१७१

व्यास उवाच
श्रुतं मयैतद् भगवन् दहनं त्रिपुरस्य तु ।
विचित्रार्थं यथावृत्तं क एवमभिधास्यति ॥ १ ॥

कस्मात् क्रुद्धो नगेन्द्रं तं क्रौञ्चं दारितवान् गुहः ।
पक्षान् सर्वगिरीन्द्राणाम्[^१] कस्माच्चिच्छेद वासवः ॥२ ।
सनत्कुमार उवाच
शृणु व्यास महाबुद्धे यन्मां त्वं परिपृच्छसि[^२] ।
कुमारेण यथा भिन्नो मैनाकिः[^३] क्रौञ्चपर्वतः ॥३ ॥

गिरिराजमथाभ्येत्य मेरुं सर्वसुरालयम् ।
अपश्यद्वासवः स्कन्दं सङ्घातं तेजसामिव ॥४॥

शरस्तम्बवने दृष्ट्वा कुमारमनलप्रभम्[^४] ।
सुरराज्यमदाविष्टः शक्रः पप्रच्छ षण्मुखम् ॥५॥

कस्त्वं दिव्यवपुर्बाल मेरुपर्वतमाश्रितः ।
न मां पूजयसे दृष्ट्वा देवराजमिहागतम् ॥६॥

तमेवं वादिनं शक्रं प्राह शूलधरात्मजः ।
ब्रह्माद्या मां विजानन्ति सिद्धा वेदविदश्च ये ॥७॥

तपसा लब्धराज्येन न चिरादस्तमेष्यता[^५] ।
किं त्वया जानता शक्र कार्यं किं पूजितेन वा ॥८ ॥

अथोवाच पुनः शक्रस्तं देव[^६]मनलात्मजम्[^७] ।
मत्तः परतरो[^८] नास्ति मुक्त्वा शर्वपितामहौ ॥९॥

कथमेवमवोचस्त्वम्[^९] विबुधाधिपमागतम् ।
यदि मत्तस्त्वमात्मानं महान्तं मन्यसेनघ ॥ 8.171.१० ॥

मैनाकतनयो ह्येष क्रौञ्चसिद्धनिषेवितः[^१०] ।
सुविस्तीर्णो महाशैलो नैकनिर्झरनिस्रवः ॥ ११ ॥

एह्येहि[^११] त्वं मया सार्धं कुरु शीघ्र प्रदक्षिणम् ।
य एनमावयोरेकः पूर्वमेव क्रमिष्यति ॥ १२ ॥


सर्वगिरीणां च - ख. । २ पृष्टवानसि - क । ३ मैनाकः - ख. । ४ कुमारं ह्यनलप्रभम् - ख. । ५.. तो - क. ख. ६ शक्रस्तदेव - क. । ७.. मनलात्मजः - क. । ८ परतरं - ख. । ९ कथं मिथ्य(ा)- मवोचस्त्वं - ख. । १० सिद्धर्षिसेवितः - ख. । ११ एह्येवं - ख ।


प्रभावात्तेजसा चैव स महान्नौ भविष्यति ।
बाढमित्येवमुक्त्वाथ कुमारः[^१२] षण्मुखस्तदा ॥ प ३ ॥

शक्रेण सह सङ्गत्य मयूरवरमास्थितः ।
महेन्द्रस्याग्रतो गच्छन् चक्रे क्रौञ्चं प्रदक्षिणम्[^१३] ॥ १४॥

अथ बुद्ध्वा महेन्द्रस्तु न्यूनमात्मानमानलात् ।
कुमारमभिसन्धित्सुर्मनसैव प्रदक्षिणम् ॥ १५॥

कृत्वा सुनिर्वृतस्तस्थौ उपविष्टः[^४] शिलातले ।
जवेनाथ कुमारस्तं क्रौञ्चं कृत्वा प्रदक्षिणम् ॥१६॥

प्रोवाचेन्द्रं[^१५] तदा दृष्ट्वा जेताहमिति सत्वरः[^१६] ।
अहमेव हि जेतेति शक्रस्तमवदद् गुहम् ॥ १७॥

असकृद् ब्रुवतोरेवं तयोः शक्रकुमारयोः ।
क्रौञ्चोभ्येत्य वचः प्राह किमेतदिति भूचरः ॥ १८॥

ततः शक्र उवाचेदं कुमारं वचनं तदा ।
एष एवावयोः क्रौञ्चो जयसाक्षी[^१७] महाबलः ॥ १९॥

नानृतं वक्ष्यति ह्येष पौत्रो हिमगिरेर्वरः[^१८] ।
पृच्छ्यतां शक्र को दोष इत्याह ज्वलनात्मजः ॥8.171.२० ॥

तं शक्रः सादरं प्राह केन त्वमचलाग्रतः ।
कृतप्रदक्षिणो[^१९] ब्रूहि प्रमाणं हि त्वमावयोः ॥ २१ ॥

