१६९


धर्म .. - ख., सर्वसुरासुराणाम् (?) । ५९ मनोनिवासाय - क. ख । ६० च ते नमोस्तु - ख । ६१ सदैवामृतसंस्थिताय (?) । ६२ वेदसृजे (?) । ६३… पात्रे - ख । ६४ प्रीतस्त्वया - क । ६५ त्रिपुरवधे - ख. । ६६ वरप्रदानो - ख. । ६७२१६ - ख ।


देवा ऊचुः
ब्रह्मदत्तवरैर्देव मयाद्यैर्दानवैस्त्रिभिः ।
दुर्गं तत्त्रिपुरं कृत्वा बाध्यामो बलदर्पितैः ॥१ ॥

हृता अप्सरसः१ सर्वा ध्वंसितानि वनानि च ।
सर्वान्देवान्निहन्मोद्य श्वो हन्मेति च तेब्रुवन् ॥२॥

न तेषां निग्रहे शक्तो ब्रह्माप्येष पितामहः ।
विष्णुर्वापि महादेव तेन नः सुमहद् भयम् ॥३ ॥

तद् यथा त्रिपुरं नश्येत् ते च स्युर्निहता यथा ।
तथा कुरु सुरश्रेष्ठ वरोयन्नः प्रदीयताम् ॥४॥

इति विज्ञापितः शम्भुस्सर्वैस्तैर्हि सुरोत्तमैः ।
इदमाह महातेजाः सुरानाश्वासयन्निव ॥ ५॥

शतमंशं सुरेशा वै गृहीत्वा मम तेजसः ।
रुद्रतेजोमया भूत्वा दानवान् विनिहंस्यश्च ॥ ६ ॥

ततस्ते पुनरेवेशं प्राहुर्वाक्यमिदं सुराः ।
शक्ताः सहस्रमप्यंशमुद्वोढुं न वयं तव ॥७॥

का नः३ शक्तिः सुरेशान तेजो माहेश्वरं परम् ।
द्रष्टुं धारयितुं वापि प्रसादं कुरु नः४ प्रभो ॥८॥

न कथञ्चिद्वयं शक्तास्तान्हन्तुं दानवान् बलात् ।
भगवन् स्वयमेव त्वं त्रिपुरं जहि शङ्कर ॥९ ॥

तेभ्यः किल वरो दत्तो ब्रह्मणानेन५ शूलधृक् ।
दिव्ये वर्षसहस्रे तु समेष्यति पुरत्रयम् ॥ 8.169.१० ॥

निमेषार्धं क्षणे तस्मिन्नेतद्वस्त्रिपुरं बली ।
सकृदेकमिषुं क्षिप्त्वा यः प्रधक्ष्यति दानवान् ॥ ११ ॥

भविष्यति स वो मृत्युर्नान्यथा मरणं हि वः ।
तच्च कर्तुं न शक्ताः स्मः प्रसादं तेन नः कुरु ॥१२ ॥


ह्रिता अप्सरसः - क. । २ स्तथा - क. । ३ तु - क- ख, ४ कुरुत - क. ख । ५ तेन - क. ।


ततः स भगवान्देवः प्रणतान् वृषभध्वजः ।
पुनराश्वासयन् प्राह समुद्विग्नान् दिवौकसः ॥ १३ ॥

यद्येवं सुरशार्दूलास्त्रिपुरं दुर्गमं महत् ।
इषुमेकं सकृत् क्षिप्त्वा प्रधक्ष्ये निमिषे क्षणे ॥१४॥

ब्रह्मविष्णुप्रियार्थं हि शक्रस्यानुग्रहाय च ।
त्रिपुरं रथमास्थाय हंस्यामि स्वयमेव तत् ॥१५॥

क्रियतां स रथः सज्जो यमारुह्य६ दिवौकसः ।
धक्ष्यामि त्रिपुरं दुर्गमाक्रान्तं दानवैस्त्रिभिः ॥ १६॥

