१६५

सनत्कुमार उवाच
स्कन्दं पुरोधाय सुराः समस्ताः सन्नाहयामासुरनीकमाशु ।
आहत्य भेरीः शतशो महद्भिर्दण्डैर्दृढं हाटकरत्नचित्रैः ॥ १ ॥

दिग्वारणान् भूधरकूटकल्पान् मन्दाकिनीवारिभिराप्लुताङ्गान् ।
आनाय्य गन्धैर्विविधैश्च माल्यैरभ्यर्च्चयाञ्चक्रुरनीकमुख्याः ॥२॥

चित्राणि वर्माणि ततो बबन्धुर्बद्घ्वा१ प्रयत्नातिशयेन कक्षे२ ।
तेषां सुयत्नाद्३ गजवाजिमुख्यान हैमानि यन्त्राणि तयायुधानाम् ॥ ३ ॥

चित्राः समुच्छिश्रियिरे४ पताका ध्वजाश्च चामीकरचारुदण्डाः ।
क्षुरप्रमाला विविधा बबन्धुः पक्षेषु५ घण्टाश्च समाससर्ज्जुः६ ॥४॥

रथञ्च कार्तस्वरचारुचक्रम्७ साङ्ग्रामिकं रत्नमरीचिचित्रम् ।
संयोजयामासुरुदारवेषैः प्रहृष्टचित्तैः खगमैस्तुरङ्गै द्वे ॥५॥

पर्यच्छमम्भोरुहगर्भगौरं बबन्ध शक्रः कवचं महार्हम् ।
वक्षस्यभेद्ये हरिचन्दनाक्ते वज्रप्रभाप्रज्वलितप्रकाशम् ॥ ६ ॥

बबन्धुरुच्चैर्विनियम्य पिङ्गा जटा भुजङ्गैर्बृहतीः श्वसद्भिः ।
चित्राणि हृष्टाः कवचानि रुद्रा वक्षस्सु दैत्यद्विपविक्षतेषु ॥७॥

चित्रं दधानः९ कवचं महाद्युतिर्निबद्धनिस्त्रिंशतलाङ्गुलित्रवान्१० ।
बिभ्रद्धनुः सज्जमपीद्धपौरुषो जहौ शशाङ्कः सहजां न सौम्यताम् ॥८॥


दमनीं - क. टि. । १५७ प्रजग्मुः - क. ख. ।
बुध्वा - क ख. । २ कक्ष्ये - क. ख. ३ सयत्ना (?) । ४ समुच्चिच्छ्रियिरे - क । ५ वक्रेषु - क. । ६ समाससर्जुः - क ख. । ७ कार्तस्वनचारुचक्रं - क. ख. । ८ प्रयच्छ - क. ख. । ९ बधान - ख । १० लताङ्गुलित्रवान् - ख. ।


यत्नाद् बन्द्बधुः कवचानि सूर्याः किञ्चित्प्रदीप्तानि तदा स्वदीप्त्या११ ।
लौहान्यभेद्यानि१२ शरैः परास्तैश्चारूणि चामीकरचित्रितानि ॥९॥

निबद्धभास्वत्कवचः सुधन्वा१३ सुपीननिस्त्रिंशनिबद्धपार्श्वः ।
गृहीतदण्डो विनिबद्धमौलिर्भयानकोभूत् सुतरां यमोपि ॥ 8.165.१० ॥

रुचा परीतः परयातिमात्रं स्फुरन्मुहुः प्रोन्नतपूर्वकायः ।
पराभवं विद्विषतां समाजे प्रचेतसः ख्यापयतीव पाशः ॥ ११ ॥

दृष्टिं धनेशोपि हुताशपिङ्गां दधद् गदायां परिघोरुबाहुः ।
ईशप्रसादेन निजेन१४ वेति सुरद्विषामाहनने विनाशम् ॥१२॥

सैन्येथ देवद्विषतां निपेतुरुल्काः स्फुरद्वह्निकणा बृहत्यः ।
विना घनैर्व्योम ररास भीमं सवृक्षशैला विचचाल चोर्वी ॥ १३ ॥

रजो नभस्तः परितः पपात वातेरितं रासभपृष्ठधूस्रम्१५ ।
ध्वजा निपेतुर्दृढहेमदण्ढा रक्ताम्बुवृष्टिं ससृजुः पयोदाः ॥१४॥

मुहुर्मुहुर्दैन्यपरितचिताः कदुष्णमस्रं१६ मुमुचुस्तुरङ्गाः ।
कपोलभित्तीः१७ प्रजहौ गजानां मदश्च पारावतकण्ठनीलः ॥ १५ ॥

स्थानेषु दीप्तेषु विनेदुरुच्चैर्दीप्तस्वराः पक्षिमृगाश्वसङ्घाः१८ ।
प्रसादमालाः१९ परितो विमृद्रन् ववौ२० विवृद्धः२१ परुषो नभस्वान् ॥ १६॥

