१६८

सूत उवाच
श्रुत्वा कथामायतनानुबद्धाम्२ चन्द्रार्धबिम्बा३ स्थितमौलिनस्तु ।
व्यासो मुनिस्तं वचनं बभाषे ब्रह्मात्मजं ब्रह्मविदं मुनीन्द्रम् ॥ १ ॥

धर्म्या४ सुपुण्या भगवन् त्वयैषा गुह्या कथा मे विधिवत् प्रदिष्टा ।
स्थानानि शम्भोर्दयितानि कोन्य एवं परिज्ञातुमृषिः५ समर्थः ॥ २ ॥

इच्छामि वेत्तुं त्रिपुरं प्रदग्धमेकेषुणा दिव्यपिनाकधर्त्रा ।
यथा पुरा भक्तवरप्रदेन६ तन्मे मुने ब्रूहि यथाप्रवृत्तम् ॥ ३॥

पृष्टस्तथैवं मुनिना मुनीन्द्रः प्रश्नं यथावत् कथयञ्चकार ।
दग्धं यथा तत् त्रिपुरं तथा त्वं शृणुष्व पुत्रेति वचो ब्रुवाणः७ ॥४॥

तस्मिन् हते दैत्यवृषेन्द्रसिंहे पुरा हिरण्याक्षसुते प्रवीरे ।
भग्नेषु दैत्येषु सदानवेषु मयो बभूवाधृतिदुःखतप्तः ॥५॥

स विश्वकृद्दानवराजलक्ष्म्या रत्येव हीनो मकरध्वजोभूत् ।
आदाय दैत्यं स हि तारकाक्षं विद्युत्प्रभं चेन्द्रसमप्रभावम् ॥६ ॥

तपश्चचारोग्रमहीनकर्मा८ दैत्यौ च तावन्धकतुल्यवीर्यौ९ ।
ते शीतकाले हिमपर्वतस्था ग्रीष्मे च पञ्चज्वलनाभितप्ताः ॥७॥

व्यभ्रे पयःप्लावितभूमिभागे चेरुस्तपः प्रावृषि च प्रयत्ताः१० ।
तेषामगाद्दिव्यसमासहस्स्रं तथा सुतीव्रे तपसि स्थितानाम् ॥८ ॥


स्य च - क. । १६३. शिष्या - क. । १६४ … शुद्धकर्त्री - क. । १६५ वदामि - ख । १६६ तीर्थवर्णने (?) - ख. । १६७ अ. २१५ - ख ।
व्यास - क. । २ बद्धा - क. ख. । ३ बिम्ब - क. । ४ धर्मा - ख., ब्रह्मन् - क. । ५ ज्ञातुमृषे - (?) । ६ भक्तिवरप्रदेन - क. ख. । ७ भ्युवाच - ख. । ८ तपश्चकारोग्रमहीनकर्मा - क. । ९ कल्पौ - क. ख । १० प्रयत्नात् - ख. ।


चर्मास्थिशेषा ज्वलनप्रभावास्तपो११ विशेषाद् दितिपुत्रसिंहाः ।
आदित्यतेजःप्रतिमानवीरा१२ बभूवुरादित्यवपुःप्रकाशाः ॥९॥

पितामहस्तानभिगम्य सर्वान् प्रियं१३ बहूक्त्वा वचनं बभाषे ।
तप्तं तपो वो विगतप्रमोहा वरं त्विदानीं वृणुतेति हृष्टाः१४ ॥ 8.168.१० ॥

तं प्राञ्जलिर्भूमिनिविष्टजानुर्मयः सुरेशं प्रणतोभ्युवाच ।
अवध्यतामप्रतिमं बलञ्च ज्ञानं च दिव्यं परमं सुखं च ॥११ ॥

मृत्युर्यथा नो१५ न भवेच्च देव वरं प्रयच्छैनमभीप्सितं१६ नः ।
करोम्यहं यच्च सुरेश दुर्गं त्रिभिः पुरैर्दिव्यविमानकल्पैः ॥१२॥

तन्मे भवेत् सर्वसुरैरगम्यं स्वच्छन्दसंस्थानगतिप्रचारम् ।
इत्येवमुक्तो१७ दनुजाधिपेन ब्रह्मा वचस्तं मयमाबभाषे ॥ १३ ॥