यादृशश्च हि मां वोढुं शक्तः स्यात् सुरपुङ्गवाः ।
बलवान् हिमवत्कल्पः७ कर्तव्यस्तादृशो रथः ॥ १७॥

ततो देवाः प्रणम्येशं प्रहृष्टमनसोभवन् ।
रथं च सहिताः सर्वे कल्पयामासुरुत्तमम् ॥ १८॥

ततः स भगवान् ब्रह्मा तथा विष्णुहुताशनौ ।
सर्वदेवमयं दिव्यं चक्रुस्तं रथमुत्तमम्८ ॥ १९॥

धातारं भास्करं शक्रं पवनं धनदं यमम् ।
वसून् रूद्राँस्तथादित्यान् गन्धर्वानश्विनावपि ॥8.169.२० ॥

गरुडान् पर्वतान्नागान् गुह्यकान्समहोदधीन् ।
ऋषीँतु सिद्धाँस्तथा यक्षान् ग्रहाँ - - - - - ।२१ ॥

        • सितं कालं तथा चैव वनस्पतीन् ।
          दिवसानि मुहूर्तानि क्षणान् काष्ठालवाँस्तथा ॥२२॥

अयने च ऋतून्मासान् पक्षान् संवत्सराँस्तथा९ ।
स्थावरं जङ्गमं यच्च नक्षत्राणि तथैव च ॥२३ ॥

अष्टौ देवनिकायाँस्तान् रथे तस्मिन्नकल्पयन् ।
काँश्चिच्चक्रद्वये चक्रुः प्रताप - - - - - ॥२४॥

      • श्चिद्रथेचान्यान् युयुजुः सुरपुङ्गवान् ।
        कृत्वाश्वाँश्चतुरो वेदान् रथे तस्मिन्न्ययोजयन् ॥२५॥

यत्रारुह्य - क. । ७ हिमवत्तुल्यः - ख. । ८ रथत्तमम् - क. । ९ कालान् - क., संवत्सराणि च - क, ख. ।


सम्वत्सरमयं चक्रं धनुर्गिरिमयं तथा ।
ज्याञ्चैव१० धनुषश्चक्रुर्देव देवीं जगत्स्थितिम् ॥ २६॥

ते तमेवंविधं११ देवा रथमग्र्यमचीकरन् ।
सर्वदेवमयं कृत्वा गिरिकल्पं रथोत्तमम् ॥२७॥

विष्णुः पितामहोग्निश्च प्रणम्य परमेश्वरम् ।
रथः१२ सज्ज इति१३ प्राहुर्विनाशाय सुरद्विषाम् ॥२८ ।
ततः स भगवाञ्छम्भुः स्तूयमानः सुरैस्त्रिभिः ।
अवैक्षत१४ रथं दिव्यं सर्वदेवमयं कृतम् ॥२९ ॥

सुकृतं साध्विति प्रोच्य धनुर्जग्राह तन्महत् ।
तत्प्रगृह्य धनुर्दीप्तं सर्वतेजोमयं परम् ॥ 8.169.३० ॥

अधश्चोर्ध्वञ्च सम्प्रेक्ष्य तुतोष भुवनेश्वरः ।
पितामहं ततो वीक्ष्य प्रोवाच वचसां पतिः१५॥ ३१ ॥

रथ एष धनुश्चैतत्१६ त्वया ब्रह्मन् सुकल्पितम्१७ ।
दग्धव्यं त्रिपुरं येन तमिषुं शीघ्रमानय ॥ ३२ ॥

ततः प्रोवाच तं ब्रह्मा प्रणम्य वृषभध्वजम् ।
रथ एष कृतो देव धनुरेतच्च ते मया ॥३३ ॥

तमिषुं भगवानेव तद्योग्यं कर्तुमर्हति ।
ततः पार्श्वस्थितौ दृष्ट्वा शम्भुविष्णुहुताशनौ ॥ ३४॥