ततः क्रौञ्चो विमूढात्मा सञ्चिन्त्य सुचिरं नगः ।
अयं शचीपतिश्चक्रे मामिहाग्रे प्रदक्षिणम् ॥ २२॥

  • -२० र्यं प्रहसन्[^२१] देवानित्युवाच नगाधिपः ।
    अथैवं ब्रुवतस्तस्य सत्यहीनं तदा गिरेः ॥२३ ॥

पपात शिखरं तूर्णं कुलिशेन यथा हतम्[^२२] ।
तत्रासन् यानि भूतानि सुराद्यानि गिरीश्वरे ।
तानि सन्त्यज्य शीघ्र तं प्रययुः सर्वतो दिशम् ॥२४॥


मयूरे - ख. । १३ क्रौञ्चप्रदक्षिणम, प्रदक्षिणाम् (?) । १४ तस्थावुपविष्टः (?) ’ १५ प्रोवाचेदं - क ख. । १६ सद्वचः - ख. । १७ जये साक्षी - ख । १८… र्वच - ख । १९ कृत प्रदक्षिणं - क. ख । २० आहाष्ट्रं - क. । २१ संशय - क- । २२ हतः - क ख ।


जहृषे वासवश्चापि मनसा पूजयन् गिरिम् ।
ततश्चुक्रोध रुद्रात्मा गिरेः क्रौञ्चस्य षण्मुखः ॥२५॥

        • गुहं द्रष्टुं[^२३] सङ्क्रुद्धं वासवस्तदा ।
          एकस्थे तेजसी पूर्णे वह्निभास्करयोरिव ॥ (?) २६ ॥

अथ शक्तिं समुत्क्षिप्य यमानलसमप्रभाम् ।
चिक्षेप भगवान् स्कन्दः क्रुद्धः क्रौञ्चजिघांसया ॥२७॥

सा पपात गिरेर्मूर्ध्नि शक्तिः क्रौञ्चस्य सत्वरम् ।
क्षीणायुषो यथा पुंसो मृत्युपाश - - - - ॥२८॥

स तया भिन्नमर्मा तु शक्त्या क्रौञ्चो नगोत्तमः[^२४] ।
सर्वतश्छिन्नसर्वाङ्गः स्रवद्रुधिरनिर्झरः ॥२९ ॥

मूर्त्तिमानपतद् भूमौ सञ्ज्ञाप्राणविवर्जितः ।
पतिं विनिहतं दृष्ट्वा पत्न्यस्तस्य सुदुःखिताः ॥8.171.३० ॥

विलपन्त्यस्तदा दीनं[^२५] पेतुः क्रौञ्चाचलोपरि ।
मेरुर्हिमाचलो विन्ध्यः कैलासो गन्धमादनः ॥३१ ॥

पारियात्रश्च सह्यश्च निषधोदयवामनाः[^२६] ।
क्रौञ्चस्य जनकश्चापि मैनाकः पर्वतोत्तमः ॥३२ ॥

सर्वे पर्वतराजान[^२७] आजग्मुः शोकपीडिताः ।
परिवार्य गिरिं क्रौञ्चं रुरुदुर्दुःखिता भृशम् ॥ ३३ ॥

भ्रातृपुत्र हतं ज्ञात्वा देवदेवी गिरीन्द्रजा ।
शर्वेण सहिता क्रौञ्चमाजगाम महाव्रता ॥ ३४॥

कुमारेण हतं दृष्ट्वा क्रौञ्चं बान्धवमात्मनः ।
पीडिताभूत्तदा देवी दृष्ट्वा पितरमर्दितम्[^२८] ॥३५॥

हिमवन्तं महाशैलं वधात् पौत्रस्य दुःखितम् ।
शुशोच गिरिजा दृष्ट्वा मुहुर्वीक्ष्य सुरेश्वरम् ॥ ३६ ॥

भगवन्तमथायातं देव्या सह पिनाकिनम् ।
शोकेनापि सुसन्तप्ता नमश्चक्रुर्महाबलाः[^२९] ॥३७॥


तं क्रुद्धं - क. । २४ क्रौञ्चनगोत्तमः - क. । २५ दीनाः (?) । २६ निषधोदयवामनः - क. । २७ सर्वपर्वतराजान - क. । २८ … मर्दितुम् क. । २९ मनश्चक्रुर्महमाबलाः - क ।


अथ प्रणम्य देवेशं हिमवानचलोत्तमः ।
व्यज्ञापयत दीनात्मा दुःखशोकपरिप्लुतः ॥ ३८ ॥

शक्रेणानेन भगवन्नात्मानं[^३०] बहुमन्यता ।
निधनं नायितः पौत्रो ममायं क्रौञ्चपर्वतः ॥३९॥

स्पर्धा कास्य कुमारेण तव देव सुतेन हि ।
नान्तरं वेद यो[^३१] दर्पात् कुमारस्यात्मनश्च ह ॥8.171.४० ॥

स्पर्धां कृत्वा कुमारेण हते पौत्रे ममाधुना ।
निर्वृतो गतदर्पोयं सुखं तिष्ठतु वासवः ॥४१ ॥