दातुं न शक्यो वर एष१८ तुभ्यं तस्मात् परं१९ सान्तरमेव चान्यम्२० ।
त्वं पुत्र याचस्व ततः प्रदास्ये चिन्ता च ते मा दनुजान्यथाभूत् ॥१४॥

ततो मयः प्राह वचो विमूढो वरो यथा मार्गित एव नोस्तु ।
ब्रवीमि यच्चान्यदहं२१ सुरेश तन्मेर्हसि त्वं प्रददातु मद्य ॥ १५॥

पूर्णे सहस्रे त्रिपुरं२३ समानां समेष्यते ह्यर्धनिमेषमात्रम्२४।
तस्मिन्क्षणे यस्त्रिषु२५ सङ्गतेषु पुरेषु दिव्येषु सुरप्रवीर ॥१६॥

एकेषुणा तत्२६ त्रिपुरं दहेत स नो विनाशी त्रिपुरस्य२७ भूयात् ।
श्रुत्वा ततस्तद्वचनं मयस्य ब्रह्मा वरं तं हृषितान्तरात्मा ।
प्रादादभीष्टं दनुजाधिपाय२८ दत्त्वा च तूर्णं स्वपुरे जगाम ॥१७॥

ततो मयस्तत्त्रिपुरं ससर्ज जगद्विधातेव पुरादिकल्पे ।
अयोमयं तत्प्रथमं चकार ततोपरं राजतमद्रिकल्पम् ॥ १८ ॥

तृतीयमन्यत्पुरमाशु हैमं ससर्ज मेरोरिव शृङ्गमुच्चम्२९ ।
सृष्टं ततस्तत्त्रिपुरं मयेन स्वर्गस्य रूपं प्रजहार दिव्यम् ॥ १९॥


त्ततो - क., .. स्तपो, - ख.,.. .त्तपो (?) । १२ प्रतिमान्यवीरा - क. ख. । १३ प्रियान् - क. । १४ हृष्टः - क. ख । १५ यथातो - ख ’ १६ प्रयच्छेत - क, प्रयच्छेत - ख, प्रयच्छैतदभीप्सितं (?) । १७ मुक्तेः - क, क्ते - ख. । १८ शक्यामरता हि (?) । १९ वरं - क । २० मेतत् - ख, चान्यत् - क । २१ महं - ख । २२ प्रदातु ? र । २३ सहस्रेतु पुरं - क ख. । २४ चार्धनिमेषमात्रम् - ख. । २५ यः सह - घ. । २६ तं - क. । २७ विनाशस्त्रिपुरस्य - क. । २८ -.धिपस्य (?) । २९ …मुच्चै (?) ।


द्वारैर्मनोज्ञैर्वडभीगवाक्षैर्बीथ्यङ्गणैर्हेममयैः३० सुयुक्तम् ।
चन्द्रांशुसंसृष्टतलैश्च हर्म्यैः शीतानिलाह्लादसुखप्रवेशैः३१ ॥8.168.२० ॥

मुक्ताप्रवालैर्मणिखण्डचित्रै३२ रालम्बितैश्चित्रतडित्प्रकाशैः ।
ध्वजैर्विचित्रैः पवनावधूतैश्चलत्पताकाभिरतीव रेजे ॥ २१ ॥

प्रासादपङ्क्तिस्थितरत्नखण्डै३३ र्महामणीन्दुद्युतिसन्निकाशैः३४ ।
सतोरणाभ्युच्छ्रितहर्म्यपृष्ठैरलकृतं तत् त्रिपुरं रराज ॥ २२ ॥

सर्वर्तुपुष्पैः फलितैर्मनोज्ञैर्वृतं समन्तात्तरुभिर्महोच्चैः ।
रम्यस्तथोद्यानशतैरुपेतं प्रभ्रान्तषट्पादमयूरहंसैः ॥ २३ ॥

वापीभिराक्रान्तविहङ्गमाभिः प्रफुल्लनीलोत्पलसंवृताभिः३५ ।
दैत्यालयं तच्छुशुभे तथैव प्रनृत्तकेकाविहगैस्सरोभिः३६ ॥ २४॥

तथा नखोद्भिन्नपयोधराभिराकर्णरक्तान्तविलोचनाभिः ।
सव्रीडमीषच्चपलेक्षिताभिर्योषिद्भिराकीर्णमतीव रेजे ॥ २५॥

लौहं पुरं यत्तदधश्चकार तत्तारकाक्षाय मयः प्रदत्वा३७ ।
पुर द्वितीयं रजतामयं यद्विद्युत्प्रभायासुरराजभर्त्रे ॥२६॥

