह हिमवन्तं महासुरः ।
मत्तो युक्तं परं[^१७] त्वं चेद्यदि वेत्सि नगाधिप ॥ २५ ॥
एष त्वां सहितं शैलेर्नेष्यामि निधनं समम् ।
अप्रमत्तस्तदा तिष्ठ[^१८] यावत्त्वां हन्मि पर्वत ॥२६ ॥
दैत्यराजं ततः क्रुद्धं दृष्ट्वा पर्वतसत्तमः ।
करोम्येवमिति प्राह ततो दैत्यस्तुतोष सः[^१९] ॥ २७॥
अथ शैलैस्तदा सार्धं हिमवानचलोत्तमः ।
प्रह्लादस्य वचः श्रुत्वा[^२०] चक्रे देशोपमर्दनम् ॥२८॥
पितृदेवात्मिकाः सर्वा यज्ञहोमादिकाः क्रियाः[^२१] ।
वर्तन्ते येषु देशेषु गिरयस्तान् समाक्रमन ॥२९ ॥
अथोत्सन्नेषु देशेषु नारदो मुनिसत्तमः ।
शक्रायाश्रावयत्[^२२] सर्वं पर्वतानां व्यतिक्रमम् ॥8.172.३० ॥
तच्छ्रुत्वा क्रोधसन्तप्तो देवराजः शतक्रतुः ।
समागम्याचलान् प्राह किमेतदिति मन्युमान् ३१ ।
अथोचुर्गिरयो व्यास क्रुद्धं देवगणाधिपम् ।
प्रह्लादस्य भयाद्देव महादैत्यपतेर्वयम् ॥ ३२ ॥
इमं व्यतिक्रमं प्राप्ता न[^२३] दोषो नः कथञ्चन ।
अथ चेन्मन्यसे दोषमस्माकममराधिप ॥३३ ॥
देवतां - क. । १७ वरं - क., युक्तवरं - ख. । १८ ततस्तिष्ठ - ख. । १९ ह - ख. । २० सर्वं - ख. । २१ यज्ञहोमादिकक्रियाः - क. । २२ शक्रमश्रावयत् - क. । २३ ह - ख. ।
प्रह्रादान्तिक्रमागच्छ प्रयाम सहिता द्रुतम् ।
तेनेदं कारितं सर्वं यज्ञदेशोपमर्दनम्[^२४] ।
दैत्यराजेन बलिना युष्मदप्रियलिप्सया ॥३४॥
नापराधोयमस्माकं[^२५] तथा त्वं विद्धि देवप ।
तानेव ब्रुवतः शक्रः सुतरां मन्युमान् गिरीन् ॥ ३५॥
पक्षहीनान् तदा चक्रे क्षिप्त्वा वज्रं पुनःपुनः ।
हीनपक्षास्ततस्ते तु सर्व एवाचलेश्वराः ॥ ३६ ॥
पेतुर्महीतले व्यास छिन्नपक्षाः खगा इव ।
अथ दैत्यपतिः श्रुत्वा प्रह्रादोसुरपुङ्गवः ॥३७॥
पक्षच्छेदं नगेन्द्राणां भृशं चुक्रोध पीडितः[^२६] ।
किङ्करोमीति सञ्चिन्त्य चिरं दैत्यगणाधिपः ॥३८॥
वदर्याश्रममागत्य ददर्श[^२७] विष्णुमास्थितम् ।
तस्यासीत् सुमहद्युद्धं विष्णुना सार्धमद्भुतम् ॥३९॥
न शशाक च तं[^२८] विष्णुर्जेतुं प्रह्लादमोजसा ।
तयोर्युद्धमभूद् घोरं दिव्यमब्दशतं पुरा ॥8.172.४० ॥
आत्मानं वेद हीनं च विष्णुः प्रह्लाददानवात् ।
सोभियुक्तस्तदा युद्धे विष्णुः परमधर्मवित् ॥४१ ॥
अशक्तो दानवं जेतुं मन्युमानभवत् प्रभुः ।
अथ ध्यात्वा महादेवं प्रणम्य च पुनः पुनः ॥४२॥
सस्मार पर - - - - - - - - - - - ।
-
-
-
-
-
-
-
-
-
-
-
- पिनाकिनः ॥४३ ॥
-
-
-
-
-
-
-
-
-
-
अवध्यत्वमजय्यत्वं सर्वलोकनिवासिभिः ।
प्रसादं तमनुस्मृत्य शैवं विष्णुः सुरोत्तमः ॥४४॥
महासत्वबलो भूत्वा दैत्यमभ्यद्रवद् बली ।
हीयमानमथात्मानं हिण्यकशिपोः सुतः ॥४५॥
देशयज्ञोपमर्दनम् - क. ख । २५ यथास्माकं - क ख । २६ पि(प)ण्डितः - क. । २७ ददृशे - ख. ।
