१६३


परिष्वज्यावपीडितम् - (?) , पीडितां - घ । १५० मूरुभ्यां (?) । - क., वरशूराभ्यां - घ. । १५१ सस्नेहामिदमब्रवीत् - ख. ॥ ५२ कर्तव्यतो ( ?) । १५३ र्यशसा मिश्रमीदृशं - घ.,.. ञ्चेदृशं - ख. । १५४ शु प - घ. ॥ १५५ हरिणेक्षणं - घ. । १५६ स्थितिरिह - घ । १५७… मुमं - घ. । १५८ ह्यशोकवृक्षम् - क ख. । १५९२११ - ख., इतः परं नियमानुष्टानमहिमाख्यानात्मकाः कतिपयेध्यायाः अधिका घ .पुस्तके ।


व्यास उवाच
शार्वं तेजः समादाय वह्निः किं कृतवांस्तदा ।
कथं स्कन्दस्समुत्पन्नः कस्मिँस्थाने महाद्युतिः ॥१॥

सेनापत्ये कथञ्चासावभिषिक्तः सुरोत्तमैः ।
किमर्थमभिषिक्तश्च[^१] कस्मिन्देशेपि वा प्रभो ॥२॥

तारकश्च कथं तेन निहतो रणमूर्धनि ।
एतदिच्छाम्यहं वेत्तु त्वत्प्रसादान्महामुने ॥३ ॥

इति विज्ञापितो धीमान् व्यासेनाक्लिष्टकर्मणा ।
प्रोवाच वदतां श्रेष्ठः पितामहसुतस्तदा ॥४॥

सनत्कुमार उवाच
अथ त्रैलोचनं तेजः सुतसङ्कल्पसम्भवम् ।
न धारयितुमुत्सेहे दीप्तिमानपि पावकः ॥५॥

दाहात्मकोपि भूतानां दह्यमानस्स तेजसा ।
गङ्गामभ्यर्थयामास धारणे तस्य तेजसः ॥६॥

सा तेनाभ्यर्थिता देवी हुताशेन त्रिलोकगा ।
एवमस्त्विति साशङ्कमुवाच मधुरस्वरा ॥७॥

तत्तेजो देवदेवस्य तेजस्वी हव्यवाहनः ।
तदा सङ्क्रामयाञ्चक्रे गङ्गायां योगमायया ॥८॥

ज्ञात्वापि दुर्धरं तत्सा प्रतिपेदे वरानना ।
अर्थिप्रणयनिर्भङ्गदोषभीता[^२] सरिद्वरा ॥९॥

अथ सा क्षिप्रमभवन्मन्थरालसगामिनी ।
प्रभावात्तेजसस्तस्य श्यामोन्मुखपयोधरा[^३] ॥ 8.163.१० ॥

भिन्नाञ्जनरुचा तन्व्या[^४] रोमराज्या रराज सा[^५] ।
घनराज्या घनापाये लेखेवानुष्णदीधितेः ॥११॥


कमर्थमभिषिक्तश्च - क. । २ प्रणयि निर्भङ्गदोषभीता - क ख. । ३ श्यामामुखपयोधरा - क. । ४ तन्वी (?) । ५ च - क. ।


जगाम च तदा ग्लानिं किञ्चिदाविप्लुतेक्षणा ।
नोपलेभे तदा देवी रतिं शय्यासनेषु च ॥१२ ॥

अमृतस्यन्दिभिः शीतैः[^६] स्पृष्टापि शशिनः करैः ।
मम्लौ[^७] सा तेजसा तेन दह्यमाना तदानघा[^८] ॥ १३ ॥

                • शरस्तम्बाभिराजिते ।
                  सोत्ससर्ज तदा तेजो हरस्योग्रं शुभेहनि[^९] ॥ १४॥

शरमध्यात् समभवद् बालो[^१०] बालपराक्रमः ।
षड्वक्त्रो द्वादशभुजः सूर्यकोटिसमद्युतिः ॥ १५॥