हैमं तृतीयं स्वयमेव दिव्यं जग्राह राजा मय आत्मनोर्थे ।
अधिष्ठितं तत्त्रिपुरं तदाभूत्समं त्रिभिस्तैर्दनुराजसिंहैः ॥२७॥

ते सर्वतः स्वः३८ प्रभवान्३९ विजित्य४० प्रियासहायाः सहमित्रभृत्यैः ।
सुखानि तस्मिन् विविधान्यवापु४१ स्त्रैलोक्यचिन्तामविचिन्तयन्तः४२ ॥ २८॥

ते दर्पमोहप्रतिबद्धरागा न्यूनानमन्यन्त बलेन देवान् ।
मत्वा च तेषां प्रसभं निपत्य४३ नानाविधाश्चक्रुरतीव पीडाः ॥२९॥

वनानि वैभ्राजपुरस्सराणि सञ्छिन्नवीरुत्कुसुमानि चक्रुः ।
वापीः प्रचक्रुः कमलैर्विहीना जह्रुश्च रम्भादिपुरस्सरास्ताः ॥8.168.३० ॥

सन्त्रस्तगात्रीः४४ सुरयोषितस्तैरन्याश्च४५ चक्रुर्महतीः प्रपीडाः ।
तेषामतीतः सुमहानथैवं प्रकुर्वतां देवविनाशनानि४६ ॥३१ ॥


र्वीथ्यगन्नैर्हेममयैः - ख. । ३१.. प्रदेशैः - ख । ३२ दण्डचित्रै - ख । ३३ स्थिररत्नखण्डै - ख. । ३४ मणीन्द्रद्युतिसन्निकाशैः (?) । ३५ प्रस्फुल्लनीलोत्पलसंवृताभिः - क । ३६ विहगाप्सरोभिः - ख.। ३७ प्रदाय(?) ॥ ३८ सर्वसम्पत् - ख. । ३९ स्वप्रभवान् - क. । ४० वा विजित्य - क., वाभिलभ्या - ख. । ४१ …न्यथाभू - ख. । ४२ सौख्यामाविचिन्तयतः - ख. । ४३ त्वा - ख, । ४४… गात्र्यः - क. । ४६ स्ता अन्याश्च (?) । ४६ विनाशकानि - क. ।


कालो४७ मयं प्रत्यथ जातकोपाः४८ सङ्गत्य सर्वे त्रिदिवौकसेशाः ।
वृत्तं यथा सर्वमशेषतस्तन्न्यवेदयन्नाशु पितामहाय ॥३२॥

तानाह देवः कमलासनस्थः सर्वान्सुरेशान्परिसान्त्वयित्वा ।
महाबलास्ते त्रिपुरासुरेन्द्रा हन्तुं न४९ शक्या हि५० बलाद्भवद्भिः ॥३३ ॥

तस्मादयं विष्णुरहञ्च युष्मान् प्रगृह्य शम्भुं शरणं प्रयाम ।
गतिः सदा नः शशिभृत् सुरेशाः स तान्५१ बलाद्धंस्यति शूलपाणिः ॥३४॥

तथेति तेपि प्रणिपत्य देवा ब्रह्मार्कशक्रानिलपावकाद्याः ।
कैलासमागम्य सुरेश्वरेशं दृष्टवा हरं तुष्टुवुरादृतार्थाः ॥३५॥

नमस्त्रिलोकेश्वरवन्दिताय प्रियाधरायामितविक्रमाय ।
नमोस्तु चन्द्रार्धजटाकलापकान्ति५२ प्रभोद्योतितशेखराय ॥३६॥

त्रैलोक्यदेवाय नमोस्तु नित्यं पिनाकचापाय नमस्तथैव ।
नमः प्रदीप्तासिपरश्वधाय त्रिशूलहस्ताय नमोस्तु नित्यम् ॥३७॥

नमो नमो नन्दिवरप्रदाय जगच्छरण्याय सुरेश्वराय ।
नमः सदा भक्तवरप्रदाय नमोस्तु यक्षेशवरप्रदाय ॥३८ ॥

स्थिताय नित्यं हिमवद्गिरीन्द्रे कैलासवासाय नमस्सदैव ।
नमो विमुक्ते शनिकेतनाय स्थिताय सर्वत्र च ते नमोस्तु ॥ ३९॥

