व्यास उवाच
भगवन् सर्वधर्मज्ञ महायोगबलान्वित ।
श्रुतमेतन्मया कृत्स्नं स्कन्दस्य चरितं महत् ॥१ ॥
त्वत्तः परमयोगेश गुह्यं भगवतः परम् ।
ततः१ परं स देवेशस्त्रिपुरारिर्वृषध्वजः ॥ २ ॥
सम्प्रेष्य सहितं देवैर्महासेनापतिं गुहम् ।
सन्न्यस्य२ देवताः स्कन्दे किमन्यदकरोत् प्रभुः ॥३ ॥
क्व जगाम च देवेशः किमुवाचाचलात्मजा३ ।
कानि चैनमुमा४ प्राह शंसैतत् पृच्छतो मम ॥४॥
सूत उवाच
व्यासेनैवं तदा पृष्ट आख्यातुमुपचक्रमे ।
सर्वागमपरार्थज्ञो५ ब्रह्मसूनुर्महातपाः ॥५॥
सनत्कुमार उवाच
सन्न्यस्य षण्मुखे देवान् देवदेवो भवस्तदा ।
जगाम सहितो देव्या मन्दरं हेमकन्दरम् ॥ ६ ॥
त तस्थावासने६ तत्र हैमे महति सुप्रभे ।
नानारत्नसमाकीर्णे हेमशृङ्ग इवोच्छ्रिते ॥७॥
तस्य पार्श्वे स्थिता देवी रराज हिमवत्सुता ।
व्यभ्रे वियति पूर्णेन्दो रोहिणीव समीपगा ॥८॥
प्रतिययुर्.. - क. । ५१२०० (२१६) - ख. पु ।
अतः - क. । २ स न्यस्य - क. ख । ३. .लात्मजा - क. । ४ चैवमुमा - क. । ५ सर्वागमपरो- र्थज्ञो - क. । ६ सदा वै (स तदा ) वसते - क, सेमस्थानुसते (?) - ख. ।
सोवाच परमेशानं प्रणम्य गिरिजा तदा ।
सहधर्मचरी यस्मात् प्रिया चाहमतीव ते ॥९॥
पूर्वप्रणयलब्धा च तेन पृच्छाम्यशङ्किता ।
पावनानि पवित्राणि नामानि तव कामद ॥ 8.166.१० ॥
सार्थानि श्रोतुमिच्छामि कथितानि त्वया विभो ।
एवं पृष्टस्तदा गौर्या प्राह सर्वं सुराधिपः ॥ ११ ॥
सर्वयज्ञफलैस्तुल्यं नाम्नामर्थप्रबोधनम् ।
मम देवि परं गुह्यं ब्रह्माद्या यद्विजानते ॥ १२॥
तत् प्रवक्ष्यामि ते देवि येन देवत्वमाप्यते ।
रुजः सर्वगतो८ यस्माद् द्रावयामि जगत्यहम् ॥१३ ॥
रोदनं हन्मि यस्माच्च रुद्रस्तस्मादहं प्रिये ।
संहरामि जगत् कृत्स्नमन्तकाले यतो ह्यहम् ॥१४॥
मृत्युहर्त्ता यतश्चापि हरस्तेन९ प्रकीर्त्तितः ।
पुरं शरीरमाख्यातं सर्वेषां प्राणिनामिह ॥ १५॥
सर्वप्राणिगतं यस्मात् तत्पुरं शयनं मम ।
तस्मात् पुरुष इत्येव मम नाम महर्द्धिमत् ॥ १६॥
कदाचिन्नैव जातोहं न च मे जन्म यत्१० क्वचित् ।
अजस्ततोहमीशानि सर्वदैव११ प्रकीर्त्तितः ॥१७॥
अभावं मयि गत्वा तु जगत् स्थावरजङ्गमम् ।