समिध्य विधिना तत्र पावकं पावकत्विषः ।
विश्वामित्रस्तदा चक्रे जातकर्म सुजन्मनः ॥ १६॥

कृत्तिकास्तं[^११] तदा दृष्ट्वा प्रस्नुतोरुपयोधराः[^१२] ।
आजग्मुरन्तिकं तस्य - - - - - - - - ॥ १७॥

उपतस्थुश्च तं वेदास्सोपवेदास्ससङ्ग्रहाः ।
कला विद्याश्च निखिला लक्ष्मीर्मेधा सरस्वती ॥१८॥

कान्तिर्धर्मो दया क्षान्तिर्धृतिर्धैर्यं पराक्रमः ।
योगस्तेजो बल प्रज्ञा स्थितिगाम्भीर्यसत्क्रियाः ॥ १९ ॥

अथातो धनुरादाय दिव्यमद्भुतविक्रमः[^१३] ।
सन्धाय लीलया बाणं स मुमोच गिरौ - - ॥8.163.२० ॥

प्रोद्भिन्नं सहसा तेन भूभृतः शिखरोत्तमम् ।
पपाताशु परित्रस्तभीतोद्भ्रान्तविहङ्गमम् ॥२१ ॥

तद् दृष्ट्वा महदाश्चर्यं सत्वानां तन्निवासिनाम् ।
विस्मयश्च भयञ्चैव युगपत् सम्बभूवतुः ॥ २२ ॥

अथ प्रेक्ष्य भयं तस्मादात्मनो बलसूदनः ।
मातॄः सम्प्रेषयामास विनाशायामितद्युतेः ॥ २३ ॥


अमृनस्यन्दनिःशीतैः - क । ७ मम्ले - ख । ८ तदानघाः - क. । ९ इतः परं पत्रमेकं खण्डितं क. पुस्तके । १० बलो - ख. । ११ कृत्तिकास्ते - ग । १२ प्रग्वं (पुत्रम्) चारुपयोधराः - ख । १३ घ पुस्तके भिन्नक्रममेतदाख्यानम् ।


आगत्य मातरस्तत्र दृष्ट्वा तं तेजसां निधिम् ।
तमेव शरणं जग्मुस्तत्तेजोहृतचेतसः ॥२४॥

आजगाम ततः क्रुद्धः सह व्रातैर्दिवौकसाम् ।
ऐरावतगजस्कन्धमारूढः पाकशासनः ॥२५॥

आगच्छतः सुरान्दृष्ट्वा ननादोच्चैर्महाद्युतिः ।
अभ्यद्रवच्च सङ्क्रुद्धः सिंहो मत्तान् गजानिव[^१४] ॥२६॥

बभूवुस्तेन नादेन मुहुर्मूढा दिवौकसः ।
अभूदैरावणस्यापि मदध्वंसः[^१५] कपोलयोः ॥२७॥

अर्चींषि च[^१६] प्रदीप्तानि विससर्ज सहस्रशः ।
त्रिलोचनसुतस्तेषां सुराणां सुरदर्पहा ॥ २८॥

अर्च्चिर्भिर्हतकान्तीनि मुखान्यसुरविद्विषाम् ।
बभूवुर्हिमदग्धानि सरोजानि सरःस्विव[^१७] ॥ २९॥

अथ वज्रं समादाय ज्वलितं ज्वलनद्युतेः ।
रोषादाताम्रनेत्रान्तो विससर्ज शतक्रतुः ॥8.163.३० ॥

तेन वज्रप्रहारेण स द्विमूर्त्तिस्तदाभवत् ।
द्वाभ्यामपि च मूर्त्तिभ्यामभ्यधावत् पुरन्दरम् ॥३१ ॥