दृष्टिपातेन तौ देवौ समाह्वयदरिन्दमः ।
तौ द्वावञ्जलिमाधाय१८ सुरेशानमुपस्थितौ ॥३५॥

स्वयमेव ततश्चक्रे शम्भुर्विष्णुं शरोत्तमम् ।
ओषधीनां पतिं सोमं पुङ्खे तस्य न्ययोजयत् ॥ ३६॥

शल्यं च पावकं चक्रे ब्रह्माणं स१९ ततोब्रवीत् ।
सारथिः को रथे ब्रह्मँस्त्वयेह परिकल्पितः ॥ ३७॥

तमुवाच ततो ब्रह्मा प्राञ्जलिर्जगतः पतिम् ।
मह्यं ददासि यद्याज्ञा२०महमेव हि सारथिः ॥ ३८॥


ज्याश्चैव - क. । ११ विधा - क । १२ रथ - क. । १३ सज्जमिति - क । १४ अवेक्षत - ख १५ पतिम् - क. ख. । १६ धनुश्चैव - ख । १3 सुकल्पितौ - ख. । १८ द्वौ तावञ्जलिमाधाय - क. ख. । १९ च - क. ख. । २० यद्याज्ञां स्वय - क. ।


प्राप्स्ये२१ किमपरं देव सारथ्यादधिकं तव ।
सर्व शोभनमित्युक्त्वा ततो देवः पिनाकधृक् ॥३९॥

हस्ते प्रगृह्य देवेशमारुरोह रथोत्तमम् ।
रुद्रपारिषदा२२ ये च नन्दीश्वरपुरोगमाः ॥8.169.४० ॥

शङ्कुकर्णपुरोगाश्च ये च चण्डेश्वरादयः ।
गणेश्वरा महायोगास्त्र्यक्षाः पट्टिशपाणयः ॥४१ ॥

नानाशस्त्रप्रहरणा नानायुद्धविशारदाः२३ ।
नानाभरणवस्त्राश्च२४ नानाविद्याविशारदाः ॥४२॥

वादयन्तः समं वाद्यान्२५ भेरीशङ्खस्वनान्२६ बहून् ।
आजग्मुर्गणमुख्यास्ते सहस्राणि चतुर्द्दश ॥४३ ॥

नानाविधानां पुष्पाणामुपरिष्टात् सहस्रशः ।
निपेतुर्वृष्टयो मूर्ध्नि रथस्थस्य पिनाकिनः ॥४४॥

स्वयमेव च वाद्यानि विनेदुः सर्वतोदिशम् ।
रथे युक्ताश्च२७ ते सर्वे२८ देवदेवस्य शूलिनः ॥४५॥

अशक्ता भारमुद्वोढुं मुमुहुर्देवता२९ भृशम् ।
ततस्तान्देवदेवेशो ज्ञात्वा मूढान् दिवौकसः ॥४६॥

सहनीयं३० वपुश्चक्रे सुरास्ते३१ मुमुहुस्ततः ।
अथास्मिन्नन्तरे व्यास नारदो भगवान्मुनिः ॥४७॥

जगाम त्रिपुरं शीघ्रं विश्वकर्मदिदृक्षया ।
अथागतमृषिं दृष्ट्वा विश्वकर्मा मयस्तदा ॥४८॥

सम्पूज्य परया भक्त्या ननाम मुनिसत्तमम् ।
स दत्त्वा ह्याशिषस्तस्मै वेत्रासन उपाविशत्३२ ॥४९॥

उपविश्यासने तस्मिन्मयमाह महामुनिः ।
प्रसाद्य दैवतैस्सर्वेरेष३३ देवो वृषध्वजः ॥8.169.५० ॥


प्राप्ये - क. । २२ रुद्राःपारिषदा - ख । २३ नानायुधविशारदाः - क. । २४ चरणवक्त्राश्च - क. । २५ वाद्यं - क. । २८५ शङ्खभेरीस्वनान् - ख । २७ रथयुक्ताश्च - क., रथं युक्तं च - ख । २८ सर्वे ते - क. । २९. र्देवता - क. ख. ’ ३० वहनीयं (?) । ३१ सुराश्च - क. ख. । ३२ मुपाविशत् - क. । ३३ देवतैस्सर्वैरेष - क. ख ।


