व्यास उवाच
यत् प्रोक्तं भवता गुह्यं माहात्म्यमिदमुत्तमम् ।
नान्यस्यैतद् भवेन्मुक्त्वा जगदार्त्तिहरं हरम् ॥१ ॥
पुण्यान्यायतनानीह देदेवस्य शूलिनः
यानि दृष्ट्वा न शोचन्ति जन्ममृत्यू महामुने१ ॥२॥
तानि मे ब्रूहि धर्मज्ञ यद्यनुग्राह्यता मयि ।
एवं कृतार्थमात्मानं मुच्ये यन्मुनिसत्तम ॥३ ॥
व्यासस्य वचनं श्रुत्वा ब्रह्मपुत्रोब्रवीदिदम् ।
साधु व्यास महाबुद्धे भक्तिमानसि शङ्करे ॥४॥
यै… - क., मे… - ख- । ९३ …मोहात् - ख. । ९४ निर्हृतदुःखभाव (?) । ९५ …भक्त्या - ख. । ९६ पुण्य (?) । ९७२१४ - ख ।
जन्ममृत्युभयान्नराः - क. ।
स्थानानि शूलिनो यस्त्वं पुण्यानि श्रोतुमिच्छसि ।
कृतार्थस्त्वं महायोग मुक्तः संसारबन्धनैः ॥५॥
शृणु वक्ष्यामि ते वत्स गुह्यमेतत् परं हि मे ।
स्थानानुवर्णनम्२ शम्भोर्मृत्युजन्मभयापहम् ॥ ६॥
आदित्यबन्धनं नाम कूटं विन्ध्यगिरेः शुभम् ।
स्थापितं तत्र लिङ्गं तु तपनेन महाप्रभम् ॥७ ॥
तद् दृष्ट्वा मनुजो व्यास जन्मप्रति न शोचति ।
हेमसोमोद्भवं नाम कूटं हिमगिरेः शुभम् ॥८॥
पुण्यमायतनं तत्र च्यवनेनाभिनिर्मितम् ।
ये तदायतनं शम्भोरभिगच्छन्ति मानवाः ॥९॥
न च्यवन्ति पुनः स्वर्गात् प्रलयेपि समागते ।
उदये तु गिरौ पुण्ये सिद्धसङ्घैर्निषेविते ॥ 8.167.१० ॥
सत्यो नाम ह्रदः पुण्यो हेमपद्मसमावृतः ।
यत्र ते मुनयः सत्याः सत्यानलरविप्रभाः ॥ ११ ॥
धारयन्ति महात्मान आशीर्भिस्सरथम्४ रविम् ।
पुण्यमायतनं तत्र स्थापितं तैः पिनाकिनः५ ॥ १२॥
अमरैरर्चितं व्यास सिद्धविद्याधरैर्वृतम् ।
यैस्तदायतनं दृष्टं भवभक्तैर्वियद्गमैः६ ॥ १३ ॥
ते भवस्य प्रिया भूत्वा भवन्ति प्रमथेश्वराः ।
उशीरवीजः शैलेन्द्र७स्तत्राश्रमपदं महत् ॥ १४॥
आगस्त्यस्य तृणाङ्गस्य देवदानवपूजितम् ।
महानीलमयं लिङ्गं तस्मिन् व्यास महोच्छ्रयम् ॥ १५॥
तस्मिन्नायतने रुद्रं तृणाङ्गः स महानृषिः ।
दक्षिणामूर्त्तिमास्थाय८ स्तौति नित्यं कपर्दिनम् ।
दिवौकसस्तमभ्यर्च्य भवन्ति गणपाधिपाः ॥ १६ ॥
स्थानानां वर्णनं - ख. । ३ तं - क. ख । ४ माशोर्मिस्सरथ - ख. । ५ पिनाकिनं - क ख । ६ विपद्गतैः - ख. । ७ उशीरवीजशैलेन्द्र - ख. । ८ दक्षिणां मूर्तिमास्थाय - क. ख. ।
उत्तरेण निरालोके रविचन्द्रविवर्जिते ।
मेरुशृङ्गे महोत्सेधं सौवर्णं स्थापितं महत् ॥१७॥
लिङ्गं भगवतो व्यास यत्रास्ते शूलधृक् स्वयम् ।
उत्तानपादपुत्रेण भवभक्तिपरात्मना ॥१८॥
नित्यमभ्यर्चितं लिङ्गं ध्रुवेणास्ते९ महामुने ।
देवानामप्यगम्यं तद् ध्रुवं मुक्त्वा परं वरम् ॥ १९॥
जैगीषव्येण मुनिना अस्ते पर्वतराजनि ।
स्थापितं सुमहल्लिङ्गं देवदेवस्य शूलिनः ॥ 8.167.२० ॥
तद्१० दृष्ट्वा मानवो व्यास रुद्रलोकमवाप्नुयात् ।
मोक्षविद्यास्वभिज्ञाश्च साङ्ख्ययोगविशारदाः ॥२१ ॥
भवन्ति मनुजा दृष्ट्वा तल्लिङ्गं परमाद्भुतम् ।
नन्दने देवराजेन स्थापितं लिङ्गमुत्तमम् ॥२२॥
तपनीयमयं शुभ्रं देवता यदुपासते ।
तद् दृष्ट्वा देवता लिङ्गं११ प्राप्नुवन्ति परं पदम् ॥२३ ॥
क्षीरोदे सागरे दिव्यं१२ बालखिल्यैः१३ स्वयं कृतम् ।
महदायतनं पुण्यं सिद्धकिन्नरसेवितम् ॥२४॥
तस्मिँश्चन्द्रप्रभं लिङ्गं स्फाटिकं मणिरञ्जितम् ।
बालखिल्यास्तमभ्यर्च्य जग्मुरीशसलोकताम्१४ ॥ २५॥
सौवर्णं यक्षराजेन स्थापितं गन्धमादने ।
लिङ्गं भगवतो दिव्यं यत् कुबेरेशनामकम्१५ ॥२६ ॥
मन्दारकुसुमैर्दिव्यैर्हेमपद्मैश्च भक्तितः ।
तमभ्यर्च्य महेशानं कुबेरो निर्वृतोभवत् ॥२७॥
यैस्तदायतनं दृष्टं कुबेरस्य सुरासुरैः ।
सर्वयज्ञफलं तेभ्यो ददाति वृषभध्वजः ॥२८ ॥
एभ्यः पुण्यतमानीह यानि गम्यानि मानुषैः ।