हते पौत्रे महादेव निमग्नः शोकसागरे ।
न जीवितुमहं शक्तो यास्ये पौत्रगतिं त्वहम् ॥४२ ॥

एवं विलपतस्तस्य मेरुविन्ध्यपुरोगमाः ।
विनेदुर्दुःखसन्तप्ता बान्धवाभावपीडिताः ॥४३ ॥

पितरं दुःखितं दृष्ट्वा तथान्यान् बान्धवान् गिरीन् ।
अभवच्छोकसन्तप्ता गिरिजापि जगद्धरा ॥४४॥

अथ तान् दुःखितान् दृष्ट्वा सर्वान् गोवृषवाहनः ।
मा कार्ष्ट शोकमित्युक्त्वा तनयं प्राह षण्मुखम् ॥४५॥

महान्तस्त्वद्विधाः पुत्र सापराधेपि बान्धवे ।
नाशुभं कुर्वते कस्मात् क्रौञ्चं निहतवानसि ॥४६॥

भ्रातृसूनुर्भवन्मातुरेष क्रौञ्चो महागिरिः ।
कथं भ्रातरमेनं स्वं[^३२] हतवानसि षण्मुख ॥४७॥

सदृशं कर्म नैतत्ते[^३३] मन्मयस्य सुतस्य ते[^३४] ।
ब्रूहि वा साम्प्रतं कर्म किमत्र बहु मन्यसे ॥४८॥

तमेवं वादिनं देवं[^३५] षण्मुखः पितरं तदा ।
इदं प्रोवाच सव्रीडं वचनं परमाद्भुतम् ॥४९॥

शक्रस्यापनयाद्देव क्रौञ्च एष हतो मया ।
असन्मन्त्रितवान् यस्माद् विज्ञप्तिमपरां शृणु ॥8.171.५० ॥


भगवान् आत्मान - क. । ३१ वेदयन् - क. । ३२ भ्रातरमेवं त्वं (?) । ३३ नैनत्ते - क. । ३४ सुतस्तव -क ।


त्वत्प्रसादादहं क्रौञ्चं जीवयामि नगोत्तमम् ।
दुष्करं नहि मे चिञ्चित् तव देव सुतस्य हि ।५१ ॥

उत्तिष्ठेति ततः क्रौञ्चं भ्रातरं प्राह षण्मुखः ।
स बिभ्रत् पूर्ववद्देहं क्रौञ्चो नगपतिः क्षणात् ॥५२॥

उत्तस्थौ नीरुजो[^३६] व्यास आश्चर्यं तदभूत्तदा ।
जीवितेनाचलेनैवं षण्मुखो वह्निसप्रभः ॥ ५३ ॥

स्मरन् रुद्रादधिक्षेपं कोपसंरक्तलोचनः ।
समक्षं सर्वदेवानां शक्रस्य च महाबलः ॥५४॥

वायुविष्णुयमानां च ब्रह्मणश्च महात्मनः ।
देवदेवं[^३७] प्रणम्येशं पितरं ह्युमया सह ॥ ५५॥

बभाषे वचनं देवः कुमारवररूपधृक् ।
शक्रेणानेन देवेन्द्रा मत्समक्षं प्रभाषितम् ॥ ५६॥

महांस्त्वत्तोहमित्येव तत्र मां मन्युराविशत् ।
तन्मयैषा महाशक्तिर्निखाता वसुधातले ॥५७ ॥

उद्धर्त्तुं योमरः शक्तो मुक्त्वा देवं पिनाकिनम् ।
उत्पाटयतु स ह्येतां[^३८] महान्मत्तस्ततो हि सः ॥५८॥

एवमुक्त्वा ततो देवो बालार्कसदृशप्रभः ।
तूष्णीं बभूव हृष्टात्मा तस्थौ च पितृपार्श्वतः ।५९॥

अथेन्द्रो देवतामध्ये राज्यदर्पान्वितोमरः[^३९] ।
उत्पाटयितुमुत्सेहे तां शक्तिं वसुधां गताम् ॥8.171.६० ॥

न च चालयितुं शक्तो यत्नादपि सुराधिपः ।
अथ लज्जान्वितोत्यर्थं तस्माद्देशादपाक्रमत् ॥६१ ॥

ततोन्ये दैवतश्रेष्ठा[^४०] ये यमानिलपुरस्सराः ।
मतिं चक्रुः समुद्धर्तुं यत्नं शक्त्याश्च दंशिताः (?) ॥ ६२ ॥

न च चालयितुं शेकुस्तां शक्तिममरोत्तमाः ।
ततो विष्णुरमेयात्मा देवान् दृष्ट्वा हतौजसः ॥६३ ॥


निरुजो - क. । ३७ देवी - क. । ३८ सो ह्येता - क. । ३९ राजदर्पान्वितोमरः - क. । ४० देवतेष्ठाः - क. ।