सेना प्रहृष्टा महती सुराणामभ्याययौ दैत्यपतिं रराणा२२ ।
दैत्योपि देवागमनं विदित्वा सन्नाहयामास२३ तदा स्वसैन्यम् ॥१७॥

सैन्यानि तानि२४ त्रिदशासुराणामन्योन्यमासेदुरुदायुधानि ।
क्षुब्धान्यतीव प्रलये महाब्धेः२५ पूर्वापराणीव तदा जलानि ॥ १८॥

निशाम्य दैत्या रणतूर्यनिस्वनं प्ररूढगर्वा बलिनो जयोत्सुकाः ।
अतिप्रहर्षादसमाप्तमङ्गला गृहीतशस्त्राः समराय निर्ययुः ॥ १९॥

रथाश्वपादातसमुद्धतं२६ रजो रणाजिरे वानरकण्ठधूसरम् ।
स्वनश्च तेषामतिदारुणो महान् नभस्तदा व्याप दिशश्च सर्वतः ॥8.165.२० ॥


स्वदीप्ती - क. । १२ लोहान्यभेद्यानि - क. ख । १३ सुधर्मा - क. । १४ जिनेन - क. । १५. धोस्र - क, ..धौस्रं - ख. । १६ सास्रं - क. । १७ कपोलभित्ती - क., भित्तौ - ख. । १८ पक्षिमृगाश्च सघाः - क. ख. । १९ माला - क ख- । २० बभौ - क. ख. । २१ विबद्धः - ख । २२ रणाय - ख., सुराणा - क. । २३ समाह्वयामास - क. । २४ सैन्ये हि तानि - क. ख. । २५ महोदधेः - क. ख. । २५६ पादातिसमुद्धतं - क. ।


समुद्यतैर्दानवदेवतायुधैर्ध्वजैः पताकातपवारणैस्तथा ।
बभौ सविद्युच्छशिशक्रकार्मुकं२७ सहंसपङ्क्तीव तदा नभस्तलम् ॥२१ ॥

शस्त्राणि गात्रेषु तनुत्रवत्सु निपात्यमानानि परस्परस्य ।
दैत्यामरैराहनने प्रचक्रुः शब्दं स्फुरद्वह्नकिणैः समेतम् ॥२२ ॥

दृष्ट्वासुरान् सत्वबलोपपन्नान् सुरास्सहायाननपेक्ष्य२८ केचित् ।
सन्नेहिरे मत्तगजानिवेभा मदाम्बुभिः श्यामकपोलदेशाः ॥२३ ॥

बलानि वेगादभिसृत्य दूरमग्रेसराणि२९ त्रिदशासुराणाम्३० ।
स्वजीविताशामपहाय जघ्नुरन्योन्यमाविष्कृतपौरुषाणि ॥२४॥

निकामवैराशयमानसानां जिघांसता तत्र परस्परेण ।
स सम्प्रहारस्तुमुलस्तदासीत् सुरासुराणामनवो महाजौ३१ ॥ २५॥

सेदुर्गजास्तोमरशक्तिभिन्नास्तुरङ्गमा बाणहता निपेतुः ।
सफेनमास्यै रुधिरं वमन्तो दृढप्रहारान्मुमुहुश्च योधाः ॥२६॥

छिन्नानि पेतुर्निशितैः क्षुरप्रैः सकुण्डलान्याननपङ्कजानि ।
अन्योन्यमाविष्कृतदर्परोषैर्महाहवे दानवदेवमुख्यैः३२ ॥२७॥

ता मातरस्ते च गणा विचेरुर्विपोथयन्तः समरेरिसङ्घान्३३ ।
मुष्टिप्रहारैस्तलपार्ष्णिघातैर्विकर्षणावेष्टनपीडनैश्च ।

                                          • ॥२८॥

मातङ्गमुख्यान् द्विरदैः प्रभिन्नैस्तुरङ्गमान् वाजिभिरुत्तमाँश्च ।
रथान् रथैः३४ पत्तिगणान् पदातैर्गणा निजघ्नुर्युधि दानवानाम् ॥२९॥

उत्पत्य वेगादिषुभिर्गणेन्द्रा३५ गजाधिरूढान् दितिजेन्द्रयोधान् ।
मुष्टिप्रहारैः कुलिशोग्रपातैर्विभिन्नमस्तिष्कविनिर्गताक्षान् ॥ 8.165.३० ॥

परश्वधैश्चिच्छिदुरात्तरोषाः३६ खड्गैश्चकर्तुर्बिभिदुश्च शूलैः ।
महाद्विपालाननितान्तपीनैः३७ प्रपोथयाञ्चक्रुररीन्३८ भुजैश्च ॥३१ ॥