शृणु तानि महाबुद्धे स्थानानि शशिमौलिनः ॥२९॥
ध्रुवमस्तौ - ख. । १० तं - क. ख । ११ देवतास्ते तु - क ख. । १२ दिव्ये - क. ख. । १३ बालिखिल्यैः - क. ख. । १४ …रीशस्य लोकताम् - क. । १५ कुबेरो ननाम ह( म्) - क. ख. ।
सर्वपर्वतराजस्य शृङ्गे हिमवतः शुभे ।
महालयमिति ख्यातं स्थानमाद्यं स्वयम्भुवः ॥8.167.३० ॥
यत्र सर्वामरा व्यास चतुर्वक्त्रपुरस्सराः ।
संसिद्धा मुनयश्चैव ये च योगीश्वरा भुवि ॥३१ ॥
समभ्यर्च्य हरं१६ भक्त्या तदवाप्ताः परं पदम् ।
यत्र साक्षान्महादेवो न्यस्तवान् पदमात्मनः ॥ ३२॥
यं प्रणम्य नराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।
अभिगम्य तमीशानं महालयनिवासिनम् ॥ ३३ ॥
देहभेदं समासाद्य यत्र तत्र यथा तथा ।
न पुनर्जायते मर्त्यो यातः१७ सिद्धिमनुत्तमाम् ॥३४॥
न तं पश्यन्त्यधर्मज्ञा१८ येपि पापकृतो१९ नराः ।
महागणपतिस्तत्र द्वारसंस्थो महाबलः ॥ ३५॥
स तेषां गमनं हन्ति ये नराः पापकारिणः ।
योगिनो यत्र देवाश्च सिद्धाश्च परमर्षयः२० ॥३६॥
तं२१ प्रणम्य ययुः सिद्धिं पुण्यं पशुपतेः पदम् ।
तस्य सङ्कल्पनादेव द्रक्ष्यामीति महालयम् ॥ ३७॥
कर्मभिर्मुच्यते जन्तुर्महापातकसञ्ज्ञितैः२२ ।
महालयं महत्क्षेत्रं मोक्षसिद्धिप्रदं शुभम्२३ ॥३८॥
कुलान्युभयतः२४ सप्त दृष्टत्वा त्रायति मानवः ।
ततः पुण्यतमं व्यास केदारं नाम नामतः ॥३९॥
परं धाम वृषाङ्कस्य तस्यैवोत्तरतः शुभम्२५ ।
स्वयं किल हरो देवस्तस्मिन्नचलसत्तमे ॥8.167.४० ॥
जटाभाराज्जलं पुण्यं मुमोच - - - - - ५ ।
-
-
- दभवत्तत्र हरमौलिविनिःसृतम् ॥४१ ॥
-
महद् - ख. । १७ जन्तुर्यातः - ख । १८ धर्मिज्ञा - क. । १९ महापापकृतो - ख. । २० परमर्षभ - क- । २१ तत् - ख. । २२ सञ्ज्ञितम् - क. । २३ विभो - ख. । २४ कुलानुभयतः - क. ख. । २५ शुचिम् - ख. । २६ इतः पर पत्रमेकं खण्डितं ख. पुस्तके ।
नरास्तदमृतप्रख्यं ये पिबन्ति जलं शुभम् ।
ते भवन्ति गणा व्यास कुष्माण्डा रुद्रवल्लभा ॥४२ ॥
महारूपा महात्मनो नन्दिनोप्यधिकप्रभाः ।
केदारवासिनं दृष्टवा देवदेवं जगत्पतिम ॥४३ ॥
-
-
-
-
- – – - ।
ब्रह्मा शक्रस्तथा विष्णुः सोमो यक्षगणाधिपः ॥४४॥
- – – - ।
-
-
-
अर्चयन्ति स्थितं तत्र भक्तितः परमेश्वरम् ।
केदारसलिलं पीतं यैर्नरैः सुमहात्मभिः ॥४५॥
कथं शोचन्ति ते व्यास प्राप्तं किन्नु न तैः सुखम् ।
केदारे हिमवन्महीध्रशिखरे यत्तत्पयः प्रस्रुतं
मूर्ध्नः सोममहेन्द्रविष्णुमरुतां स्रष्टुर्विभोः शूलिनः ।
पातुं यन्न लभन्त्यधर्मरुचयः शैवं विनानुग्रहं
तत्पीत्वा भवबन्धनप्रतिभयान्मुक्ता भवेयुः प्रजाः ॥४६॥
मध्यमेश्वरमत्रैव स्थानमाद्यमुमापतेः ।
गत्वा२७ तमपि देवेशं गाणपत्यमवाप्नुयात् ॥४७॥
तत्रापि स्वयमेवेशः सदा सन्निहितो मुने ।
अभिगम्य तमीशानं न शोचेन्मरणं प्रतिं ॥४८॥
त्रयाणामपि लोकानां प्रदेशे हिमवद्गिरेः ।
एष श्रेष्ठतमो व्यास सर्वसिद्धिप्रदः शुभः ॥४९॥
अस्याभिगमनादेव सर्वयज्ञफलं स्मृतम् ।
विपन्नस्य प्रमादाद्वा गाणपत्या गतिर्वरा ॥8.167.५० ॥
नातः पुण्यतमं किञ्चित् सर्वलोकेषु विद्यते ।
त्रैलोक्ये चक्रवर्त्तित्वमस्मिन् वा मरणं गिरौ ॥५१ ॥
चक्रवर्त्तिपदात्तस्मादिह मृत्युर्विशिष्यते२८ ।
याति सायुज्यतां शम्भोः परमैश्वर्यसंयुतः२९ ॥५२ ॥
दृष्ट्वा (?) । २८ …र्विशेष्यते - क. । २९ संयुतं - क ।
गिराविह मृतो जन्तुः किन्ततः परमं पदम् ।
महद्धिमवतस्त्वन्यत् कूटं सिद्धनिषेवितम् ॥५३ ॥
यत्र देवी तपस्तेपे गौरवर्णसमीप्सया ।
गौरीशिखरमित्येव त्रिषु लोकेषु विश्रुतम् ॥५४॥
कुचकुण्ड इति ख्याते तीर्थे यत्रोमया कृते ।
तद् गौरीशिखरं पुण्यं येभिगच्छन्ति मानवाः ॥४५॥