शक्तिमुद्धर्तुमुत्सेहे समक्षं त्रिदिवौकसाम् ।
तेनासौ चाल्यमानापि यस्माच्छक्तिर्धरातले ॥ ६४॥

न चचाल महावीर्या स्कन्दतेजोबलान्विता ।
ततो विष्णुरमेयात्मा ज्ञात्वा तत्त्वार्थमादृतः[^४१] ॥ ६५ ॥

कुमारं पूजयन् भक्त्या शक्त्युत्क्षेपान्न्यवर्तत ।
अथ सर्वेमरा व्यास विष्णुश्च सुरसत्तमः ॥६६ ॥

संस्तुत्य षड्मुख देवमिदमाहुर्महौजसः ।

          • देवानां महादेवसुतःप्रभुः ॥ ६७॥

नाथः पालयिता स्रष्टा आर्तिघ्नः प्रवरो महान् ।
त्वया नाथेन देवेश वयं सर्वे सुनिर्वृताः ॥ ६८॥

तिष्ठामः सहिताः सर्वे त्वमस्मान्[^४२] पाहि सर्वतः ।
शक्रव्यतिक्रमं चैव बालिश्यान्मोहकारितम् ॥६९॥

प्रणयाद्याचितोस्माभिः क्षन्तुमर्हसि सर्वदा ।
एवं स भगवान् सर्वैः कुमारः संस्तुतोमरैः ॥8.171.७० ॥

क्रोधं तत्याज शक्रे तु तुतोष च दिवौकसाम् ।
ततस्ते गिरयः सर्वे देवी च हिमवत्सुता ॥७१ ॥

देवराजस्तथा शक्रो हृष्टा गुहमपूजयन् ।
भगवानपि सन्तुष्टस्तनयाय वरान् ददौ ॥७२ ॥

ययौ चापि गिरेः शृङ्गं दिव्यं हिमवतः शुभम् ।
सार्धं गुहेन देव्या च मातॄणां गणनायकः ॥७३ ॥

क्रौञ्चेन सहिताश्चापि मेरुविन्ध्यादयोचलाः ।
शक्रश्च सुरराट् देवः स्वानि सद्मानि भेजिरे ॥७४॥

एवमेतद्यथा[^४३] क्रौञ्चः क्रौञ्चसारसवासिनः ।
गुहेन दारितः शक्त्या पश्चाच्चैव[^४४] कृतोमरः ३१७५॥

दृश्यते चापि[^४५] तत् क्रौञ्चे क्षतं शक्त्याचलोत्तमे ।
नैकदैवतसंवासं यदभूद्विस्तृतं[^४६] महत् ॥७६ ॥


मादितः (?) । ४२ तथास्मान् - क । ४३ एतस्मिन्नन्तरे - घ । ४४ पश्चादुभाभ्यां च - घ. । ४५ दृश्यतेद्यापि (?) । ४६ तदभूद्विस्तृतं - क. ।


एतत्ते कथितं सर्वं क्रौञ्चदारणमद्भुतम् ।
य इमं शृणुयान्मर्त्त्यः सर्वपापैः स मुच्यते[^४७] ॥७७॥

व्यास उवाच
भगवन्[^४८] परमेशानो मातॄणां नायकः कथम् ।
का एता मातरश्चापि शंसैतत् पृच्छतो मम ॥७८॥

कथं मातृगणा जाताः किन्निमित्तमथापि च ।
किंवीर्या किम्प्रभावाश्च सम्भूतास्ते गणाः प्रभो ॥७९॥

कश्चासामाश्रयो येन वर्तन्ते तद्गणाः शुभाः ।
केन मृष्टाः स्वयं वापि एतदिच्छामि वेदितुम् ॥8.171.८० ॥

सनत्कुमार उवाच
अत्र[^४९] ते वर्त्तयिष्यामि मातॄणामुद्भवं शुभम्[^५०] ।
पुरा हि भगवान् ब्रह्मा सृष्ट्वेमा विविधाः प्रजाः ॥८१ ॥

अवेक्षमाणः कालेय चचार विबुधेश्वरः ।
स कदाचित् प्रजाध्यक्षः सन्ध्याकाल उपागते ॥८२॥

देशं रम्यं समासाद्य तीरे पूर्वमहोदधेः ।
रम्ये चकार सन्ध्यां हि वर्षकोटिमतन्द्रितः ॥८३ ॥

कृतसन्ध्यस्ततो देवः कमलासनसंस्थितः ।
चिन्तयामास रम्योयं देशो दृष्टिमनोहरः ॥८४॥

करोम्यत्र[^५१] पुरं रम्यं सर्वकामसमन्वितम् ।
इति सञ्चिन्त्य स व्यास भगवान् सर्वसृक् प्रभुः ॥८५॥

तस्मिन् रम्ये प्रदेशे तु चक्रे पुरमनुत्तमम् ।
लोहितासितसौवर्णैः प्रस्तरैश्चामितप्रभम् ॥८६॥

अट्टाट्टहासकैश्चैव खातकैश्च समन्वितम् ।
शृङ्गाटकचतुष्केण चतुष्पादमिव स्थितम् ॥८७॥