आनीतस्त्रिपुरं हन्तुमत्र यत्साधु तत्कुरु ।
रथं३४ देवमयं३५ दिव्यं३६ समारुह्य जगत्पतिः ॥५१ ॥

ब्रह्माणं सारथिं कृत्वा स्वयमायाति शङ्करः ।
नारदस्य वचः श्रुत्वा स तदा दानवाधिपः ॥५२॥

तारकाक्षं समाहूय विद्युन्मालिनमेव च ।
तथान्यानसुरान् भ्रातॄन् बाणनेमिपुरस्सरान् ॥५३॥

नारदेन यदाख्यातं३७ सर्वमश्रावयत्तदा ।
तच्छ्रुत्वा दैत्यराजस्तु तारकाक्षोब्रवीदिदम् ॥५४ ॥

न तवास्ति समः कश्चित् त्रैलोक्ये सुरपुङ्गव३८ ।
योधयेन्निर्भयो यस्त्वां चिन्तां त्वं मय मा कृथाः ॥५५॥

किमत्र चिन्त्यते राजन् सर्वेवध्या३९ यदा वयम् ।
कस्य तत्त्रिपुरं हन्तुं शक्तिर्विद्येत दानव ॥ ५६॥

सङ्गत्य दैवतास्सर्वे यदि योद्धुमिहागताः ।
पश्य तान्निहतानद्य४० मयैवैकेन दैत्यप ॥५७॥

दुर्बलः कुरुते भेदं दानं सान्त्वमथापि वा ।
प्रणामं ज्यायसः शत्रोर्वयन्तु बलिनः सदा ॥५८॥

दुर्बलस्य रिपोर्दण्डो बलिना विजिगीषता ।
कर्तव्यो विक्रमैणेति प्राह शुक्रस्तदा गुरुः ॥५९॥

तद्वयं बलिनो दैत्या हीनाश्च४१ त्रिदिवौकसः ।
हत्वा दण्डेन तान् सर्वान् स्थास्यामो निर्वृताः सुखम् ॥8.169.६० ॥

तारकाक्षवचः श्रुत्वा विद्युन्माली वचोब्रवीत् ।
ममाप्येतदतीवेष्टं४३ राज्ञोस्य वचनं शुभम् ॥६१ ॥

न शक्ता योद्धुमस्माभिर्देवता बलवर्जिताः ।
ते चेद्योत्स्यन्ति सम्मूढाः प्रयास्यन्ति ततः क्षयम् ॥६२॥


रथे - क ख. । ३५ देवमये - क. ख. । ३६ दिव्ये - क. ख । ३७ यथाख्यातं - क. । ३८.. पुङ्गवः - क. । ३९ सर्वावध्या - क. ख. । ४० पश्ये(श्यै)तान्निहतानद्य - क. ख. । ४१ -..स्ते - ख. । ४२ तत् - क. । ४३ प्येतदतीवेष्टं - क., वमतीष्टं - ख. ।


अन्योन्यन्तु वयं युद्धादुपायं तेषु युञ्ज्महे ।
युद्धे नैव सदा दैत्याः प्राप्नुवन्ति४४ जयं परम् ॥६३ ॥

अद्य हत्वा सुरान्सर्वान् कुरु राज्यं त्रिविष्टपे ।
त्रैलोक्यं निर्वृतो भुङ्क्ष्व त्वमिन्द्रो भव विश्वकृत् ॥६४॥

सप्तलोकेश्वरं त्वद्य पश्यामस्त्वां४५ पुरन्दरम् ।
हिरण्यकशिपुं स्मृत्वा हिरण्याक्षं च दैत्यप४६ ॥६५॥

भोक्तारौ जगतो राज्यं त्वं प्रयाहि तयोर्गतिम् ।
ततः श्रुत्वा मयो व्यास विद्युन्मालिविभाषितम् ॥६६॥

नैतदेवमिति प्राह कम्पयन्नसकृच्छिरः४७ ।
यस्तुल्यः स्वबले शत्रुर्हीनो वा दैत्यपुङ्गवाः ॥६७॥