भस्माङ्गलिप्ताय कपर्दिने च नमोस्तु नित्यं वृषभस्थिताय ।
दिग्वाससे श्वेतवरप्रदाय सर्वर्द्धियुक्ताय जगद्विधात्रे ॥8.168.४० ॥

हर्यर्कशक्राग्निपितामहानां स्रष्ट्रे नमो देव - - -राय ।
सूक्ष्माय नित्यं परमेश्वराय नित्यं नमः सर्वगताय धात्रे ॥४१ ॥

नमः परायातिपरे पुमांसे५३ पुराय षड्विंशकसञ्ज्ञिताय ।
नमोस्तु शर्वाय धनुर्धराय सर्वाय५४ सर्वप्रभवाय नित्यम् ॥४२॥

सोमानिलार्कज्वलनाम्बु५५भूमिव्योमात्मकायादिसृजे नमोस्तु ।
पूष्णो५६ नमो दन्तविनाशनाय५७ कामाङ्गनाशाय नमोस्तु नित्यम् ॥४३ ॥


ततो - क. ख. । ४८ ते प्रति जातकोपाः - ख. । ४९ हि - क. ख. । ५० न - क. ख. । ५१ तं - ख. । ५२ कान्त - ख । ५३ पराय पुंसे (?) । ५४ सर्वस्य - क. ख. । ५५ सोमानलार्कज्व- लनाम्बु - क. ख. । ५६ पूष्णे - क । ५७ दन्तविनाशकाय - क. ।


नमः प्रधानाय पराय पुंसे योगाधिगम्याय सदा नमोस्तु ।
रौद्राय सौम्याय वपुष्मते च नमो नमः सर्वजगत्सृजे च ॥४४॥

विद्यासृजे धर्मसृजे नमोस्तु स्रष्ट्रे नमो यज्ञसुरासुराणाम्५८ ।
नमस्तृतीयेक्षणधारिणे च नमो नमो नीलशिखण्डिने च ॥४५॥

नमोस्तु नित्यं पुरुषोत्तमाय श्मशानवासाय नमः सदैव ।
नमोस्तु दैत्यान्धकनाशनाय नमः सदा मोहविनाशनाय ॥४६ ॥

तमोविनाशाय५९ नमोस्तु नित्यमज्ञाननाशाय नमोस्तु नित्यम६० ।
नमः सदा मोक्षवरप्रदाय नमः सदायामृतसंस्थिताय६१ ॥४७॥

भर्त्रे नमो भूमिधरेन्द्रपुत्र्याः पित्रे कुमारस्य नमोस्तु नित्यम् ।
नमोस्तु वित्तेशवरप्रदाय नमः सदा शुक्रवरप्रदाय ॥४८॥

ब्रह्मात्मने ब्रह्मसृजे नमोस्तु नमो नमो देवसृजे६२ विधात्रे ।
नमोस्तु दक्षामरयज्ञहन्त्रे६३ नमोस्तु चण्डेशवरप्रद्राय ॥४९॥

योगेश्वरायामरसंस्तुताय नमोस्तु रुद्राय पराय धाम्ने ।
हराथ शर्वाय शिवाय गोप्त्रे नमोस्तु भीमाय च शम्भवे च ॥8.168.५० ॥

गुणैर्विहीनाय गुणोत्कटाय गुणेष्वतीताय गुणास्थिताय ।
गीताय साङ्ख्ये पुरुषाय नित्यं नमोस्तु योगोपनिषत्स्थिताय ॥५१ ॥

महापुराणाय परात्पराय स्थूलाय सूक्ष्माय नमस्सदैव ।
प्रसाद्यमानः कुरु नः प्रसादं तुष्टः परेशान वरं प्रयच्छ ।
शम्भुस्तथैवं स्तुवतां सुराणां ब्रह्मेन्द्रविष्ण्वर्कपुरःसराणाम् ॥५२॥

प्रीतस्तया६४ स्तोत्रविशेषभक्त्या जगाद वाक्यं परमाद्भुतार्थम ।
तुष्टोस्मि देवा शृणुताद्य शीघ्रं समीहितं वो यदि किञ्चिदस्ति ।
दातास्मि सर्वं तदशेषतोद्य किञ्चिन्न युष्मभ्यमदेयमस्ति ॥५३ ॥

इति स्कन्दपुराणे त्रिपुरवधोपक्रमे६५ देवतावरप्रदानं६६ नाम अष्टषष्ट्युत्तरशततमोध्यायः६७