प्रमुच्यते -क, अत्रान्तरेध्यायसमाप्तिपुष्पिकावाक्यं दृश्यते घ पुस्तके । ४८ भगवान् - क ख. । ४९ हन्त(?) । ५० इतिहासं पुरातनं - घ. । ५१ आक्राम्यात्र - घ, ।


वप्रखातकसंयुक्तैर्गृहैश्चापि[^५२] महाधनैः[^५३] ।
मध्ये मन्दाकिनी वापी सरिद्दिव्या मनोहरा ॥८८ ॥

नलिनीवनसञ्छन्ना प्रहृष्टखगनादिता[^५४] ।
तत् सृष्ट्वा तु पुरं ब्रह्मा सौवर्णं मणिभूषितम् ॥८९ ।
प्रोवाच वचनं व्यास परमाद्भुतमर्थवत् ।
रम्ये पुरवरे येस्मिन् वत्स्यन्ति सुकृताशिनः ॥8.171.९० ॥

अवध्यास्ते जराहीनास्तेजोबलसमन्विताः ।
भविष्यन्ति महाभागा मत्प्रसादान्न संशयः ॥९१ ॥

ततः स भगवान्देव उवाच पुनरेव ह ।
अस्मिन सदैव कामानामिष्टानां सुरसत्तमः ॥९२॥

देवो वर्षति कोटिं वै तेनास्मिन्[^५५] सुखिनो जनाः ।
एवं स भगवानुक्त्वा ब्रह्मा लोकपितामहः ।
अगच्छत् स्वसभां दिव्यां नैकसिद्धनिषेविताम् ॥९३ ॥

तस्मिन् गते ततो व्यास असुरैर्दैत्यभाषितैः (?) ।
अधिष्ठितं पुरं तद्वै सर्वैर्ब्राह्मणकण्टकैः ॥९४॥

येषां पतिरसुक्रोधः सर्वशस्त्रभृतां वरः ।
ब्रह्महा यज्ञहा विप्र देवान्तकसुरान्तकः[^५६] ॥९५॥

सिंहनादो भीमनादो मद इत्येवमादयः ।
अथ दैत्याः समागम्य हैमकुण्डपुरस्सराः ।
तस्मिन्पुरवरे स्थित्वा पीडां[^५७] चक्रुरनेकशः[^५८] ॥९६॥

द्वेष्टारो जगतस्ते हि जघ्नुर्विप्रान् सहस्रशः ।
यज्ञहोमादिकाश्छिन्नाः क्रियास्तैरसुराधमैः ॥९७ ॥

तानेवङ्कारिणो ज्ञात्वा सर्व एव दिवौकसः ।
ब्रह्मलोकमथाभ्येत्य सर्वमश्रावयन् विभोः ।९८॥

वचो दिवौकसां श्रुत्वा ज्ञात्वा दैत्यविचेष्टितम् ।
नैतच्छक्यं मयेत्युक्त्वा ब्रह्मा सार्धं सुरोत्तमैः ॥९९॥


ग्रहैश्चापि - घ. । ५३ ..वरै - घ. । ५४ प्रकृष्टखगनन्दिता - ख. । ५५ तेनास्मि - घ. । ५६ सुरान्तकौ (?) । ५७ क्रीडा (?) । ५८ … श्चक्रुरनेकशः - क. ।


आजगाम भवं द्रष्टुं रम्यं हिमगिरेर्वनम्[^५९] ।
यत्र गौरी तपस्तेपे भर्तुं देहार्धधारिणी ॥ 8.171.१०० ॥

प्रविष्टास्तत्र ते देवा ब्रह्माद्याः सर्व एव हि ।
स्त्रिय एवाभवन् तूर्णं पार्वत्यास्तपसो बलात् ॥१०१ ॥

ततस्तान् देवदेवेशः स्त्रीभूतान् हि सुरोत्तमान् ।
किमर्थमागता यूयमिति पप्रच्छ शूलधृक् ॥१०२ ॥

ततस्ते सहिताः सर्वे पूर्वं दैत्यविमर्दनम् ।
निवेद्य शम्भवे पश्चात् कृच्छ्रं स्त्रीभावमात्मनः ॥ १०३ ॥

यथैवं पुरुषाः पूर्व भवाम इति तेब्रुवन् ।
तानुवाचाथ देवेशः सुरान् स्त्रीभावमागतान ॥ १०४॥

यात यूयं सुराः सर्वे स्त्रियो भूत्वासुरान्तिकम् ।
स्त्रीणामेव हि ते वध्या दानवा बलदर्पिताः ॥ १०५॥

तनूर्मूर्त्तिमतीः कृत्वा परतो मातरः शुभाः ।
यै[^६०] य एव यथा पूर्वं भविष्यथ सुरोत्तमाः ॥ १०६ ॥

अथ भूयः प्रणम्येशं देवता इदमब्रुवन् ।
आत्मनोपि तनुं देव कुरु मूर्त्तिमतीं स्त्रियम् ॥ १०७॥