पुनर्भवति मत्तश्च भवस्तेन निरूपितः१२ ॥१८ ॥
महतामपि देवानामहमेव महान् यतः ।
न च मत्तो महानन्यो महादेवस्ततो ह्यहम् ॥ १९॥
पालयामि पशून् यस्मात् सृजामि च यदृच्छया ।
तेषाञ्च पतिरेवाहं तस्मात् पशुपतिः स्मृतः ॥ 8.166.२० ॥
ईश एवाहमन्येषां१३ न च मामीशते परे१४ ।
नयामि चेशतां भक्तानीशानस्तेन कीर्त्तितः ॥२१ ॥
पूर्वं प्रणयलब्धा - क ख । ८ सर्वगत - ख. । ९ श्चापि हरस्तेन - क. । १० यः - क. । ११ सर्वदेवैः - क ख । १२ विरूपितः - क. ख. । १३ ईशमेवाहमन्येषां - क ख. । १४ परः - क. ख. ।
दिशो हि मम१५ वासांसि सर्वदिक्षु वसाम्यहम् ।
वासश्चाहं दिशां यस्माद् दिग्वासास्तेन संस्मृतः ॥२२॥
भूतानां शङ्करो१६ यस्मात् तेनाहं शङ्करः स्मृतः ।
लोकानां शिबकृद् यस्माच्छिवस्तस्मादहं स्मृतः ॥२३ ॥
नीलं येन ममाङ्गस्य१७ संरक्तं लोहितत्विषम्१८ ।
नीललोहित इत्येव तेनाहं परिकीर्तितः ॥२४॥
शूली शूलेन सम्प्रोक्तो लकुलेन१९ च लाकुली२० ।
रुद्रेति कीर्तिते देवि अग्निष्टोमफलं स्मृतम् ॥२५ ॥
हरेत्यभिहिते चापि गोसवस्य फलं लभेत् ।
भवेति कीर्तिते सद्यः सर्वपापैर्विमुच्यते ॥२६ ॥
पुरुषेति परं सौख्यमजेति च सलोकताम् ।
ईशानेति महैश्वर्यं महादेवेति चाक्षयम् ॥२७ ॥
दिग्वासेति परं मोक्षं शङ्करेति सुखं महत् ।
शिवेति शिवमत्यर्थं शूलीति परमं बलम् ॥२८॥
लाकुलीति२१ परांल्लोकान् कीर्तर्येल्लभते नरः ।
सर्वयज्ञफलानीह कीर्त्तयन्नीललोहितम् ॥२९॥
लभते देवि मद्भक्तो मयि चावासमव्ययम् ।
एवं तत् कथितं व्यास नाम्नामर्थप्रबोधनम् ॥8.166.३० ॥
शूलिना२२ देवदेवेन२३ देव्याः प्रियहितेच्छया ।
किमन्यत् पृच्छसि ब्रह्मन् वद यावद् ब्रवीमि ते ॥३१ ॥
व्यास उवाच
श्वेतजीवप्रदो रुद्र इति पूर्वं त्वया मुने ।
प्रोक्तं परमधर्मज्ञ तन्मे ब्रूहि समासतः ॥ ३२॥
प्रददौ कथमीशानस्तज्जीवं मुनये विभो२४।
किमर्थं क्व च योगेश कश्चासौ श्वेत उच्यते ॥३३ ॥
मम हि - क. । १६ शमकृद् - क. ख. । १७. स्या - क. । १८ लोविताद् विषं - क. । १९ लगुडेन - ख., नकुलेन (?) । २. लागुडीति - ख., नाकुलीति (?) । २१ लागुडीती - ख., नाकुलीति (?) ॥ २२ शूलिनो - ख. । २३ देवदेवस्य - ख. । २४ विभुः - ख. ।
