सनत्कुमार उवाच
अथाभ्यगात् पश्चिमसागरस्य मूर्ध्नि स्थितन्तत्त्रिपुरम्१ रथोसौ ।
नानापताकोज्ज्वलचित्रमौलिर्हैमोपलो२ मेरुरिवाद्रिराजः ॥१ ॥
ते वीक्ष्य दुर्गं त्रिपुरं गणेशा नन्दीशचण्डीशमुखाः३ सुयत्ताः ।
नादं प्रचक्रुः सहिताः प्रवीरा युयुत्सवो दानवराजसिंहैः ॥ २ ॥
चण्डेश्वरश्चण्डवपुर्महात्मा ज्वलत्प्रदीप्तोग्रकुठारपाणिः ।
व्यादाय वक्त्रं पुरतः स्थितोभूद् देवस्य शम्भोः प्रमथेन्द्रवीरः ॥३ ॥
दीप्तं त्रिशूलं परिगृह्य नन्दी त्र्यक्षः प्रतस्थे४ हरतुल्यवर्ष्मा५ ।
पार्श्वे स्थितोभूत् स च शङ्कुकर्णः प्रगृह्य दीप्तं मुशलं गजेन्द्रः ॥४॥
भृङ्गिर्हरात्मा स च वीरभद्रस्तथा गणेन्द्राः शतशः प्रवीराः ।
वज्रत्रिशूलासिभुशुण्डिहस्ता युयुत्सवस्तस्थुरुपेतहर्षाः ॥५॥
समागतं तं रथमीक्ष्य६ दैत्या युद्धाय निर्जग्मुरुपेतमोहाः ।
ते तारकाक्षप्रमुखाः सुवीरा सन्नह्य नानायुधदीप्तहस्ताः ॥६॥
सार्धं गणेन्द्रैः समरं प्रचक्रुर्दनोः सुताः कोपवशं प्रयाताः ।
देवोपि चन्द्रार्धनिकेतमौलिः७ शरं न चिक्षेप पुरं प्रदग्धुम् ॥७॥
तस्थौ तथैवा८सकृदात्मना च पश्यन् रणं तद्गणदैत्यपानाम् ।
ततः स नन्दी गणपैः प्रवीरैरचीकरद्युद्धमदीनसत्वैः ॥८॥
वीक्ष्यमाणाः - क. ख. । ७७२१७ - ख ।
स्थितो (त) स्तत्रिपुरं - क. । २ मौली हेमोपलो - ख. । ३ नन्दीगिरिशप्रमुखा. - ख । ४ प्रतस्थौ - ख. । ५ वर्मा (धर्मा?) - क. । ६ वीक्ष्य रथं - क. । ७ .. मौली - क. । ८ तस्थोजसा वै - क. । ९ -..कृत - क. ।
विव्याध भृङ्गिं दशभिः पृषत्कैर्विद्युत्प्रभः कोपविरक्तनेत्रः ।
भृङ्गिं समासाद्य शिलीमुखास्ते नाशक्नुवँस्तस्य रुजं प्रकर्तुम् ॥ ९॥
विद्युत्प्रभं भृङ्गिरिटिस्ततोसौ शूलेन दीप्तेन जघान पृष्ठे ।
स तेन शूलेन हतो जुघूर्ण त्यक्त्वा च भृङ्गिं प्रयययौ भयार्त्तः ॥ 8.170.१० ॥
भग्नस्तथासौ दितिजाधिपेशो भृङ्गिं समुत्सृज्य गणेन्द्रमुख्यम्१० ।
विव्याध तीक्ष्णैर्निशितैः पृषत्कैर्विनायकं११ सप्तभिरंसदेशे ॥ ११ ॥
पुनस्त्रिषष्ट्या दशभिश्च भूयो विद्युत्प्रभस्तं गजराजवक्त्रम् ।
जघान मर्मस्वभिलब्धलक्ष्य१२ स्ततश्चुकोपास्य विनायकेन्द्रः ॥ १२ ॥
स पुष्कराग्रेण गजेन्द्रसिंहो ग्रीवां तदा दैत्यपतेर्विवेष्ट्य ।
उत्पाटयामास शिरः शरीरात पद्मं ह्रदान्नाग इव प्रमत्तः ॥१३ ॥
दैत्यस्य कृत्तं शुशुभे शिरस्तद्विन्ध्याचलेन्द्रप्रतिमाच्छरीरात् ।
सहंसचक्राह्वरुतोपगीताद् ह्रदान्नवोत्खातमिवाशु पद्मम् ॥ १४॥