अश्वमेधफलं प्राप्य ते यान्ति परमां गतिम् ।
ऋषभं शृङ्गमपरं वज्रस्फटिकसन्निभम् ॥४६॥
यत्र नन्दी तपस्तेपे वरञ्चावाप शङ्करात् ।
ऋषभं प्राप्य तत्कूटं स्थानं पुण्यमुमापतेः ॥५७॥
दृष्ट्वा पापविनिर्मुक्तो रुद्रलोकमवाप्नुते ।
अन्यद्धिमगिरेः कूटं हेमकूटसमप्रभम् ॥५८॥
यत्र भस्त्रेश्वरं नाम रुद्रस्यायतनं शुभम् ।
रुद्रस्तस्मिन् गिरौ देवो भस्त्रेश्वर इति स्मृतः । ५९॥
तं नमस्य महादेवं किन्नरोरगचारणाः ।
मृत्युभीताश्च पुरुषा जन्मदुःखैस्तथार्दिताः ॥ 8.167.६० ॥
तदायतनमासाद्य कामानापुर्यथेप्सितान्३० ।
तं दृष्ट्वा मनुजो व्याप्त राजसूयफलं लभेत् ॥६१ ॥
गङ्गाद्वारे शुभद्वारे महापुण्ये महात्मना ।
दक्षेण स्थापितं लिङ्गं भक्तिहेतोः कपर्दिनः ॥६२॥
वृक्षाः कनखला नाम यत्रासन् कनकात्मकाः ।
मानुषाणामशीलत्वात् संवृक्णा३१ दारवो३२ बभुः ॥६३ ॥
विश्वात्मा यत्र विश्वेशः शम्भुरम्बिकया सह ।
बहुरूपेश्वरो नाम्ना नैकप्राणिवरप्रदः ॥६४॥
मानवा यन्न पश्यन्ति जन्म चेष(?) मुमुक्षवः ।
वाजिमेधं दशगुणं यं दृष्टवा प्राप्नुते नरः ॥६५॥
कामानाप्नुर्यथेप्सितानु - क. । ३१ संवृत्ता - क. । ३२ दारवा - क. ख, ।
यं देवविद्याधरसिद्धसङ्घा गन्धर्वयक्षोरगदानवाश्च ।
दृष्ट्वेश्वरं नीलपयोदकण्ठं संसारपङ्के न पुनः पतन्ति । ६६॥
जप्येश्वरमिति ख्यातमन्यदायतनं विभोः३३ ।
यत्र जप्यं पुरा कृत्वा लिङ्गं स्थापितवान् द्विजः ॥६७॥
जप्येश्वरं तदासाद्य३४ प्राणाँस्त्यक्ष्यन्ति ये नराः ।
ते जन्ममरणान्मुक्ता वत्स्यन्ति शिवसद्मनि ॥ ६८॥
अन्यदायतनं व्यास शशिबिम्बार्धमौलिनः ।
महाभैरव इत्येव ख्यातं३५ जगति यन्मुने ॥ ६९॥
यत्र शूलधरो देवः स्वयमेव वृषध्वजः ।
चकार भैरवं रूपं नन्द्युमागणभीषणम् ॥8.167.७० ॥
यद् दृष्टवा३६ हिमवत्पुत्री बभूव भयविह्वला ।
क्रीडाहेतोर्भवो यत्र त्रासयित्वा रिरीन्द्रजाम् ॥७१ ॥
सौम्यरूपोभवद् भूयः सान्त्वयामास शैलजाम् ।
महाभैरव इत्येव तदायतनमुच्यते ॥७२ ॥
भैरवेश्वरमागम्य यः पश्येत पिनाकिनम् ।
मरणं जन्म च३७ व्यास नासौ पुनरवाप्नुयात् ॥७३ ॥
यदेवाश्रमिणां पुण्यं तथेशव्रतचारिणाम् ।
तत्फलं भैरवं दृष्ट्वा प्राप्नोति नरपुङ्गवः३८ ॥७४॥
कुम्भकारेश्वरं३९ चैव तथैवोत्कुटुकेश्वरम्४० ।
छगलण्डेश्वरं४१ चैव महाभैरवजं स्थलम्४२ ॥७५॥
दृष्टैरेभिस्त्रिभिः स्थानैस्त्रिलोकाधिपतिर्भवेत् ।
रुद्रकोटीति४३ चाप्यन्यच्छिवायतनमुच्यते ॥७६॥
रुद्रकोटीत्रयं जप्त्वा तत्र नन्दी वरोत्तमान् ।
अवाप शङ्कराद् व्यास गणेशत्वं तथोत्तमम् ॥७७॥
विभो - क । ३४ तमासाद्य - क । ३५ ख्यातिं - क । ३६ यन्दृष्ट्वा - क. ३७ वा - क । ३८ भगपुङ्गवः (?) - क । ३९ कुम्भकारेश्वरे - ख. । ४० ..कुटुकेश्वर. - क, … कुटुकेश्वरे (?) । ४१ छगलण्डश्वरे - क,.. रं - ख. । ४२ फलम् - क, । ४३.. भि - क. ।
यैस्तदायतनं दृष्टं ते यान्ति परमां गतिम् ।
देवदारुवने चापि भवस्यायतनं वरम् ॥७८॥
देवदारुवनैश्छन्नं सरलैश्च सुगन्धिभिः ।
सदा संसेवितं तद्धि गन्धर्वोरगकिन्नरैः ॥७९ ॥
यत्र वैखानसा विप्राः शिवभक्तिपरायणाः ।
भास्करानलसङ्काशा निवसन्ति तपोधनाः ॥8.167.८० ॥
भिक्षाहेतोर्वनं तत्तु४४ प्राविशत् किल शूलधृक् ।
स दृष्टस्तत्र४५ देवेशो मुनिभिः स्तब्धमेहनः ॥८१ ॥
ईर्ष्यया मुनिभिर्लिङ्गं तस्य देवस्य तन्महत् ।
विमूढैः पातितं व्यास देवदारुवनाश्रमे ॥८२॥
तस्मिन् निपतिते४६ लिङ्गे लिङ्गहीनमभूज्जगत् ।
स्थावरं जङ्गमं चैव बभौ सर्वं नपुंसकम् ॥८३ ॥
ब्रह्मादयस्ततो देवास्ते च सिद्धा मुमुक्षवः ।
ज्ञात्वा शङ्करजं सर्वं तदपायं सुदारुणम् ॥ ८४॥