सनत्कुमार उवाच
शृणु वत्स यथा दत्तं पुनर्जन्म पिनाकिना ।
यमेन ह्रियमाणाय२५ श्वेताय विगतायुषे ॥३४॥
आसीद् दर्भध्वजो नाम बृहस्पतिसमो मुनिः ।
सर्वविद्याविनीतात्मा यस्य पुत्रः कुशध्वजः ॥ ३५॥
बभूव सुमहातेजा विश्वामित्र इवापरः ।
प्रियस्तस्याभवत्पुत्रः श्वेतो नाम महाद्युतिः ॥३६॥
तस्य जन्मप्रभृत्येव२६ कुशघ्वजसुतस्य वै ।
छायेवानपगा भक्तिर्बभूव वृषभध्वजे ॥ ३७॥
तिष्ठतो गच्छतश्चापि स्वपतस्तप्यतस्तथा२७ ।
सर्वभावेन देवेशं ध्यायन् तस्थौ महामुनिः ॥ ३८ ॥
अथ कालेन विप्रेन्द्र विपृथुर्नाम दानवः
वव्रे दुहितरं गत्वा श्वेतस्य पितरं बली ॥३९॥
न च तस्मै सुतां प्रादात् तामसौ सुरविद्विषे ।
स तेन निहतो रात्रौ बलाद् दर्भध्वजोपि च२८ ॥8.166.४० ॥
जामाता काङ्क्षितश्चासीत् तेन चक्रगदाधरः ।
विष्णुः परमधर्मात्मा दुहित्रा चास्य सुव्रत२९ ॥४१ ॥
तस्य तं दुहिता ज्ञात्वा हतं पितरमात्मनः ।
जगाम तपसे३० साध्वी परहेतोर्महाव्रता ॥ ८२ ॥
श्वेतोपि तत्ततो ज्ञात्वा वैराग्यं परमास्थितः ।
नर्मदातीरमासाद्य एकचित्तो जितेन्द्रियः ॥४३ ॥
रूद्रमेवार्पितावस्थ३१ स्तन्निष्ठस्तत्परायणः ।
तप्यमानस्तपो घोरं तस्थौ युक्तस्तपोधनः ॥४४
अथागात् सुमहान् कालस्तप्यतस्तस्य धीमतः ।
आयुर्यद्विहितं धात्रा तत्तस्य क्षयमभ्यगात् ॥४५॥
ह्रियते व्यास - क. ख. । २६ प्रभृत्यैव - क । २७ तिष्ठन् गच्छन्स्वपंश्चापि तप्यंश्चापि यथा तथा (?) । २८ मिथ - ख. । २९ सुव्रतः - क. ख. । ३० तपसा - ख. । ३१ रुद्रे सर्वोपितावस्थ - ख. ।
क्षीणायुषमथो ज्ञात्वा श्वेतं मृत्युविचेष्टितम् ।
सुतो विवस्वतो हृष्टः कालमृत्युपुरोगमान् ॥४६॥
किङ्करान् प्रेषयामास तमानेतुं द्विजोत्तमम् ।
तमथा३२ भ्येत्य ते दूताः स्थिताः श्वेतजिघांसया ४७॥
तान् दृष्ट्वा स तदा श्वेतो यमदूतानवस्थितान ।
हाहेति मरणाद्भीतस्त्रासाद् दुःखपरिप्लुतः ॥४८॥
अन्वचिन्तयदव्यग्रः परित्राणाय शङ्करम् ।
अथ चिन्तितमात्रस्तु गिरीन्द्रशिखरस्थितः३३ ॥४९ ॥
भक्तानुग्रहकृद्देवः श्वेतं वेद यमार्द्दितम् ।
तं तथा दुःखितं ज्ञात्वा भक्तं मृत्युवशं गतम् ॥8.166.५० ॥