ततोपरौ दैत्यपती सुयत्तौ नेमिर्बलश्चान्धकतुल्यकल्पौ१३ ।
क्रुद्धावुपागम्य हि शङ्कुकर्णं शिलीमुखैर्विव्यधतुर्गणेन्द्रम् ॥१५॥
तौ शङ्कुकर्णः प्रसभं निपत्य छिन्नध्वजाश्वौ विरथौ चकार ।
अन्यौ समारुह्य रथौ पुनुस्तौ भूयस्समागम्य गणप्रवीरम् ॥ १६ ॥
तं जघ्नतुर्नैकविधः पृषत्कैर्वज्राभिघातप्रतिमैस्सुतीक्ष्णैः ।
क्रुद्धस्तदा स प्रसभं गणेन्द्रस्तौ१४ दैत्यराजौ सुचिरं निरीक्ष्य ॥१७॥
दीप्तेन हत्वा मुशलेन वीरौ सम्प्रेषयामास पुरं यमस्य ।
अन्ये च दैत्यास्त्रिपुराधिवासाः क्रुद्धा विनिष्क्रम्य गणेन्द्रसिंहैः ॥ १८॥
नाराचचक्रासिकुठारहस्ता घोरं महद्युद्धमतीव चक्रुः ।
दैत्याधिपास्ते हरतुल्यकल्पैर्गणेश्वरैः प्राप्तशिवप्रसादैः ॥ १९॥
हता बभूवुर्हि गतासवस्तु१५ मृगा यथा केसरिभिर्वनान्ते ।
प्रभ्रष्टनानायुधवस्त्र१६हाराश्छिन्नैर्भुजैश्शोणितमुद्वहन्तः१७ ॥8.170.२० ॥
वज्राहता १८ - - - - - - - पेतुः समुद्रे गिरिशृङ्गकल्पाः ।
श्रुत्वाथदैत्यौ बलनेमिसञ्ज्ञौ तौ शकुकर्णेन हतौ प्रसह्य ॥२१ ॥
गजेन्द्रमुख्यम् - क. । ११ विनायकैः - क. । १२. लक्ष - क. ख. । १३ .. वीर्यौ - ख. । १४ निपत्य तौ (?) - क. । १५ गताशयोस्तु - क., गतासवांस्तु - ख. । १६ चक्र - क. । १७ .. मुद्वमत्तः - ख. । १८ वृष्ट्याहता - ख. ।
पुराद्विनिष्क्रम्य स तारकाक्षः क्रुद्धो गणेन्द्रं स्वयमभ्यधावत् ।
तं शङ्कुकर्णो दितिजाधिपेशं१९ मुञ्चन्तमुग्रं शरवर्षमाशु ॥२२ ॥
भल्लेन दैत्यं गिरिसन्निकाशं२० जघान मूर्ध्नि प्रसभं गणेशः ।
निपत्य किञ्चिन्निहतः स तेन भल्लेन दैत्याधिपतिर्मुमोह ॥२३ ॥
प्रोत्थाय तूर्णं स हि तारकाक्षश्चिक्षेप तस्मै गणपाय चक्रम् ।
क्रुद्धस्ततोसावभवद् गणेन्द्रस्तं तारकाक्षं स हि शङ्कुकर्णः ॥२४॥
निपात्य२१ मुष्ट्या प्रजघान मूर्ध्नि समाहतः सोपि जगाम कृच्छ्रम् ।
जुघूर्ण बभ्राम मुमोह तस्थौ पपात तत्याज वरायुधञ्च ॥२५॥
मुमोच२२ रोषं विरराव तीव्रं ममार पश्चादसुविप्रमुक्तः२३ ।
दृष्टवा विपन्नं दितिजाधिपेन्द्रं प्रगृह्य दैत्या भवनं मयस्य ॥२६॥
गत्वा निवेद्यासुरराजभर्त्रे नादान् प्रचक्रुर्विविधैर्विलापैः ।
ततो मयस्तान्२४ रुदतो२५ सुरेशानाश्वासयन्२६ प्राह वचोसुरेशः२७ ॥२७॥
सृष्टं मया वोमृतमेतदास्ते तेनैनमुत्थापयताशु दैत्याः ।
ततो गृहीत्वामृतमुत्तमं तद् दैत्याधिपं दैत्यवृषाः प्रहृष्टाः ॥२८॥
चक्रुः सजीवं हि यथा पुराणं मयं प्रणेमुश्च मुहुः शिरोभिः ।