सविद्युच्छविशक्रकार्मुकं (?) । २८ सहायानपेक्ष्य - क ।२९ .मग्रेश्वराणां - क. । ३० ददृशे सुराणाम् - ख.। ३१ .मनवं महाजौ - क, मभवत्तदाजौ - ख. । ३२ महाहवैर्द्दानवदैत्यमुख्यैः - क. । ३३ .सिंहान् - ख । ३४ रथाद्रथैः - क. । ३५ वेगान्निषुभिर्गजेन्द्रा - क, .. दिषु तद् गजेन्द्रा - ख, । ३६.. रात्तदोषाः - क. । ३७ निभात्तपीनैः - ख. । ३८ प्रपोढयाञ्चक्रुररीन् - ख ।


देव्योपि तान्३९ दैत्यगणान् निजघ्नुर्महासमाजे समुपात्तशस्त्रान् ।
उत्पत्य वाजिप्रवराधिरूढान् रथस्थितान् वारणधूर्गतांश्च ॥३२॥

प्रचुक्षुभे तद्बलमासुरं तदा गणेन्द्रनिष्पिष्टबलाग्रनायकम् ।
गुरुत्मतः पक्षसमीरणाहतं४० महाह्रदं यद्वदगाधमम्बुधेः४१ ॥३३ ॥

अथाभिवीक्ष्य प्रसभं गणाधिपैर्निहन्यमानानि बलानि तारकः ।
रुषा तदा ताम्रतरायतेक्षणः४२ समभ्यगान्मौलिबलाभिपालितः ॥३४॥

विस्फार्य शक्राशनितुल्यनिस्वनं रत्नप्रभाप्रज्वलितं स कार्मुकम् ।
सञ्छादयन् बाणतलैर्नभस्तलं मर्मातिगैः कङ्कमयूरपत्रिभिः ॥ ३५॥

तस्यागमं दैत्यपतेर्विदित्वा तदाननादानलसूनुरुच्चैः ।
स्वपाणिसस्थामभिवीक्ष्य शक्तिं विचित्रचामीकरचारुघण्टाम् ॥३६॥

नभो विगाह्य४४ प्रदिशो दिशश्च स कार्त्तिकेयस्य तदा निनादः ।
मनांसि देवद्विषतां प्रसह्य विमोहयामास महासमाजे ॥३७॥

अथापतन्तं समभीक्ष्य४५ तारकं बलेन गुप्तं महता महाहवे ।
मुमोच शक्तिं ज्वलितानलप्रभां विनाशनायामरविद्विषां गुहः ॥३८॥

सा तेन मुक्ता ज्वलनात्मजेन ज्वालाभिरावृत्य नभो दिशश्च ।
अनेकधा व्योम्न्यभवत् सुघोरा४६ मायेव दैत्यान् परिमोहयन्ती ॥ ३९॥

पपात वक्षःसु च सहतेषु४७ सुरद्विषां चित्रतनुत्रभृत्सु ।
समं समस्तैस्त्वनिवार्यवेगा४८ विदार्य चोरांसि विवेश तूर्णम् ॥8.165.४० ॥

देवद्विषस्तेभिहतास्समस्ताः४९ पर्यस्तपृथ्वायतरक्तनेत्राः ।
सन्दष्टजिह्वाधरविह्वलाङ्गाः प्राणाञ्जहुः शोणितमुद्वमन्तः ॥४१ ॥

तमांसि यद्वत् सविता भिनत्ति समं मयूखैरतिरस्कृतानि ।
बिभेद तद्वद् द्विषतां बलानि रणाजिरे शक्तिभिरग्निसूनुः ॥४२॥

निहत्य देवद्विषतः समस्तान् रणाजिरे प्रोन्नतदर्पवीर्यान् ।
प्रभेव सूर्यं परितप्य लोकान् पुनस्तदा स्कन्दमियाय शक्तिः ॥४३ ॥


दैव्योततं - क. ४० पक्षिसमीरणाहत - क. । ४१ दगाधमम्बुधि - क । ४२ यतेक्षणो - क. ख. ४३ मुदानान दानलसूनुरुच्चैः (?) । ४४.. वगाह्य (?) । ४५ समवीक्ष्य क. । ४६ सुघोरं - क. । ४७ वक्षःसुरसङ्घ(ह) तेषु - क., सुसम्ह (?) । ४८ स्तेष्वपि - ख, रनिवायंवेगा (?) । ४९ भिहिता- स्समस्ताः - क ।


दितितनयसमूहैः सार्धमाविप्रतापैः (?)
समरशिरसि हत्वा तारक दैत्यराजम् ।
त्रिदशसमितिमुख्यैः स्तूयमानः प्रहृष्टैः
प्रतिगमदमितौजाः५० शूलपाणेः समीपम् ॥४४॥

इति स्कन्दपुराणे तारकवधे पञ्चषष्ट्युत्तरशततमोध्यायः५१