शङ्करः प्रहसन् देवीमिदमाह सुरेश्वरः ।
श्वेतो नाम मुनिर्देवि मद्भक्तस्तपसैधितः३४ ॥५१ ॥
क्षीणायुरभवन्मूढो मृत्युपाशविमोहितः ।
व्यवस्थैषा पुरा सृष्टा ब्रह्मणा लोककर्तृणा ॥ ५२ ॥
प्राणिनामायुषो हानिः कालसंस्थानसङ्क्षये ।
ब्रह्मापि हि सृजल्ँलोकान् मूढो भवति शैलजे ॥५३ ॥
मृत्युदुःखान्विताल्ँलोकान् यस्मात्सृजति मोहितः ।
सोपि भक्तो ममात्यन्तं ब्रह्मा लोकपितामहः ॥ ५४॥
तस्य भक्तिविशेषाच्च गौरवाच्च गिरीन्द्रजे ।
अनुज्ञाता मयाप्येषा सृष्टिर्मृत्युसमन्विता ॥५५॥
तथा तु स मुनिर्देवि मयि सर्वार्पितक्रियः ।
एकभक्तितया३५ तस्य दृढं प्रीतोस्मि पार्वति ॥५६॥
त्राता३६ तस्य भविष्यामि जीवयिष्यामि तं मुनिम् ।
ततो भर्तुर्वचः३७ श्रुत्वा गिरिजा वाक्यमब्रवीत् ॥५७॥
एवं३८ कुरु महादेव भक्तानुग्रहमीप्सितम् ।
शरणं को भवेदन्यस्तस्य भक्तिमतो मुनेः३९ ॥५८॥
तमथो - क । ३३ शिरसि स्थितः - ख. । ३४ तपसेधितः - क. ख. । ३५ एकभक्ततया - ख. । ३६ ततो - क. । ३७ भर्तृवचः - ख. । ३८ एतत् - क. । ३९ मुने - क. ।
एवमुक्तः स पार्वत्या देवदेवो कृषध्वजः ।
नन्दीश्वरपुरोगाँस्तान् गणेशान् गणपाधिपः ॥५९॥
शङ्कुकर्णञ्च गणपं तथान्यांश्च सहस्रशः ।
मुनेः श्वेतस्य रक्षार्थं प्रेषयामास शूलधृक् ॥8.166.६० ॥
महाबलास्ते गणनायकेन्द्रा आज्ञां गृहीत्वा परमेशवक्त्रात ।
तूर्ण ययुः श्वेतमुनेरुपान्तं४० दूतान् दिधक्षन्त इवान्तकस्य ॥६१ ॥
ते गत्वा४१ श्वेतमैक्षन्त यमदूतैरथादिर्तम् ।
मृगमेकमिवारण्ये व्याधैर्बहुभिरावृतम् ॥ ६२ ॥
ग्रीवायां कालपाशेन हस्तपादे४२ च यन्त्रितम् ।
मृत्युना स्वयमाकृष्टं४३ स्रवद्रुधिरचक्षुषा ॥६३ ॥
विकृतास्यैर्महादंष्ट्रैस्संरक्तश्मश्रुमूर्धजैः४४ ।
विद्युत्सदृशनेत्रैश्च लोहदण्डोग्रपाणिभिः ।
यमदूतैर्महाघोरैः क्षिप्यमाणं समन्ततः ॥६४॥
दृष्ट्वा तथा तं मुनिमार्त्तमुच्चैः क्रोशन्तमीशेत्यसकृद् गणेन्द्रः ।
मुमोच पाशान्मुनिमाशु तस्मात् पाशात्पशूनामिव बन्धमीशः ॥ ६५॥
गच्छध्वं यमकिङ्करा मुनिमितस्त्यक्त्वा शरीरैर्दृढैः४५
र्भक्तो ह्येष सुरासुरेश्वरमजं शम्भुं जगत्कारणम् ।
यः स्रष्टा पवनाग्निशक्रमरुतां ब्रह्मादिभिर्वन्दित-