यया सार्धं बलाद् दैत्यान् हंस्यामः परमेश्वर ।


र्वरम् - क. । ६० य - क. ।


विश्वास-प्रस्तुतिः

ततो देवो ऽसृजद् देवीं
रूद्राणीं मातरं शुभाम् ॥१०८॥

विकृतं रूपम् आस्थाय
द्वितीयाम् अपि मातरम् ।
नाम्ना तु बहु-मांसान् तां
जगत्-संहार-रूपिणीम् ॥ १०९॥

नियोगाद् देव-देवस्य
ततो विष्णुर् अपि प्रभुः ।
मातराव् असृजद् द्वे तु
वाराहीं वैष्णवीम् अपि ।

अभूत् पितामहाद् ब्राह्मी
शर्वाणी शङ्कराद् अपि ॥ ११० ॥

कौमारी षड्मुखाच् चापि
विष्णोरपि च वैष्णवी ।
वाराही माधवाद् देवी
माहेन्द्री च पुरन्दरात् ॥ १११ ॥

सर्वतेजोमयो देवी
मातॄणां प्रवरा शुभा ।
बहुमांसा महाविद्या
बभूव वृषभ-ध्वजात् ॥ ११२ ॥

मूलम्

ततो देवोसृजद्देवीं रूद्राणीं मातरं शुभाम् ॥१०८॥

विकृतं रूपमास्थाय द्वितीयामपि मातरम् ।
नाम्ना तु बहुमांसान्तां जगत्संहाररूपिणीम् ॥ १०९॥

नियोगाद् देवदेवस्य ततो विष्णुरपि प्रभुः ।
मातरावसृजद् द्वे तु वाराहीं वैष्णवीमपि ।
अभूत् पितामहाद् ब्राह्मी शर्वाणी शङ्करादपि ॥ ११० ॥

कौमारी षड्मुखाच्चापि विष्णोरपि च वैष्णवी ।
वाराही माधवाद् देवी माहेन्द्री च पुरन्दरात् ॥ १११ ॥

सर्वतेजोमयो देवी मातॄणां प्रवरा शुभा ।
बहुमांसा महाविद्या बभूव वृषभध्वजात् ॥ ११२ ॥

मानसतरङ्गिणीकृत्

Then the god (Rudra) generated the goddess, mother Rudrāṇī.
Taking an auspicious yet grotesque form, he also generated a second mother going by the name Bahumāṃsā, she of world-destroying form.

At the mandate of the god of the gods, the mighty Viṣṇu also generated two mothers, Vārāhī and Vaiṣṇavī.

From the Grandfather came Brāhmī and from Śaṃkara [came] Śarvāṇī.
Kaumārī from Skanda (note irregular saṃdhi: ṣaḍmukhāt similar to that found in the Kaulajñānanirṇaya of Matsyendra. This supports the archaic nature of this narrative).
Vārāhī from Mādhava and goddess Māhendrī from the smasher of forts (Indra).

All these foremost of mothers were full of luster and auspicious. Bahumāṃsā, the great wisdom goddess, came into being from the bull-bannered one (Rudra).
From the bodies of all these deities emerged auspicious mothers, each bearing their respective form and might, and set forth for the destruction of the demons: Vāyavyā, Vāruṇī, Yāmyā, Kauberī, Mahākālī, then Āgneyī of great strength, and thousands of others.

The manifold goddesses slew [the demons], uttering terrifyingly ferocious yells. They made that foremost city decorated with gold free of the demons.

विश्वास-प्रस्तुतिः

सर्वासां[^६१] देवतानां च
देहेभ्यो मातरः शुभाः ।
स्वरूप-बल-धारिण्यो
निर्जग्मुर् दैत्य-नाशनाः ॥ १ रो ३ ॥

वायव्या[^६२] वारुणी याम्या
कौबेरी च महाबलाः ।
महाकाली तथाग्नेयी
अन्याश् चैव सहस्रशः ॥ ११४ ॥

मूलम्

सर्वासां[^६१] देवतानां च देहेभ्यो मातरः शुभाः ।
स्वरूपबलधारिण्यो निर्जग्मुर्दैत्यनाशनाः ॥ १ रो ३ ॥

वायव्या[^६२] वारुणी याम्या कौबेरी च महाबलाः ।
महाकाली तथाग्नेयी अन्याश्चैव सहस्रशः ॥ ११४ ॥

विश्वास-प्रस्तुतिः

ता गत्वा तत्-पुरं रम्यं
दैत्यान् भीम-पराक्रमान् ।
जघ्नुर् बहुविधं देव्यो
घोर-नादैर् विभीषणैः ॥ ११५॥

दैत्यहीनं च तच् चक्रुः
पुराग्र्यं हेमभूषितम् ।

मूलम्

ता गत्वा तत्पुरं रम्यं दैत्यान् भीमपराक्रमान् ।
जघ्नुर्बहुविधं देव्यो घोरनादैर्विभीषणैः ॥ ११५॥