संस्तुत्य विविधैः स्तोत्रैः शङ्करं पर्यतोषयन् ।
ततस्तदभवल्लिङ्गं यथापूर्वं पिनाकिनः ॥८५॥
जगतश्च ततः४७ पुंस्त्वं तत्क्षणात् समपद्यत ।
तत्र तैः स्थापितं लिङ्गं परमेशस्य भक्तितः ॥८६॥
तद् दृष्टवा४८ वाजिमेधानां दशानां प्राप्नुते फलम् ।
एवं४९ दारुवनं५० पुण्यमीशस्यास्ते महामुने५१ ॥८७॥
अभिगम्य नराः क्षिप्रं मुच्यन्ते सर्वपातकैः ।
दधीचेन महद्दिव्यं पुण्यमायतनं कृतम् ॥८८॥
स्थानेश्वरमिति ख्यातं त्रिषु लोकेषु५२ विश्रुतम् ।
नरः स्थानेश्वरं प्राप्य यस्त्यजेदात्मनस्तनुम् ॥८९॥
तत्र - क. । ४५ अदृष्टस्तत्र - क, सन्दृष्टस्तत्र(?) । ४६ हि पतिते (?) । ४७ पुनः - ख । ४८ तन्दृष्ट्वा - क ख, । ४९ देव - ख. । ५० दारुवणं - क । ५१ स - क, .. मीशस्य सुमहामुने - ख., महात्मनः - ख. । ५२ लोकेषु त्रिषु - ख. ।
योगैश्वर्यमनुप्राप्य स्वर्गलोके स मोदते५३ ।
तक्षकेन भुजङ्गेन दृढभक्तेन५४ शङ्करे५५ ॥8.167.९० ॥
तक्षकेश्वरमित्येवं स्थापितं जाह्नवीतटे ।
देवदेवस्य रुद्रस्य यत्र सान्निध्यमुत्तमम् ॥९१ ॥
तन्दृष्टत्वा पुरुषो देवमश्वमेधफलं लभेत् ।
अगस्त्येन कृतं चान्यत् पुण्यमायतनं महत् ॥९२ ॥
आम्रातेश्वरमित्येव ख्यातं जगति सुव्रत ।
दृष्ट्वा परमया भक्त्या पुरुषस्तं शुचिव्रतः ॥९३॥
देहभेदमनुप्राप्य शर्वलोकमवाप्नुयात् ।
गिरौ कालञ्जरे लिङ्गं दृष्ट्वा स्थानमुमापतेः ॥ ९४॥
अश्वमेधफलं प्राप्य रुद्रलोकमवाप्नुयात् ।
पुष्पभद्रमिति ख्यातं विन्ध्यप्रस्थे द्रुमावृतम् ॥९५॥
भवस्यायतनं पुण्यं देवगन्धर्वसेवितम् ।
यत्तद्रावणपुत्रेण मेघनादेन रक्षसा ।
स्थापितं तोषयानेन सर्वभूतपतिं भवम् ॥९६॥
यत्र मन्दोदरीपुत्रः स्थाणुना शशिमौलिना ।
मायारथप्रदानेन कृतः प्राप्तमनोरथः ॥९७॥
तद,५६ दृष्टवा तत्र गत्वा५७ च प्रणम्य च जगत्पतिम्५८ ।
पुरुषाः स्वर्गमायान्ति दिव्ययोगसमन्विताः ॥९८॥
अन्ध्रेष्वायतनं चान्यच्छर्वस्य परमात्मनः ।
नाम्ना चित्ररथं नाम योगसिद्धिवरप्रदम् ॥९९॥
त्रिपुरस्य वधे यत्र रथो देवस्य धीमतः ।
अमरैश्चित्रितो५९ व्यास सोमादित्ययमादिभिः ॥ 8.167.१०० ॥
सम्यगिष्टे तु६० यत् प्रोक्तमश्वमेधे फलं६१ बुधैः ।
तच्चित्ररथमासाद्य फलं प्राप्नोति६२ मानवः ॥१०१ ॥
मोदति - ख. । ५४ दृढ भक्तेन - क. । ५५ शङ्कर - क. ख. । ५६ तं - क. । ५७ चाभिगत्वा - ख. । ५८ जगतः पतिम् - ख. । ५९ …श्चिन्तितो - ख. । ६० सम्यगिष्टेषु - ख. । ६१. अश्वमेधफलं - क. । ६२ लभति - क. ।
अन्यदुक्तरथं नाम भवस्यायतनं शुभम् ।
सुरकिन्नरगन्धर्वैः सदा संसेवितं शुभम् ॥ १०२ ॥
तत्र श्रीपर्वतो६३ नाम पर्वतः श्रीनिकेतनः ।
सिद्धामरशताकीर्ण्णं सिद्धिक्षेत्रं६४ तदुत्तमम् ॥ १०३ ॥
शूलिनो यत्र लिङ्गानां पुण्यानां वरदायिनाम् ।
सहस्रं स्थापितं व्यास शिलादेन महात्मना ॥१०४॥
ये पश्यन्ति तमीशानं श्रीपर्वतनिवासिनम् ॥
जन्ममृत्युभयं तेषां नास्ति पुंसां कदाचन ॥ १०५॥
अनेनैव शरीरेण तस्मिन् क्षेत्रे भवात्मके ।
योगाभ्यासपरा विप्राः सिद्धिं यान्ति यथेप्सिताम् ॥ १०६ ॥
मनसाप्यभिगच्छन्ति ये नराः श्रीगिरिं मुने ।
न ते यान्ति यमावासं मृत्यावपि समागते ॥ १०७ ॥
ततश्चोत्तरगोकर्णं हरलिङ्गाङ्किताश्रमम्६६ ।
तप्तं यत्र तपस्तीव्रं राक्षसैः पिशिताशनैः ॥१०८॥
रावणाद्यैर्महाभागैर्लब्धश्च६७ वर ईप्सितः६८ ।
पुरा यत्र तपः कृत्वा प्रसाद्य च पिनाकिनम् ॥ १०९॥
त्रैलोक्ये चक्रवर्तित्वं रावणस्समवाप्तवान् ।
अश्वमेधं दशगुणं तद्६९ दृष्टवा लभते नरः ॥ 8.167.११० ॥
मृतश्च रुद्रसायुज्यं गच्छत्यत्र न ७० संशयः ।
ततो दक्षिणगोकर्णं स्थानं पुण्यं पिनाकिनः ॥१११ ॥
स्पृक्कया जातया यत्र७१ लङ्कामलयसानुषु ।