स्त्राता सोस्य वृषेन्द्रकेतुरजितो नैनं यमो द्रक्ष्यति ॥६६॥
ते दृष्ट्वा गणपान् दूताः कालमृत्युपुरस्सराः ।
भयान्मुक्त्वा मुनिं श्वेतमब्रुवन् दूरतः स्थिताः ॥६७॥
पूर्णः कालो मुनेरस्य क्षीणमायुर्गणेश्वराः ।
किमनेन विमुञ्चध्वं नयामैनं यमान्तिकम् ॥६८॥
अथ नन्दीश्वरः प्राह क्रुद्धस्तान् प्रदहन्निव ।
अक्षता गच्छत क्षिप्रं कृपणा यमकिङ्कराः ॥६९॥
रूपान्तिकं - क, समीपम् (?) । ४१ गताः - क. । ४२ हस्तपादौ च - क., हस्तपादैश्च - ख. । ४३ ः ?माक्रुष्टं - क. । ४४ मूर्धजं - ख. । ४५ शरीरं दृढम् - क. ख. ।
यावच्चैते४६ न कुप्यन्ति प्रमथेन्द्राः सुरोषणाः ।
मा वः सिंहा इवारण्ये वारणान्मदमोहितान्४७ ।
सकृदेव समाहत्य करिष्यन्ति गतायुषः ॥8.166.७० ॥
अथैवमुक्ता गणनायकेन नन्दीश्वरेणामितविक्रमेण ।
भीता ययुस्ते पितृराजदूता गत्वा च चक्रुः कथयां यमस्य ॥७१ ॥
तेषामुपश्रुत्य तदा वचांसि तीव्राणि नन्दीश्वरभाषितानि ।
आदित्यसूनुः प्रचुकोप मोहात् स्वयं प्रयातुं च मतिं चकार ॥७२॥
अथाभ्ययात् क्रोधविरक्तनेत्रः सर्वैर्वृतो मृत्युपुरस्सरैस्तैः ।
विनिःश्वसन्नाग इव प्रचण्डो जगद्दिधक्षन्निव कृत्स्नमेकः ॥७२॥
दृष्टा मुनिं श्वेतमपेतमोहं वृतं गणेन्द्रैर्हरतुल्यरूपैः ।
मुञ्चध्वमेनं तरसेत्यवोचन्४८ नन्दीश्वराद्यान् ग्रहराजसूनुः ॥७४॥
कस्त्वं यम४९ श्वेतमुनिं विनेतुं भवस्य धन्यः५० प्रमथेशभक्तम् ।
संरक्ष्यमाणं स्वयमेव मूढं५१ गच्छाकृतात्मन्निति नन्द्युवाच ॥७५॥
अथ श्रुत्वा वचस्तस्य नन्दिनः परुषं महत् ।
यमः प्रोवाच सङ्क्रुद्ध इदं सर्वगणाधिपम् ॥७६॥
गणेन्द्रा गतजीवोयं विप्रस्तिष्ठति मूढवत् ।
किमनेन विमुञ्चध्वं मा वृथा खेदमाप्स्यथ ॥७७॥
रक्षितोपि चिरं ह्येष मामेव समुपैष्यति ।
कालेन परिपूर्णेन क्षीणायुरिह कश्चन ॥७८॥
तपोधर्मसमायुक्तो विद्वानपि न जीवति ।
यदनेन कृतं कर्म धर्म्यं गर्हितमेव वा ॥७९॥
सन्त्यज्य तदिमं५३ देहं प्राप्नोतु५४ गणपाधिपाः ।
ममायत्तमिदं५५ सर्वं भूतग्रामपरीक्षणम्५६ ॥8.166.८० ॥
पुण्यपापीयसोर्नित्थं कर्मणोः प्रविचारणम्५७ ।
तेनार्पयत मे क्षिप्रं श्वेतमेनं गतायुषम् ॥८१ ॥