दैत्यहीनं च तच्चक्रुः पुराग्र्यं हेमभूषितम् ।

विश्वास-प्रस्तुतिः

अथ दैत्यैर् हतैस् सवैर्
देवदेव उमापतिः[^६३] ॥ ११६ ॥

आजगाम प्रदेशं तं
मातॄणां वर-दित्सया ।
तान् दृष्टवा निहतान् सर्वान्
दैत्यान् अमर-विद्विषः[^६४] ॥ ११७॥

परितुष्टस् तदा तासां
वरान् प्रादाद् वृषध्वजः ।

मूलम्

अथ दैत्यैर्हतैस्सवैर्देवदेव उमापतिः[^६३] ॥ ११६ ॥

आजगाम प्रदेशं तं मातॄणां वरदित्सया ।
तान् दृष्टवा निहतान्सर्वान् दैत्यानमरविद्विषः[^६४] ॥ ११७॥

परितुष्टस्तदा तासां वरान्प्रादाद् वृषध्वजः ।

विश्वास-प्रस्तुतिः

जगतो मातरो यूयं
मातृभूता भविष्यथः ॥ ११८ ॥

युष्माकं ये भविष्यन्ति
भक्ताः
पुरुष-पुङ्गवाः ।
स्त्रियौ वापि महाभागा
न तान् हिंसन्ति हिंसकाः ॥ ११९॥

मृता मम गणाश् चापि
भविष्यन्त्य् अजरामराः ।

भवतीनाम् इदं स्थानं
कोटी-वर्षम् इति श्रुतम् ॥ 8.171.१२० ॥ भविष्यति जगत्-ख्यातं
सर्व-पाप-प्रमोचनम् ।

मूलम्

जगतो मातरो यूयं मातृभूता भविष्यथः ॥ ११८ ॥

युष्माकं ये भविष्यन्ति भक्ताः पुरुषपुङ्गवाः ।
स्त्रियौ वापि महाभागा न तान् हिंसन्ति हिंसकाः ॥ ११९॥

मृता मम गणाश्चापि भविष्यन्त्यजरामराः ।
भवतीनामिदं स्थानं कोटीवर्षमिति श्रुतम् ॥ 8.171.१२० ॥

भविष्यति जगत्ख्यातं सर्वपापप्रमोचनम् ।

विश्वास-प्रस्तुतिः

अहं हेतुर् हि युष्माकं
यस्मात् सृष्टा मयैव च ॥ १२१ ॥

हेतुकेश्वर-नाम्नाहं[^६५]
स्थास्याम्य् अत्र वरप्रदः ।
युष्माभिः सह वत्स्यामि
नायकत्वं व्यवस्थितः ॥ १२२ ॥

यस्तु युष्मान् मया सार्धं
विधिवत् पूजयिष्यति
सर्व-पाप-विमुक्तात्मा
स परां गतिम् आप्स्यति ॥ १२३ ॥

मूलम्

अहं हेतुर्हि युष्माकं यस्मात् सृष्टा मयैव च ॥ १२१ ॥

हेतुकेश्वरनाम्नाहं[^६५] स्थास्याम्यत्र वरप्रदः ।
युष्माभिः सह वत्स्यामि नायकत्वं व्यवस्थितः ॥ १२२ ॥

यस्तु युष्मान्मया सार्धं विधिवत् पूजयिष्यति ।
सर्वपापविमुक्तात्मा स परां गतिमाप्स्यति ॥ १२३ ॥


-. सर्वेषां क ख ॥ ६२ वाथवा (?) । ६३ देवदेवमुमापतिम् - क । ६४ … विद्विषान् - क. ।


विश्वास-प्रस्तुतिः

दानवा निहता यस्माच्
छूलेन बहुमांसया ।
शूलकुण्डम् इदं नाम्ना
ख्यातं तीर्थं भविष्यति ॥ १२४॥

इह शूलोदकं पीत्वा
बहुमांसां प्रणम्य च ।
अधृष्यः सर्व-हिंस्राणां
भविष्यति नरोत्तमः ॥ १२५॥

प्रतिकूलेति विख्याता
रम्या मन्दाकिनी नदी
रुधिरौघवती सेह
भवतीनां भविष्यति ॥ १२६॥

मूलम्

दानवा निहता यस्माच्छूलेन बहुमांसया ।
शूलकुण्डमिदं नाम्ना ख्यातं तीर्थं भविष्यति ॥ १२४॥

इह शूलोदकं पीत्वा बहुमांसां प्रणम्य च ।
अधृष्यः सर्वहिंस्राणां भविष्यति नरोत्तमः ॥ १२५॥

प्रतिकूलेति विख्याता रम्या मन्दाकिनी नदी ।
रुधिरौघवती सेह भवतीनां भविष्यति ॥ १२६॥

मानसतरङ्गिणीकृत्

Under the name of Hetukeśvara, I (Rudra) will station myself here as the boon-giver. I will stay with you all, taking the position of leadership. Whoever worships you all together with me as per the ritual injunctions shall become free of sins and attain the highest state. From the trident with which Bahumāṃsā slew the demons, this holy pond will be known by the name of Śūlakuṇḍa. He who drinks the Śūla-water here and worships Bahumāṃsā will become unassailable to all harm-doers and will become the foremost of men.