स तारकाक्षस्तत आशु भूयो युयुत्सया युद्धपथं जगाम ॥२९॥
आयान्तमालक्ष्य पितामहस्तं२८ पूर्वं मृतं जीवितमाशु भूयः ।
प्रोवाच वाक्यं स सुरासुरेशं निवेदयन् वामकरेण दैत्यम् ॥8.170.३० ॥
हतोप्ययं शङ्कर तारकाक्षः कृतो मयेनाशु सजीव एव ।
तस्यास्ति२९ देवामृतमुत्तमं हि तेनासुरान् जीवयतेसुरेन्द्रः ॥३१ ॥
दोषो महानेष सुरेन्द्रहेतो३०र्मतान्मृतान् जीवयते यदाजौ३१ ।
ततोमृतं तन्मयसंस्थमाशु प्रध्यानमात्रेण३३ जहार शम्भुः ॥३२ ॥
पितामहस्तं पुनरेव हृष्टः पिनाकिनं प्राह वचः प्रणम्य ।
दृष्टं मया युद्धमिदं गणानां दैत्याधिपैः सार्धमहीनसत्वैः३३ ॥३३ ॥
दितिजाधिपेशो - क, श - ख । २० सन्निकाश - -न-. । २१ निपत्य - ख. । २२ मुभोह - क. । २३ विप्रमुक्तं - क. ख., विप्रयुक्तः (?) । २८ स सुप्तान - ख. । २५ प्रयतः - ख. । २६ नाम्ना मयं - ख. । २७ -..न्द्र. - ख. । २८ पितामहन्तं - क. । २०, तत्रास्ति - ख. । ३० वृषेन्द्रकेतो (?) । ३१ सदासौ - क., यदासौ - ख. । ३२ सङ्कल्पमात्रेण (?) । ३३. मदीनसत्वैः - ख. ।
दिव्यं सहस्रं विगतं समानां क्षयं न चैतत् त्रिपुरं जगाम ।
क्षिपस्व दीप्तं तमिषुं सुरेश प्रयान्तु नाशं सुरविद्विषस्ते ॥ ३४॥
पूर्णे सहस्रे त्रिपुरं समेत्य पुनर्विपर्यस्तमभूत् सुरेश ।
क्षिप्तस्त्वयेषुर्न च देवदेव योगेन किं वा तव देवनाथ ॥ ३५॥
सङ्कल्पमात्रादिदमेति नाशं दैत्याधिवासं त्रिपुरं तवेश ।
यदि त्वहं मानयितव्य ईश३४ विमुञ्च शीघ्रं३५ त्रिपुरे३६ शरं तम् ॥३६॥
विज्ञप्त३७ एवं चतुराननेन प्रतीपमालीढमनङ्गहन्ता ।
कृत्वा धनुस्तद्बलवद्विकृष्य युयोज दीप्तं तमिषुं पिनाके३८ ॥३७॥
सङ्कल्पमात्रेण तदा स तानि पुराणि देवस्सहितानि त्रीणि ।
चक्रे जगत्सृष्टिविनाशकर्ता जगच्च निष्पन्दमभूत्तदाशु ॥ ३८ ॥
विष्ण्वात्मकं पावकसोमपुङ्खं त्रैलोक्यसंहार इव प्रदीप्तम् ।
चिक्षेप देवस्तमिषुं तदोग्रं क्षिप्त्वा च कष्टं धिगितीति चाह ॥३९॥
नन्दी समागम्य ततो महेशं प्रोवाच वाक्यं किमिति प्रणम्य ।
नन्दीश्वरं तं भगवानुवाच मयस्य भक्तस्य शुभं चिकीर्षुः ॥8.170.४० ॥
नन्दीश भक्तो मम विश्वकर्मा दहेत् पुरं तस्य यथा न वह्निः ।
तथानलं सोमहरी च देवौ ममाज्ञया गच्छ निवारयस्व ॥४१ ॥
नन्दी प्रगृह्याथ सुरेश्वराज्ञां तूर्णं ययौ विश्वकृतः पुरं तत् ।
-
-
-
-
-
- तुल्यवेगो ज्योतिष्मतः पूर्वतरं जगाम ॥४२ ॥
-
-
-
-
दृष्ट्वा मयं तत्र स दानवेशं३९ मूर्ध्ना नताङ्गं वृषभध्वजस्य ।