अर्च्यते भगवान्देवः सर्वामरवरेश्वरः ॥ ११२ ॥
एको७२ राक्षसशार्दूलो यत्राद्यापि विभीषणः ।
समभ्यर्च्यामरेशानं भुङ्क्ते राज्यमशङ्कितः७३ ॥ ११३ ॥
श्रीपर्वतं - क. । ६४ सिद्धक्षेत्रं - ख. । ६५ भवात्मिके - क. । ६६. श्रयम् - ख. । ६७ महाभाग लब्धश्च (?) । ६८ ईप्सितम् - क. । ६९ तं - क. ख । ७० गच्छते नात्र - क. ख. । ७१ तत्र - क.। ७२ एक - क. । ७३ .मशङ्कितम् - क. ।
मानवा येभिगच्छन्ति गोकर्णायतनाश्रमम् ।
दशानामश्वमेधानां प्राप्नुवन्ति फलं शुभम् ॥११४॥
हरिश्चन्द्र इति ख्यातो गिरिर्नैकविनिर्झरः ।
जामदग्न्येन रामेण यस्मिन्नायतनं७४ कृतम् ॥११५ ॥
यत्र देवाश्च सिद्धाश्च यक्षगुह्यककिन्नराः ।
व्रतिनो योगिनश्चैव नेमिरे७५ वृषभध्वजम् ॥११६ ॥
हरिश्चन्द्रगिरे शृङ्गमाकूटं यैर्निरीक्षितम् ।
न ते वसन्ति मर्त्येषु देवा भूत्वा पुनर्मुने ॥ ११७॥
उत्तरे नर्मदातीरे योजनैकपथान्तरे७६ ।
कारोहणमिति स्थानं त्रिनेत्रायतनं महत् ॥ ११८॥
यत्र काकां७७ तपस्यन्तीमारुरोह प्रजापतिः ।
आरुरोह यतः काकां७८ तस्मिन् देशे प्रजापतिः ॥ ११९॥
तस्मात् कारोहणो७९ नाम्ना८० स देशः परिकीर्तितः ।
तस्मिन् देशेवतीर्णश्च भगवान् वृषभध्वजः ॥ 8.167.१२० ॥
पुण्योसौ सर्वदेशेभ्यो देशो येन निबोध तम्८१ ।
क्षीणे कृतयुगे व्यास त्रेतायुगमुखोदये ॥ १२१ ॥
तस्मिन् पादं मुमोचैकं धर्मोधर्मनिपीडितः ।
द्वितीयं द्वापरे प्राप्त तृतीयं च कलौ युगे ॥१२२॥
चतुर्थेनावतस्थे च यतः स भगवान् प्रभुः ।
एवं स धर्मसंवासाद्८२ देशः पुण्यतमः स्मृतः ॥ १२३ ॥
भारभूतिस्त्वसौ भूत्वा तस्मिन्देशे पिनाकधृक् ।
भारान्८३ बद्ध्वा द्विजातीनां नर्मदायां विचिक्षिपे ॥ १२४॥
कारुण्येन महादेवो मर्त्त्यजन्ममुमुक्षया ।
त्रेतायां दिण्डिमुण्डश्च शिरांसि विनिकृत्तवान् ॥ १२५॥
न्नारायणं - ख. । ७५ मेनिरे - ख. । ७६ द्वियोजनपथान्तरे - ख. । ७७ कः का - क । ७८ कान्तां - क । ७१ कारोहणं - ख. । ८० नाम - क. ख. । ८१ तत् - (?) । ८२ धर्मसंवासो - ख.।
द्वापरे चाषढिर्भूत्वा८४ नृत्तेनानुगृहीतवान् ।
एवं प्रतियुगं व्यास तस्मिन्देशे शिवः स्वयम् ॥१२६॥
अवतीर्णश्चानुगृह्य८५ ब्राह्मणान् शुद्धमानसान् ।
तेषामायतनानि स्म सर्वेषामेव८६ सुव्रत ॥ १२७॥
येन दृष्टानि देवस्य ईशान८७लोकमाप्नुयात् ।
वर्तमाने कलौ चापि ज्ञात्वा दुःखार्दितं जगत्८८ ॥ १२८॥
चतुरः८९ पुरुषान् सृष्ट्वा९० स्वस्मान्मुखचतुष्टयात् ।
प्रोवाच परमेशानो लोकानुग्रहलिप्सया९१ ॥ १२९॥
यूयं यात महीं सर्वे द्विजा भूत्वा तपस्विनः ।
मामेवैष्यथ योगोशा नीत्वा विप्रान् परं पदम् ॥ 8.167.१३० ॥
ते तथोक्त्वा ततो९२ व्यास सम्बभूवुः पृथक् पृथक् ।
मानुषेषु९३ तदा विप्रा मोक्षधर्मपरायणाः ॥१३१ ॥
उज्जयिन्यां९४ गुरुज्येष्ठः कौशिको नाम नामतः ।
द्वितीयो गार्ग्य इत्येव९५ जम्बूमार्गे सतापनः (?) ॥१३२॥
तृतीयश्चाभवन्मित्रो मथुरायां महामनाः९६ ।
ब्रह्मचारी चतुर्थस्तु कुरुष्वेव सुगोत्रजः ॥ १३३ ॥
भगवानपि देवेशो ह्यमरेश्वरसंयुतः९७ ।
अत्रिवंशप्रसूतस्य नाम्ना वै सोमशर्मणः ॥ १३४॥
रूपं कृत्वा सिताङ्गं तु जगामात्रेर्गृहं९८ शुभम् ।
स तं ब्रह्मविदं विप्रमात्रेयं सकुलं विभुः ॥ १३५॥
योगसिद्धिप्रदानेन अनुजग्राह शङ्करः ।
अनुगृह्य तदा व्यास सकुलं द्विजसत्तमम्९९ ॥ १३६॥
जगामोज्जयिनीं देवः श्मशानं च विवेश ह ।
स तत्र भस्मनात्मानमवगुण्ठ्य१०० वृषध्वजः ॥१३७॥