बले वा यो भवेज्ज्यायानेकजातिवपुर्धराः४८ ।
बुधास्तस्मिन् प्रयुञ्जन्ति तदुपायचतुष्टयम् ॥६८ ॥

समा दिवौकसोस्माकं बलेनासुरपुङ्गवाः ।
तैर्देवैः सार्धमस्माकं युक्तं सामादियोजनम् ॥ ६९॥

य४९ एष भगवानीशः सर्वभूतेश्वरेश्वरः ।
अस्माकं देवतानाञ्च स्रष्टा हर्ता च स प्रभुः ॥8.169.७० ॥

स हन्तुं स्वयमायाति उपायस्तस्य कीदृशः५० ।
प्रणामः संश्रयश्चैव गुणोपायौ५१ कपर्दिनः ॥७१ ॥

द्वाविमौ५२ साधने तस्य प्रयोज्याविति५३ मे मतिः ।
यदि कार्कश्यमास्थाय योधयामः पिनाकिनम् ॥७२॥

तस्य जिह्मेक्षितेनैव निहताः स्म ततोसुराः५४ ।
ब्रह्माद्याः शरणं शम्भुमर्दिता५५ यान्ति शान्तये ॥७३ ॥

योभियुक्तः स्वयं तेन शरणं तस्य को भवेत् ।
यस्य सर्वमिदं दैत्या ब्रह्मादि प्रथितं जगत् ॥७४॥


प्राप्नुवन्तो - क. ख. । ४५ पश्यामस्त्वा - ख. । ४६ दैत्यपम् - क. । ४७ च्छिरम् - क. । ४८ नैकजातिवपुर्धराः - क । ४९ स - ख. । ५० स्वयमायात - क., -. मायातुमुपायस्तस्य - ख. । ५१ द्वावुपायौ (?) । ५२ द्वे इमे (?) । ५३ प्रयोज्ये इति (?), प्रयोज्यमिति - क, । ५४ तयासुराः - क । ५५ … मार्दिता - क. ख ।


अभिध्यानात् क्षणेनैव प्रणश्येत भवेदपि ।
यो हेतुरपवर्गस्य कारणं जगतश्च यः ॥७५॥

कीदृशं तेन युद्धं नो देवदेवेन शम्भुना ।
किन्न वेत्थ शिशुप्रज्ञा५६ लोष्टुगिर्यो५७र्यदन्तरम् ॥७६ ॥

भवन्तो लोष्टवो भूत्वा गिरिकल्पमुमापतिम् ।
ईप्सध्वे५८ मोहिता युद्धे कालपाशेन यन्त्रिताः ॥७७॥

अहं भक्तो महादेवं जाने५९ तस्य बलान्तरम् ।
स प्रणाममुपस्थास्ये न योत्स्ये शम्भुना सह ॥७८ ॥

यदि यूयमपि प्राज्ञा मम शुश्रूषवो यदि ।
मा कृढ्वं६० शम्भुना युद्धं गच्छध्वं शरणं शिवम् ॥७९॥

तमेवं वादिनं श्रुत्वा विश्वकर्माणमूर्जितम् ।
नारदो भगवान् प्राह दानवान्तकरं वचः ॥8.169.८० ॥

विश्वकर्मन् यत्त्वयेद६१ मुक्त विस्तरशोर्थवत् ।
सर्वं युक्तमिदं किन्तु कालोयं नास्य वर्तते६२ ॥८१ ॥

भवतां तत्तपः क्षीणमैश्वर्यं भुक्तमेव च ।
क्लीबतामपि६३ कुर्वन्तो यूयं नक्ष्यथ६४ दानवाः ॥८२॥

वृतः सर्वामरैः शम्भुर्वधार्थं६५ भवतामिह ।
प्रणतानप्यसौ युष्माँस्तत्प्रियार्थं निहंस्यति ॥८३ ॥