मृत्योर्भयार्त्तं शरणार्थिनं च नन्दी समाश्वासयदीशभक्तम् ॥४३ ॥
भयं कृथा मा मय रक्षितस्त्वं भक्त्या भवेनेति वचोभ्युवाच ।
नन्दीश्वरं दानवराट् स दृष्ट्वा श्रुत्वा प्रियं तच्छिवसम्प्रसादम् ॥४४॥
यथैव रुद्राय ननाम मूर्ध्ना चक्रे प्रणामं स तथैव तस्य ।
अथाग्निरागात्४० त्रिपुरं दिधक्षन् प्रदीपयित्वा सकलं समन्तात् ॥४५॥
मानयितव्यमीश - ख. । ३५ .मस्त्रं - क, मात्रं - ख । ३६ त्रिपुरं - क ख. । ३७ विज्ञाप्त - क. । ३८ पिनाकि ( की) - ख. । ३९ दानवेश - क दानवेन्द्र - ख. । ४० यथाग्निरागात - ख. ।
संवर्त्तवह्निप्रतिमो युगान्ते जगत् प्रसंहर्त्तुमिव प्रदीप्तः४१ ।
तमागतं विश्वकृतो निवासं विष्ण्विन्दुयुक्तं ज्वलनं स नन्दी ।
दग्धव्यमेतन्न हुताशनेति वचोभ्युवाचाशु विभोर्नियोगात् ॥४६ ॥
ततः स४२ वह्निस्तमुवाच देवं कस्मान्न दग्धव्यमिदं४३ मयेति ।
नन्दी हुताशं स ततोभ्युवाच मयोत्र तिष्ठत्यमरेशभक्तः ॥४७॥
तं वह्निराहासुरराजमाशु तूर्णं विनिर्गच्छ४४ मयेति वाक्यम् ।
हैमं गृहीत्वा स महेशलिङ्गं पुराद्विनिष्क्रम्य मयोसुरेन्द्रः ॥४८॥
पातालमाशु प्रविवेश हृष्टः कुर्वन्नमस्कारमुमाप्रियस्य ।
नन्दीश्वरः सोपि सुरेशपार्श्वमागम्य चाख्याय४५ च संस्थितोभूत् ॥ ४९॥
ततः प्रदीप्तं त्रिपुरं बभूव विश्लिष्टयन्त्रार्गलनष्टवेश्म ।
नैकासुरामुक्तमहोग्रनादं४६ वित्रस्तदैत्येन्द्रवधूजनाढ्यम् ॥8.170.५० ॥
वातायने हर्म्यविमानसंस्थाश्चन्द्राननाः पीनपयोधराढ्याः ।
पर्यङ्कसुप्ता मदविह्वलाक्ष्यो मार्गं प्रियाणां मुहुरीक्षमाणाः४७ ॥५१ ॥
विलोचनैस्ताम्रनिभाङ्गरागैः४८ श्यामावदाता जघनैर्विशालैः ।
दैत्याङ्गनाः स्वं४९ ददृशुः प्रदीप्तमालिङ्ग्यमानाः शरपावकेन ॥५२॥
प्रासादसंस्थाः प्रययुर्भयार्त्तास्त्रासेन किन्नर्य इवाचलस्थाः ।
प्रियानथोद्वीक्ष्य५० समागताँस्तान् मोहं समालिङ्ग्य भृशं विजग्मुः ॥५३ ॥
प्रिया गृहीत्वा दितिजास्ततस्ते प्रनष्टकामास्तरसा५१भिजग्मुः ।
निष्क्रान्तमात्राश्शिवशक्तिमूढाः५२ पेतुः समुद्रे बलविप्रयुक्ताः ॥५४॥
दैत्यान् समुद्रे पतिताँस्ततस्तान् मत्स्या महान्तो गिरिसन्निकाशाः ।
तीव्राश्च नक्रा मकराश्च घोराः सञ्जग्रसुर्नष्टबलान् विमूढान् ॥५५॥
जलेचरेन्द्रास्त्वपरे महान्तस्सञ्छिन्नहाराः पतिताः स्त्रियस्ताः ।
हीनाः प्रियैर्भक्षयितुं प्रवृत्ताः करालदंष्ट्रा विवृताननाश्च ॥ ५६॥