यावदेते - ख. । ४७ वारणन्दर्पमोहितम् - ख. । ४८ तरसैत्यवोचन् - क. ख । ४९ यमः - क. । ५० धन्यं - क. ख. । ५१ मूढ - ख ५२ ..पेष्यते - क., .. पास्यति - ख । ५३ तमिमं - ख. । ५४ प्राप्तातु - ख. । ५५ मदायत्तमिदं (?) । ५६ भूतग्रामपीक्षणम् - ख., … समीक्षणम् (?) । ५७ विप्रचारणम् - क. ।
अथवैनं गृहीत्वेह सर्व एव गणेश्वराः ।
प्रयाम शूऽलिनोभ्यासं नियतं स विमोक्ष्यति ॥८२ ॥
पितृराजवचः श्रुत्वा नन्दीश्वरपुरोगमाः ।
एवमस्त्विति तं प्राहुर्यमं क्रोधवशं गतम् । ८३ ॥
ततस्ते सहिताः सर्वे श्वेतश्च मुनिसत्तमः ।
जगन्नाथं हरं द्रष्टुमाजग्मुविन्ध्यपर्वतम् ॥८४॥
न्यवेदयद्यथावृत्तं नन्दी सर्वगणाधिपः५८ ।
प्रणम्य परया भक्त्या भवायामिततेजसे ॥८५ ॥
श्रुत्वा तु भगवान् वाक्यं नन्दिना सम्प्रभाषितम् ।
प्राह वैवस्वतं साक्षात् स्निग्धगम्भीरया गिरा ॥८६॥
श्वेतस्यास्य परा भक्तिर्मयि प्रेतगणाधिप ।
अतः५९ क्षीणायुषोप्यस्य मृत्युर्न प्रभविष्यति ॥८७॥
महता तपसा भक्त्या मयि भावितचेतसः६० ।
मत्प्रसादाज्जितो मृत्युः श्वेतेनानेन तापन ॥८८॥
ममादेशात्त्वयाप्यस्य नैव कार्यः पराभवः ।
किन्न वेत्सि रवेः पुत्र मद्भक्ता नरपुङ्गवाः ॥८९॥
न पश्यन्ति तवावासं६१ देहभेदेप्युपस्थिते ।
अस्य भक्तिविशेषेण परेण परितोषितः ॥8.166.९० ॥
अनेनैव शरीरेण अमरत्वं ददाम्यहम् ।
इति मत्वा विसन्देह६२स्त्वरा गच्छ स्वमालयम् ॥९१ ।
इति देववचः श्रुत्वा प्रणम्य तपनात्मजः ।
परमार्थमविज्ञाय प्रोवाचेदं पिनाकिनम् ॥९२ ॥
त्वयैव भगवन्नेषा स्थितिः सृष्टा पुरातनी ।
कर्मण्यस्मिन्नियुक्तोहं जन्ममृत्युविचारणे ॥ ९३ ॥
अधिकार६३ निवृत्तौ६४ हि शक्रस्यापि वृषध्वज ।
त्वयैव पवनः सृष्टो ह्यहं६५ चैव सुरेश्वर ॥९४॥
गणाधिपम् - क । ५९ अथ - क. । ६० भावितचेतसि - क., चेतसा (?) । ६१ यमावासं क.। ६२ मत्वापि सन्देह क। ६३ अधिकरो ( ?) । ६४ निर्वृत्तौ - क-, नियुक्तौ ख, निवृतौ(?), निवृत्तो (?)। ६५ अहं क.।
न केनचिदयं६६ पन्थाः कालमृत्युक्षयात्मकः६७ ।
व्यभिचीर्णो महादेव कालातिक्रमधारणात्६८ ॥ ९५ ॥
एवमेतां परां सृष्टिं विचिन्त्य विबुधेश्वर ।
मोक्तुमर्हसि विप्राग्र्यं काले पूर्णे६९ गतायुषम् ॥ ९६ ॥