भूत्वाषाढिर्द्वापरे च (?) । ८५ मनुगृह्य - क । ८६ तानि चायतनानीह सर्वाण्येव (?) । ८७ ऐशानं(?) । ८८ जनं (?) । ८९ चत्वारः - क. ख. । ९० दृष्टवा - ख. । ९१ काङ्क्षया (?) । ९२ तथोक्तास्तथा - क. ख. । ९३ तु - क. । ९४ उज्जयन्याम्, उज्जयनी - क । ९५ इत्येवं - ख । ९६ महात्मना - क. ख. । ९७ देवेशममरेश्वरसंयुतः - क. ख. । ९८ जगामत्रिगृहं - ख । ९९ द्विजसत्तमः - क. । १०० भष्मासात्मा- नमवगुण्ठ्य - क ख. ।
उल्मुकं वामहस्तेन गृहीत्वा समुपाविशत् ।
तत्र प्रथममादाय शिष्यं कौशिकमीश्वरः ॥१३८॥
जम्बूमार्गे द्वितीयं च मथुरायां ततोपरम् ।
कान्यकुब्जे ततश्चान्यमनुगृह्य जगत्पतिः ॥ १३९॥
स्वसिद्धान्तं ददौ योगमुवाचेदं च लाकुली१०१ ।
रहस्यं परमं हीदं१०२ पञ्चार्थं इति सञ्ज्ञितम्१०३ ॥ 8.167.१४० ॥
विप्रान्मोचयितुं दत्तो युष्मभ्यं मर्त्त्यबन्धनात् ।
अनया दीक्षया विप्रान् प्रापयध्वं परं पदम् ॥ १४१ ॥
नदीतीरेषु मेध्येषु पुण्येष्वायतनेषु च ।
शून्यागारेष्वरण्येषु वासो वः सङ्गवर्जितः ॥ १४२॥
वचो भगवतः श्रुत्वा शिष्याः पशुपतेः स्वयम् ।
यथाज्ञप्तमकुर्वन्त१०४ सर्वे ते भवतेजसः ॥ १४३ ॥
धर्मपादाङ्किते देशे अवतीर्णो यतो भवः ।
स देशः परमस्तस्मान्महापुण्यतमः स्मृतः ॥१४४॥
आश्रमो योगिनां यत्र प्रवृत्तः पापनाशनः ।
अष्टायतनमित्येवं स्थानमत्र१०५ महात्मनः ॥१४५॥
यद्१०६ दृष्टवा मनुजा व्यास प्राप्नुवन्ति परं पदम् ।
कारोहणं शिवस्थानं येभिगच्छन्ति मानवाः ॥ १४६॥
गर्भशय्याभयं तेषां न भवेन्मुनिसत्तम ।
महीनर्मदयोर्मध्यं सह्यस्य च यदन्तरम् ॥१४७॥
एतत्पशुपतेः क्षेत्रं पुराणमृषिभिः स्तुतम्१०७ ।
तदागत्य नरो व्यास यद्यपि स्यात् सुपापकृत् ।
सर्वपापविनिर्मुक्तो१०८ यथेष्टां१०९ प्राप्नुयाद् गतिम् ॥ १४८॥
लागडिः - ख. । १०२ लीनं - ख. । १०३ सञ्ज्ञितः - ख । १०४ यथाज्ञाप्तमकुर्वन्त - क. ख. । १०५ स्थानं तत्र - ख. । १०६ यं - क. । १०७ ऋषिभिष्टुतं - ख. । १०८ विमुक्तात्मा - ख., विमुक्तोसौ - ख.। १०९ यथेष्टं - क. ।
कारोहणं स्थानमतीव पुण्यं शैवानि११० यत्रायतनानि धीमन्१११ ।
गत्वा नरास्तानि महाफलानि संसारगेहं न पुनर्विशन्ति ॥ १४९॥
पुण्यमायतनं चान्यत् सप्तलोकाभिवन्दितम्११२ ।
वाराणस्या११३ मुनिश्रेष्ठ यत्र सन्निहितो हरः ॥ 8.167.१५० ॥
तत्र भागीरथी पुण्या उत्तरां भजते दिशम् ।
सिद्धिक्षेत्रं११४ बृहत्क्षेत्रं लोकेषु त्रिषु विश्रुतम् ॥१५१॥
अविमुक्तं स्मृतं नाम्ना न विमुक्तं हरेण तु ।
अविमुक्तेश्वरं दृष्ट्वा देवं तत्र ह्युमापतिम्११५ ॥१५२॥
गाणपत्या गतिः प्रोक्ता मृत्युकाले महामुने ।
यत्रास्ते गणपो द्वारि विद्युत्केशो महाबलः ॥१५३ ॥
दण्डपाणिर्महातेजाः समादेशात् स्वयम्भुवः ।
तमदृष्टवा न पश्यन्ति देवदेवेश्वरं हरम् ॥१५४॥
योगिनोपि महात्मानः पुण्यं तस्यापि दर्शनम् ।
दण्डपाणिं शुचिर्दृष्ट्वा११६ हरदत्तवरं११७ गणम् ॥१५५॥
इह लोके सुखं प्राप्य यान्ति११८ तस्य सलोकताम् ।
यत्र सिद्धा महात्मानो योगैश्वर्यबलान्विताः ॥ १५६॥
छन्नाः प्रदक्षिणं कृत्वा प्रणमन्ति स्वयम्भुवम् ।
शक्रः पितामहो विष्णुर्धनेशो वरुणो यमः ॥ १५७॥
हुतभुक् पवनः सोमः स्वयं चैव दिवाकरः ।
तथा सप्तर्षयः सिद्धा गन्धर्वाः पन्नगास्तथा ॥१५८॥
अविमुक्तेश्वरं देवमर्चयन्ति यतव्रताः ।
ततः पुण्यतमं नास्ति सिद्धिक्षेत्रमिति श्रुतिः ॥ १५९॥
यत्र जन्तोर्विपन्नस्य मुक्तिः संसारबन्धनात् ।
प्रसादाज्जायते शम्भोर्गुह्यमेतत परं स्मृतम् ॥ 8.167.१६० ॥
गङ्गा११९ दक्षिणतस्तस्मिन्नुत्तरेण वराणसी१२० ।
तत्तयो१२१र्मध्यतः१२२ क्षेत्रमविमुक्तं पिनाकिनः ॥१६१॥
शैलानि - क., शैलाय - ख । १११ धीमान् - क. ख. । ११२.. नन्दितम् - ख । ११३ वारणसी(?) । ११४ सिद्धक्षेत्रं - ख. । ११५ तत्र देवमुमापतिम् - ख. । ११६ न्दृष्ट्वा - क. ख । ११७ हरदण्डधरं - ख. । ११८ याति - ख । ११९ गङ्गा (?) । १२० वराणमी (?) । १२१ तयोः (?), तद्वयोः (?) । १२२ र्मम तत् - क ।