कथं दनुसुता भूत्वा राजानो बलदर्पिताः ।
भीता मृत्युं जिगीषध्वं कृपणा इव दानवाः ॥८४॥

प्राप्स्यथाधिकमैश्वर्यं त्यक्ष्यथासून्६६ रणे यदि ।
विना युद्धं विपन्नानामशुभा वो गतिर्भवेत् ॥८५॥

अपि चेद्यदि हन्येध्वं६७ देवदेवेन शूलिना ।
प्रमथेन्द्रास्ततो६८ यूयं भविष्यथ६९ न संशयः ॥८६॥


प्राज्ञा - क ख । ५७ लेष्टुगिर्यो - ख. । ५८ ईप्सध्व - क. ख. । ५९ जानन् - ख. ६० कृथा ( ध्वम्) - ख । ६१ यत्त्वया विश्वकर्मेदं - क ख । ६२ साम्प्रतम् (?) - ख. ६३ क्लीबोनामपि - क., क्लीबाना .. - ख. । ६४ नशत् - क ख । ६५ व्यास वधार्थ - क. । ६६ त्यक्षयासून् - क. ख. । ६७ हन्यध्वं - क. ख. । ६८ मृतो (ता) - ख. । ६९ भवितासे - क. ख. ।


गुणं सन्धिगतं नास्ति युष्माकं देवतैस्सह७० ।
विग्रहे वो मतिर्युक्ता सा च व्यक्ता वयं च वः (?) ॥८७॥

शौर्येण भवतां प्रीतः कदाचिद् वृषभध्वजः ।
भवेद्वरप्रदो दैत्याः श्रेयान्७१ वस्तेन विक्रमः ॥८८ ॥

करिष्यामि च वो रक्षां शस्त्राघातनिषेधनीम् ।
उत्तिष्ठत दनोः पुत्रा विजयाय युयुत्सया ॥८९॥

नारदस्य वचः श्रुत्वा तारकाक्षो महाबलः ।
विद्युन्माली च दैत्येन्द्रा बाणाद्याश्च महासुराः ॥8.169.९० ॥

कालपाशार्दिता मूढाः क्षीणपुण्या गतायुषः७२ ।
साध्वेतच्छोभनं प्रोक्तं नारदेनेति तेब्रुवन् ॥९१ ॥

मयोपि तद्वचो बुदध्वा७६ ज्ञात्वा नाशमुपस्थितम् ।
शोभनं नारदेनोक्तमिति वाक्यमुवाच ह ॥९२॥

नारदोपि ततो हृष्टो रक्षां७४ बद्ध्वा तु मायया ।
युयुत्सूनसुरान् कृत्वा ययौ शर्वरथं प्रति ॥९३ ॥

ततस्ते दानवाः सर्वे युद्धाय कृतनिश्चयाः ।
नानाप्रहरणोपेता बभूवुर्युद्धलिप्सवः ॥ ९४॥

तरकाक्षो बलो बाणो विद्युन्माली च दानवः ।
सन्नह्य सहिताः सर्वे राजानस्तस्थुरग्रतः ॥९५॥

अवाद्यन्त ततः शङ्खास्तूर्याणि च सहस्रशः ।
दानवानां बले घोरे कातराणां भयप्रदे७५ ॥९६ ॥

सरथोयमिहायाति असावन्यः प्रदृश्यते ।
कथमागत इत्येवं वचांस्यूचुः परस्परम् ॥९७॥


देवतै सह क- ख ७१ श्रेयो - क ख. । ७२ गतयुषा - क । ७३ बुद्ध्या - ख ७४ -. द्दुष्टां - ख.।


विगतभयविषादास्त्रैपुरा दैत्यसङ्घाः
प्रकुपितवदनास्ते युद्धसज्जा बभूवुः ।
प्रहरणवरहस्तास्तं रथं वीक्षमाणाः७६
पशव इव मखाग्नेरन्वगच्छन् समीपम् ॥९८ ॥

इति स्कन्दपुराणे त्रिपुरवधेसुरवर्णने ऊनसप्तत्युत्तरशततमोध्यायः७७ ।