एवं स्थितिरभिन्ना७० स्यादहं च न विमानितः ।
मृत्युश्चान्तःशरीरस्थः७१ श्वेतस्तद्वरमाप्स्यति ॥ ९७ ॥
इत्युक्तं७२ प्रेतराजेन श्रुत्वा वाक्यं वृषध्वजः ।
दिप्ताङ्गार७३ इवैकस्मात्७४ संहार इव पावकः ॥ ९८ ॥
जगत्क्षोभ इवाकस्मादुत्प्रेक्ष्यः७५ समपद्यत ।
नन्दीशस्य ततः स्कन्धमुपाश्रित्य पिनाकधृक् ॥ ९९ ॥
इदं प्राह वचो व्यास तं दृष्ट्वा यममास्थितम् ।
अहो दिनकृतः सूनोरस्य शाठ्यप्रभाषितम्७६ ॥ 8.166.१०० ॥
कार्कश्यं वचसः पश्य प्रत्युत्तरसमीरितम् ।
परित्रातो मया श्वेतो यम गच्छेति भाषितः७७ ॥ १०१ ॥
मुञ्च श्वेतमिति प्राह मामेव गतचेतनः ।
किन्त्वयं मूढ एव स्यादुत पौरुषगर्वितः ॥ १०२ ॥
गच्छेति को मयाज्ञप्ते७८ स्थातुमत्र भवत्यलम् ।
प्रत्युत्तरं पुनः प्राह मामेव पुरतः स्थितः७९ ॥ १०३ ॥
एवं स भगवानुक्त्वा जगत्प्रभवकारणः ।
तिर्यग् दृष्टि समाधाय सरोषं यममैक्षत ॥ १०४ ॥
स तेन चक्षुषा दग्धो निपपात महीतले ।
महावृक्ष इवारण्ये महावायुसमीरितः ।
भस्मसात्त्वं८० ययौ तूर्णं प्रजहास ततो भवः ॥ १०५ ॥
दियं - क ख. । ६७ क्षयात्मिका - क । ६८ वारणात् (?) । ६९ पूर्णं - ख । ७०. रभिज्ञा - क. ख.। ७१ श्चान्तशरीरस्यः - क., श्चान्यशरीरस्थ - ख, स्थ - क ख. । ७२ इत्युक्तः - ख. । ७३ दीप्तांश?व - क. ख. । ७४ इवाकस्मात् (?) । ७५ दुष्प्रेक्ष्य (?) । ७६ सान्त्वप्रभाषितम् (?) । ७७ भाषितं - ख । ७८ ज्ञप्तः (?) । ७९ स्थितं - क ख. । ८० भम्मसाच्च - क ।
श्वेतं ततस्तं प्रणतं मुनिं तु सगद्गदं मृत्युभयाद्विषण्णम् ।
पस्पर्श मूर्ध्नि त्रिपुरासुरारिर्वचो न भेतव्यमिति ब्रुवाणः ॥१०६॥
प्रादाद्वरं शूलधरश्च८१ तस्मै मृत्युर्न ते विप्र भविष्यतीति ।
ददौ च नित्यं गणपत्वमेव प्रोवाच चैनं परितुष्ट ईशः ॥ १०७॥
क्रुद्धश्च यस्मादहमर्कसूनोरस्मिन् गिरौ पुण्यतमस्ततोयम् ।
वत्स्यामि चेहाचलराजमूर्ध्नि क्रोधेश्वरस्तेन भविष्यतीह ॥ १०८॥
विन्ध्यप्रदेशेमरसिद्धजुष्टे क्रोधेश्वरे पुण्यगिरौ पुमांसः ।
त्यक्ष्यन्ति ये देहमपेतमोहास्तेषां गतिः श्वेतसमा स्मृता मे ॥१०९॥
द्रक्ष्यन्ति श्वेतेश्वरमत्र ये च ते चापि दिव्या गणपा ममैव ।