लिङ्गे यत् स्थापिते शम्भोः प्राप्यते१२३ फलमन्यतः ।
तत् सहस्रगुणं प्रोक्तमविमुक्ते निवेशिते ॥ १६२ ॥
स्थापयेद्विधिना योषा१२४ पुमान्वा विधिपूर्वकम् ।
सहस्रं स्थापितं तेन लिङ्गानां भवति प्रभोः ॥ १६३ ॥
त्र्यक्षः स गणपो भूत्वा रुद्रसायुज्यतां व्रजेत् ।
अतः कृत्वा मुनिश्रेष्ठ ब्रह्मादित्यपुरस्सरैः ।
लिङ्गानि स्थापितानि स्म सर्वैस्तत्र सुरोत्तमैः ॥१६४॥
तस्मिन् भगवतः क्षेत्रे काशिपुर्यामनेकशः ।
दृश्यन्तेद्यापि१२५ लिङ्गानि स्थापितानि महात्मभिः ॥१६५॥
स्मरणादविमुक्तस्य पृथिव्यन्तेपि१२६ संस्थितः ।
कल्मषैर्मुच्यते जन्तुर्मृतश्च लभते सुखम्१२७ ॥१६६॥
ब्राह्मणास्तत्र मुञ्चन्ति वेदतत्त्वार्थवेदिनः ।
सिद्धाः पाशुपता ये च१२८ भवबन्धमुमुक्षवः ॥ १६७॥
प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम्१२९ ।
पुनर्निष्क्रान्तुमन्यत्र कस्य जन्तोर्मतिर्भवेत् ॥ १६८ ॥
वेदेषु गीयते व्यास तत् क्षेत्रं शशिमौलिनः ।
देहिनस्त्यजतः प्राणान् मोक्षसिद्धिगतिप्रदम् ॥ त६९॥
येविमुक्ते वसन्ति स्म नरा रुद्रपरायणाः ।
रुद्रस्य भवने व्यास ते वसन्ति न संशयः ॥ 8.167.१७० ॥
तिष्ठन् गच्छन् स्वपन् भुञ्जन्१३० कर्म कुर्वन् हसन्नपि ।
योविमुक्तं स्मरेद्देही तस्य जन्मभयं कुतः ॥१७१ ॥
नाविमुक्तात् परं क्षेत्रं नाविमुक्तात्परं पदम ।
नाविमुक्तात्परं पुण्यं नाविमुक्तात्परा गतिः१३१ ॥ १७२ ॥
या गतिर्ध्यायतो१३२ नित्यं परे ब्रह्मणि लीयत१३३ ।
सैव सन्त्यजतः प्राणानविमुक्ते स्मृता१३४ गतिः ॥१७३ ॥
प्राप्स्यते - ख. । १२४ यो वा - क ख. । १२५ दृश्यन्त्यापि - क ख । १२६ पृथिव्यान्तेपि - ख. । १२७ शिवम् (?) । १५८ तु - ख. । १२९ सिद्धक्षेत्रमनुत्तमम् - ख. । १३० जाग्रन् - ख । १३१ परां गतिम् - ख. । १३२ या गतिर्ध्यानतो - ख. । १३३ लीयते - क. ख. । १३४ ऽमृता - क ख. ।
पुण्यमुमापतेः सुरवृषैर्जुष्टं सदा सिद्धये
बह्माद्यैरविमुक्तमेतदिति यत् संसेवितं शान्तये ।
ये सेवन्ति तदीशभक्तिपरमा१३५ मर्त्याः शमप्राप्तये
मुक्तास्ते भवसम्भवप्रतिभयाद्१३६ गच्छन्ति मोक्षं परम् ॥१७४॥
प्रयागे च तपःक्षेत्रे देवस्यायतनं महत् ।
तद्१३७ दृष्ट्वा मनुजः सम्यगिष्टां गतिमवाप्नुयात् ॥१७५॥
नैमिशे देवदेवस्य१३८ रुद्रस्यायतनं महत् ।
दृष्ट्वा पापविनिर्मुक्तः१३९ स्वर्गलोकमवाप्नुयात् ॥ १७६॥
धर्मक्षेत्रे कुरुक्षेत्रे स्थानं योगेश्वरं महत्
तेन दृष्टेन विप्रेन्द्र गाणपत्यमवाप्नुयात् ॥१७७॥
रुद्रलोकं मृतश्चासौ प्राप्नुयात् सर्वकामिकम् ।
गयायामन्यदीशस्य स्थानं भगवतः शुभम् ॥१७८॥
गध्रकूटेश्वरं नाम्ना सर्वपापविमोचनम ।
न तं दृष्ट्वा विमुह्यन्ति मृत्युकाले नरोत्तमाः ॥ १७९॥
तत्र भस्म समालभ्य सर्वपापैः प्रमुच्यते ।
द्वादशाब्दवतस्यापि द्विजः फलमवाप्नुयात् ॥ 8.167.१८० ॥
अन्यदायतनं पुण्यं मगधामु१४० पिनाकिनः ।
नगरे पाटलीपुत्रे नाम्ना प्रहसितेश्वरम् ॥ १८१ ॥
वाजिमेधमवाप्नोति१४१ अभिगम्य तमीश्वरम् ।
मगधासु स्मृतान्यष्टौ स्थानानि शशिमौलिनः॥ १८२ ॥
शिष्यैः परिवृतो यानि बभ्राम नकुलीश्वरः१४२ ।
यानि१४३ दृष्टवा भवेत्सद्यः पुमान् पापविवर्जितः ॥१८३ ॥
यवनेषु स्मृतं स्थानं पुण्यमन्यदुमापतेः ।
त्रिपिष्टपमवाप्नोति१४४ तन्दृष्ट्वा मानवः प्रभुम् ॥१८४॥
भक्तिपरया - क । १३६ भवसागरप्रतिभयाद् (?) । १३७ तत् - क. ख । १३८ देवदेवेशं - क. ख. । १३९ पापैर्विनिर्मुक्तः - ख. । १४० मगधेषु (?) । १४१. .सहस्राणि - ख. । १४२ लगुडीश्वरः - ख. । १४३ तानि - ख. । १४४ त्रिविष्टपमवाप्नोति - ख. ।