ता भक्ष्यमाणाः पतितास्तरुण्य प्रियान्सरोषं बहुशो निरीक्ष्य ।
रुजा महत्या परिखिद्यमानाः सञ्चुक्रुशुर्दीनतरं युवत्यः ॥५७॥
प्रदीप्तं - क । ४२ ततस्तु - ख । ४३ हन्तव्यमिदं - क. ख. । ४४ विनिर्गम्य - ख. । ४५ संरव्याय - ख. । ४६ नैतासुरोन्मुक्तमहोग्रनाद ख । ४७ मुहुरीक्ष्यमाणाः- क. ख. । ४८ .. निताङ्गरागैः - क.,.. .निभान्तरागैः - ख.। ४९ सं - क. ख । ५० प्रियानथावीक्ष्य - ख. । ५१ प्रनष्टकोपास्तरसा - क. । ५२ च्छिवशक्तिमूढाः - क.।
तासां तदा दैत्यविलासिनीनां रेजे भृशं क्रोधनिरीक्षितं तत् ।
रतावसाने परिखेदितानां प्रियैरिवान्यामभिगन्तुकामैः ॥५८॥
सर्वे ततो दैत्यवृषाः५३ सभार्याः प्रदह्यमानास्त्रिपुरानलेन ।
मग्नाः५४ समुद्रे मकरैर्विभिन्ना गतासवो मृत्युवशं प्रजग्मुः ॥५९ ॥
शरश्च सोग्नीन्दुजनार्दनात्मा५५ प्रदह्य कृत्स्नं त्रिपुरं पुरं तत् ।
क्षिप्त्वा समुद्रे स्म शमं५६ प्रयातं५७ शशाम शम्भोश्च करं जगाम ॥8.170.६० ॥
दैत्यैर्हतैस्तैस्त्रिपुरे च दग्धे५८ देवान् रथस्थान् पुनरेव देवः ।
पूर्वं यथा दिव्यशरीरयुक्तान्५९ चकार सृष्टिप्रलयादिहेतुः ॥६१ ॥
ब्रह्मादयस्ते त्रिदिवौकसेशा नेमुर्वचश्चेदमथोचुरीशम् ।
कृतं त्वयेदं भगवन्नशक्यं शुभं महद्रौद्रतरं च कर्म ॥६२॥
दैत्या हतास्तत्त्रिपुरं प्रदग्धं शान्तिः कृता नः स्म६० सुरासुरेश ।
नमोस्तु सर्वत्र सदा स्थिताय स्रष्ट्रे सुराणां परमेश६१ तुभ्यम् ।
नित्यं नविज्ञातगमक्रियाय नमो नमः सर्वगताय तुभ्यम् ॥६३ ॥
तानाह देवः स६२ तदा सुरेन्द्रान् ब्रह्मार्कविष्ण्विन्द्रधनेश्वराद्यान् ।
सदैव यूयं प्रतिपालनीया रक्ष्याश्च देवाः सुतवन्मयैव ॥६४॥
पूर्णाभिलाषा हतविद्विषश्च प्रयात हृष्टाः स्वनिवेशनानि ।
देवास्ततो देववरं प्रणम्य जग्मुः स्वकीयानि निवेशनानि ॥ ६५ ॥
देवोपि सिद्धैरभिवन्द्यमानः कैलासशृङ्गं सहितो गणेन्द्रैः ।
चण्डेशनन्दीश्वरवीरभद्रैर्जगाम कर्ता जगतस्त्रिनेत्रः ॥ ६६॥
इति कथितमसह्यं देवदेवस्य कर्म
त्रिपुरदहनसञ्ज्ञं व्यास तुभ्यं मयैतत् ।
मनुज इदमधीते यः शुचिः शर्वभक्तः
स भवति गतपापः स्वर्गभाग् देवजन्मा ॥ ६७॥
इति स्कन्दपुराणे त्रिपुरवधे सप्तत्यधिकशततमोध्यायः६३
दैत्यवराः - ख । ५४ … भग्ना - क. । ५५ सोग्नीन्द्रजनार्दनात्मा - क. । ५६ शमं (?) । ५७ प्रयातः (?) । ५२ प्रदग्धे - क. । ५९ शरीरधारीन् - क. । ६० ..स्स - क. । ६१ प्रमथेश - ख. । ६२ स्म - क. । ६३ समाप्तं त्रिपुरवधमिति - ख. ।