तवैव८२ नाम्ना च नदी सुपुण्या८३ श्वेतस्य गङ्गेति भविष्यतीयम्८४ ॥8.166.११०॥
सन्तर्पणान्नैकविधं८५ पितॄणां स्वर्लोकदं स्थानमतीव यस्याम्८६ ।
इत्युक्तमात्रे जगदीश्वरेण श्वेतो मुनिर्दिव्यवपुर्बभूव ॥१११ ॥
नन्दीशचण्डेशसमानधर्मा प्रणम्य देवं पुरतः स्थितोभूत् ।
दृष्ट्वाथ सूनुं विगतासुमर्कः शोकाभितप्तस्त्वरितो जवेन ॥ ११२ ॥
ब्रह्मादिभिः शक्रपुरस्सरैस्तैः८७ सार्द्धं जगत्कारणमाजगाम ।
विज्ञापयामासुरथामरास्ते आदित्यसूनु८८ प्रतिजीवहेतोः ॥ ११३ ॥
मूढो यतोयं जगदीश्वरेश कृच्छ्रं तत८९स्तीव्रमिदं प्रयातः ।
प्रसीद देवेश कुरु प्रसादं जीवत्वयं प्रेतगणाधिराजः । ११४॥
यथापुरा चैष भवत्विदानीमार्त्तिं हि९० नश्छिन्धि सुरासुरेश ।
विज्ञप्तिमेवं त्रिदिवालयानां ब्रह्मादिशक्रार्कपुरस्सराणाम् ॥११५॥
श्रुत्वा यमं तं करुणायमान उत्तिष्ठ पुत्रेति विभुर्बभाषे ।
दिव्यं ततः पूर्ववदद्रिकल्पं विभ्रत् स देहं ग्रहराजसूनुः ॥ ११६ ॥
प्रोत्थाय तूर्णं भगवन्तमाशु ननाम पद्भ्यां सहसा गृहीत्वा ।
ब्रह्मादयस्ते च सुरेन्द्रसङ्घा दृष्ट्वा९१ ततस्तान् प्रणतानवोचत् ॥११७॥
शूलभृतश्च - क. । ८२ तथैव - ख. । ८३ नदीषु पुण्या - ख. । ८४ भविष्यतीह - क. । ८५ सन्तर्पणं नैकविधं - क., .. णेनैकविधिं - ख । ८६ यत्स्यात् (?) । ८७ शक्रादिभिर्ब्रह्मपुरस्सरैस्तैः (?), पुरस्सरैश्च - ख. । ८८.. .सूनुं - क. । ८९ जगत् - क. । ९० ह - क । ९१ दृष्टा - क.।
ब्रह्मार्कविष्णुज्वलनादिनाथः कर्ता सुराणां सुरनाथ एकः ।
सुरेश्वरः सोमजटार्धमौलिर्देवाः प्रयात स्वनिकेतनानि ॥ ११८ ॥
विज्ञप्तिरेषा सफला कृता वो मैवं९२ कृथास्त्वं पुनरात्ममोहम्९३ ।
प्रेतेश्वरं चेति वचोभ्युवाच जग्मुस्ततो देवगणाः प्रणम्य ॥ ११९ ॥
प्रगृह्य सौरिं पितृराजमाशु श्वेतोपि तस्थौ मरणाद्विहीनः ।
नन्दी यथा निर्वृतदुःखभाव९४स्तथैव विप्रः परमेशभक्तः९५ ॥ 8.166.१२० ॥
इति कथितमिदं ते श्वेतमृत्युप्रणाशं
हिमगिरितनयाया भर्तुरीशस्य शम्भोः ।
फलमवितथभक्ति९६ प्राप्तिसम्पद्विशेषं
जगति शरणमेकं तं शरण्यं नमस्ये ॥१२१ ॥
इति स्कन्दपुराणे श्वेतवरप्रदाने षट्षष्ट्युत्तरशततमोध्यायः९७