विश्वास-प्रस्तुतिः

अहं ब्रह्मा च विष्णुश् च
ऋषयश् च तपोधनाः ।
मातृ-तन्त्राणि दिव्यानि
मातृयज्ञ-विधिं परम् ॥ १२७॥ पुण्यानि प्रकरिष्यामो
यजनं यैर् अवाप्स्यथ । ब्राह्मं स्वायम्भुवं चैव
कौमारं यामलं तथा १२८॥ सारस्वतं स गान्धारम्
ऐशानं नन्दियामलम् ।

मूलम्

अहं ब्रह्मा च विष्णुश्च ऋषयश्च तपोधनाः ।
मातृतन्त्राणि दिव्यानि मातृयज्ञविधिं परम् ॥ १२७॥
पुण्यानि प्रकरिष्यामो यजनं यैरवाप्स्यथ ।
ब्राह्मं (?) स्वायम्भुवं चैव कौमारं यामलं तथा १२८॥
सारस्वतं स गान्धारमैशानं नन्दियामलम् ।

विश्वास-प्रस्तुतिः

तन्त्राण्य् एतानि युष्माकं
तथान्यानि सहस्रशः ॥ १२९ ॥

भविष्यन्ति नरा यैस् तु
युष्मान् यक्ष्यन्ति भक्तितः ।
नराणां यजमानानां
वरान् यूयं प्रदास्यथ ॥8.171.१३० ॥

दिव्यसिद्धि-प्रदा देव्यो
दिव्य-योगा भविष्यथ

मूलम्

तन्त्राण्येतानि युष्माकं तथान्यानि सहस्रशः ॥ १२९ ॥

भविष्यन्ति नरा यैस्तु युष्मान् यक्ष्यन्ति भक्तितः ।
नराणां यजमानानां वरान् यूयं प्रदास्यथ ॥8.171.१३० ॥
दिव्यसिद्धिप्रदा देव्यो दिव्ययोगा भविष्यथ ।

विश्वास-प्रस्तुतिः

याश् च नार्यः सदा युष्मान्
यक्ष्यन्ते सरहस्यतः ॥ १३१ ॥ योगेश्वर्यो भविष्यन्ति
रामा दिव्यपराक्रमाः ।

मूलम्

याश्च नार्यः सदा युष्मान् यक्ष्यन्ते सरहस्यतः ॥ १३१ ॥

योगेश्वर्यो भविष्यन्ति रामा दिव्यपराक्रमाः ।

मानसतरङ्गिणीकृत्

I [Rudra], Brahman, Viṣṇu and the sages with a wealth of tapas will compose the pure and divine Mātṛ-tantra-s [expounding] the foremost procedures for the rituals to the Mātṛ-s, by which you all would be worshiped. Brāhma, Svāyambhuva, Kaumāra-yāmala, Sārasvata with Gāndhāra, Aiśāna, Nandi-yāmala — these tantra-s of yours and thousands of others will come into being, and men will piously worship you all with them. You, O goddesses, endowed with divine yoga, will grant boons to the men who worship you and confer magical powers on them. Those women who will continuously worship you with the secret rituals will become the mistresses of yoga, beautiful and possessed of magical prowess.

छगलः कुम्भकर्णश्च मदीयौ गणनायकौ ॥ १३२॥

युष्माकं द्वारपालत्वे स्थास्यतस्तौ ममाज्ञया ।
कोटीवर्षमिदं स्थानं मातॄणां प्रियमुत्तमम् ॥ १३३ ॥

श्मशानं प्रवरं दिव्यं भविष्यति सुखप्रदम् ।
वरानेवं हि ताल्ँलब्ध्वा मातरो लोकमातरः ॥ १३४॥

भक्त्या प्रणम्य देवेशं मुमुदुर्भृशमर्द्दिताः ।
ततःप्रभृति ताः सर्वाः सहिताः शशिमौलिना ॥ १३५॥

कोटीवर्षे[^६६] वसन्ति स्म सर्वलोकाभयप्रदाः[^६७] ।
एवं स भगवान् देवो मातॄणां गणनायकः ।
अभवच्छङ्करो व्यास यन्मां त्वं पृष्टवानसि ॥ १३६॥


कौटीवर्षं - क. ख. । ६७ सर्वलोकभयप्रदाः - क ।


उत्पत्तिमेतां जगतीश्वरीणां[^६८] ब्रह्मेन्द्रशक्रानिलवन्दितानाम् ।
पठेन्मनुष्यः शृणुयाच्च नित्यं यः स्वर्गलोकं स मृतो लभेत ॥ १३७॥

इति स्कन्दपुराणे एकसप्तत्यधिकशततमोध्यायः