अङ्गदेशे परं पुण्यं स्थानं प्रोक्तं पिनाकिनः ।
हेमचूडेश्वरं नाम्ना तं दृष्ट्वा न विमुह्यति१४५ ॥ १८५॥
भागीरथ्यास्ततो१४६ व्यास सागरस्य च सङ्गमे ।
ब्रह्मणा स्थापितं लिङ्गं पुण्यं तत्र१४७ पिनाकिनः ॥ १८६ ॥
तस्याभिगमनादेव सर्वपापैः प्रमुच्यते ।
दशानामश्वमेधानां तं दृष्ट्वा प्राप्नुते फलम् ॥ १८७॥
प्रभासे शूलिनं दृष्ट्वा देहभेदे गणो भवेत् ।
पुष्करे शङ्करं दृष्ट्वा न शोचेन्मृत्युजन्मनी१४८ ॥१८८॥
महेन्द्रे च नगश्रेष्ठे रुद्रस्यायतनं शुभम् ।
अभिगम्य नरो विद्वानश्वमेधफलं लभेत् ॥१८९॥
महाकालेश्वरं देवमुज्जयिन्यां१४९ महाव्रतः ।
अभिगम्याप्नुयाद्विद्वान् गणत्वं त्रिपुरद्विषः ॥ 8.167.१९० ॥
द्रिमिचण्डेश्वरं देवं दृष्ट्वा त्रायति मानवः ।
कुलान्युभयतः१५० सप्त सर्वयज्ञानि१५१ चाप्नुते ॥१९१ ॥
शङ्कुकर्णेश्वरं दृष्ट्वा न शोचेन्मरणं नरः ।
तथा हिमगिरेः शृङ्गे सिद्धकिन्नरसेविते ॥१९२ ॥
डिङ्गेश्वरमिति ख्यातं रुद्रस्यायतनं महत् ।
अभिगम्य च दृष्टवा च तं देवं जगतः प्रभुम् ॥१९३ ॥
शिवभक्तिपरो व्यास सर्वकामानवाप्नुयात्१५२ ।
मृतस्य च गतिः प्रोक्ता गाणपत्यं महात्मनः ॥१९४॥
सुवर्णाक्षे परं स्थानं देवदेवस्य संस्मृतम् ।
तद् दृष्टवा१५३ मनुजो व्यास१५४ राजसूयफलं लभेत् ॥ १९५॥
सप्तगोदावरे स्थानं दृष्ट्वा पुण्यं कपर्दिनः१५५ ।
अश्वमेधफलं प्राप्य स्वर्गलोके वसेन्नरः ॥ १९६॥
- न्न विमुच्यति - ख. । १४६ न्ततो ख. । १४७ तस्य पुण्यं - ख. । १४८ मृत्युजन्मनि - क. ख. । १४९ …मुज्जयन्यां - क. ख. । १५० कुलानुभयतः - क. ख., कुलानुभयजान् - क. ख.। १५१ सर्वयज्ञान्स - ( ?) । १५२ सर्वकाममवाप्नुयात् - ख. । १५३ तं दृष्ट्वा - क. । १५४ भक्त्या - क. । १५१ कपार्दिनं - क. ख. ।
स्थानं पुण्यतमं चान्यच्छ्रेष्टं जगति कीर्तितम् ।
नाम्ना भद्रेश्वरं ख्यातं देवगन्धर्वसेवितम् ॥ १९७॥
तं वीक्ष्य मानवो व्यास सर्वयज्ञफलं लभेत् ।
जन्मप्रभृति यत्किञ्चित् कृतं कर्माशुभं१५६ महत् ॥ १९८॥
तत्क्षणान्नश्यते सर्वं दृष्ट्वा भद्रेश्वरं१५७ हरम् ।
यत्र तत्र मृतश्चापि गाणपत्यं लभेन्नरः ॥ १९९॥
धन्यास्ते मानवा व्यास रुद्रभक्ता महौजसः ।
ये प्रपश्यन्ति भद्रेशं जन्ममृत्युभयापहम्१५८ ॥8.167.२०० ॥
एकाम्रे च विभोः स्थानं दृष्ट्वा स्वर्गमवाप्नुयात् ।
विरजायां हरं दृष्ट्वा वाजिमेधमवाप्नुयात् ॥ २०१ ॥
नेपालेषु च देवेशं दृष्ट्वा पशुपतिं प्रभुम् ।
दशाश्वमेधानाप्नोति१५९ रुद्रलोकं च गच्छति ॥२०२ ॥
देहभेदं च सम्प्राप्य पशुत्वाद्विप्रमुच्यते१६० ।
अन्यद्धिमगिरौ स्थानं नैकतुङ्गाधिपेश्वरम् ॥ २०३ ॥
दृष्ट्वा तन्न पुनर्मर्त्त्यो१६१ जायते मुनिसत्तम ।
भक्तानां प्रणतानाञ्च सर्वकामप्रदं स्मृतम् ॥२०४॥
एवमेतानि पुण्यानि रुद्रस्यायतनानि ते ।
कथितानि मया व्यास यैर्गतिः प्राप्यते शुभा ॥ २०५॥
य एतानि पठेद्विप्रः प्रयतात्मा दिने दिने ।
तस्य सायुज्यतां देवो ददाति वृषभध्वजः ॥२०६॥
मङ्गल्यं परमं पुण्यं मेध्यं सर्वभयापहम् ।
स्थानानां कीर्तनं शम्भोर्नित्यं कुर्याच्छुचिर्नरः ॥२०७॥
कर्म शुभं - ख. । १५७ भद्रेश्वरे (?) । १५८ भयावहम् - क. । १५९ दशाश्वमेधान्प्राप्नोति - क. टि. । १६० पशुपत्वाद्विमुच्यते - क. । १६१ तन्दृष्ट्वा न पुनर्मर्त्यो - ख. ।
इति गिरिवरपुत्रीविष्णुगङ्गाधरस्य१६२
जगति वसतिरेषा सर्वकामप्रदा ते ।
मुनिवरसुतशिष्टा१६३ पापसंशुद्धिकर्त्री१६४
वद किमपरमन्यद् व्यास तुभ्यं वदानि१६५ ॥२०८॥
इति स्कन्दपुराणे शिवायतनवर्णने१६६ सप्तषष्ट्युत्तरशततमोध्यायः१६७