ज्ञात्वा च बलिनं विष्णुं युद्धदेशादपाक्रमत् ।
अजितं विष्णुनात्मानं शिवतेजोविमोहितः ॥४६ ॥
प्रह्रादो जितमात्मानं[^२९] बुबुधे दानवेश्वरः ।
ब्रह्मणोपि वरं लब्ध्वा अजयय्यत्वमथात्मनः ॥४७॥
जितमेव तदात्मानममन्यत महासुरः ।
प्रह्रादासुरसङ्ग्रामं घोरं देवभयङ्करम् ॥४८॥
अभूदब्दशतं दिव्यं विष्णुना सार्धमद्भुतम् ।
न श्रुतेन न वीर्येण न शौर्येण न तेजसा ॥४९॥
न बुद्ध्या न च धर्मेण प्रह्रादसदृशोसुरः ।
हिरण्यकशिपुर्नासीद्राजा तत्सदृशो महान् ॥8.172.५० ॥
नान्धको न हिरण्याक्षः प्रह्लादसदृशो बले ।
भृगुशापात् किलायातो दैत्यत्वं विष्णुरेव सः ॥५१ ॥
शौर्येण स्पृहयन्ति स्म श्रुतेन विनयेन च ।
दिवौकसोपि संसिद्धाः प्रह्रादस्य महात्मनः ॥५२॥
नाभवंस्तस्य राज्ये तु दुःखशोकान्विताः प्रजाः ।
एवं स दानवश्रेष्ठः कृत्वा युद्धं तु विष्णुना ॥५३ ॥
पश्चात्तापोपतप्ताङ्गो विषयेभ्यो गतस्पृहः ।
वरदानमनित्यं तज् ज्ञात्वा च तपसः फलम् ॥५४॥
निःस्पृहः सर्वकार्येषु विषयेप्साविवर्जितः ।
सर्वसन्न्यस्तकर्मा तु[^३०] ध्यानाभ्यासपरायणः ॥५६ ॥
प्रवव्राज महादैत्यः शमेप्सुर्मोक्षसिद्धये ।
पुनरावर्तकं जन्म बुद्ध्वा चानित्यता पराम् ॥५७॥
कष्टं राज्यमिति ज्ञात्वा प्रह्रादः परमार्थवित् ।
अभिषिच्य सुतं राज्ये दितिजानां[^३१] विरोचनम् ॥५८ ॥
दैत्यदानवराजानं कृत्वा तमसुरेश्वरम् ।
मोक्षसिद्धिं परामिच्छन् प्रव्रज्याकृतनिश्चयः ॥५९॥
जितमित्येव - क. । ३० सन्न्यस्तसर्वकमा तु (?) । ३१ दितिजातां (तं?) - क. ।
वरं तत्त्वमथान्वेष्टुं गुणातीतमजं शिवम् ।
साक्षाद् भगवतः शिष्यं[^३२] कपिलस्यासुरिं मुनिम् ॥8.172.६० ॥
शिष्यत्वेनोपसङ्गम्य मोक्षविद्यामवाप्तवान्[^३३] ।
प्रकृतीनां परं तत्त्वं विकाराणां परं तथा ॥ ६१ ॥
क्षेत्रज्ञं पुरुषं ज्ञात्वा भोक्तारं भोक्तृवर्जितम् ।
मोक्षविद्यापरार्थज्ञः साङ्ख्यसिद्धान्तपारगः ॥६२ ॥
सिद्धः पञ्चशिखो नाम्ना सोभवन्मुनिसत्तम[^३४] ।
स योगं[^३५] परमं लब्ध्वा साङ्ख्याचार्यो महामुनिः ।
दुःखत्रयविनिर्मुक्तः प्राप्तवान् पदमव्ययम् ॥६३ ॥
श्रीमानेवं त्रिभुवनरिपुर्दैत्यराजो महात्मा
कृत्वा वैरं विबुधगुरुणा विष्णुना दीर्घकालम् ।
सिद्धः पश्चाज्जगदभयदः प्राप्तयोगश्च भूत्वा
मुक्तः पश्चात्[^३६] स पदममृतं[^३७] ब्रह्म चाद्यं ह्यवाप ॥६४॥
क्षेत्रज्ञबोद्धा गुणविप्रयुक्तो[^३८] दुःखैर्विहीनो भवपाशबन्धैः ।
तामिस्रमोहप्रतिबन्धमुक्तो[^३९] योगोश्वरोसौ दितिजाधिपोभूत् ॥६५॥
एवं ताँश्छिन्नपक्षाँस्तु गिरीन् सर्वान् पुरन्दरः ।
प्रचकार मुनिश्रेष्ठ प्राक् पृष्टो यदहं त्वया ॥६६॥
इति स्कन्दपुराणे प्रह्रादचरिते पर्वतपक्षच्छेदोनामा द्विसप्तत्यधिकशततमोध्यायः[^४०]