अथ दर्पं विहायाशु प्रणेमे पाकशासनः ।
तेजसां निधये तस्मै प्राह चैवं[^१८] विनिर्जितः[^१९] ॥३२ ॥

गृहाण राज्यमप्येयत्[^२०] प्रार्थनीयं मनस्विनाम् ।
त्वमेव युक्तो[^२१] लोकानां पालने पावकात्मज ॥ ३३ ॥

सत्स्वप्यन्येषु[^२२] तेजस्सु तमसां[^२३] विनिहन्तृषु[^२४] ।
अग्नावेव हविः पुण्यं हूयते - - - - - ॥३४॥ - - - - – - - – - ।
प्राह प्रभवतां श्रेष्ठो विहस्य विबुधाधिपम् ॥ ३५ ॥


मत्तगजानेव - घ. । १५ समदध्व (त्व) - ख. । १६ स ( ?) । १७ सरेष्विव - ख. ग. । १८ चेत्यं - ग., चैनं (?), चेदं (?) । १९ विनिर्मित - ग, दिवि स्थित ( ?) - ख. । २०… मद्यैव - ग । २१ मुक्तो - ख शक्तो - ग । २२ सत्स्वप्येसु ( षु) च - ख । २३ तपसा - ख । २४ विनिवर्तिषु - ख. ।


शाधि शक्र त्वमेवेदं राज्यं चिरमभीप्सितम् ।
अनेन बहुदोषेण नाहमर्थी पुरन्दर ॥ ३६ ॥

निशाम्य तद्वचः श्रीमान् स्कन्दस्याक्लिष्टचेतसः ।
अर्थवद्वचनं श्लक्ष्णं पुनराह शचीपतिः ॥ ३७॥

                    • .. - - - - - ॥ ३८॥

दर्शय नो विचित्राणि कार्यजातान्यनेकधा ।
सङ्गतानि विभिन्नानि - - - - - - - - ।
त्रैलोक्यराज्यग्रहणं स्वनुबद्धमनव्ययम् ॥ ३९ ॥

एवमुक्तवति प्राह सम्भवत्यनलद्युतिः[^२५] ।
स्निग्धगम्भीरया वाचा स्मितपूर्वमिदं वचः ॥8.163.४० ॥

न विचालयितुं चेतः[^२६] शक्र[^२७] शक्ता[^२८] हठान्मम[^२९] ।
न वारि सरितां पत्युरलातैः सम्प्रतप्यते ॥४१ ॥

राज्यं राजीवपत्राक्ष न जातु मनसाप्यहम् ।
दोषाणां नित्यमावासं[^३०] कामये[^३१] पाकशासन ॥४२ ॥

तस्य तद्वचनं श्रुत्वा पुनर्वक्तुमियेष सः ।
सुधानिष्यन्दिभिः स्कन्दं स्नपयन्निव लोचनैः ॥४३ ॥

आकरे[^३२] तेजसां श्लाघ्ये नैतच्चित्रं त्वयि प्रभो ।
शक्ता एवं[^३३] न सज्जन्ते भोगेषु सुमहत्स्वपि ॥४४॥

सेनापत्येभिषिच्यस्व सुराणामर्थसिद्धये ।
वपुः (?) सम्मानयामीह[^३४] नाहमाज्ञापये विभो[^३५] ॥४५॥

अथ तद्वचनं श्रुत्वा पुरुहूतं महाभुजः ।
द्वादशाक्षः सहस्राक्षमिदमाहोरुविक्रमः ॥४६ ॥

मम प्रभवति श्रीमान् लोकानां प्रभुरव्ययः ।
अनन्यभूरमेयात्मा वृषकेतुः पुरन्दर ॥४७॥


शम्भवत्यनिलद्युतिः - ख. । २६ चैव - क. । २७ शक्रः - ग. । २८ शप्ताः (क्तः) - ग. । २९ शठा मम - ख. ग. । ३० निलयं नित्यं - ग. । ३१ कामोयं - ख. । ३२ आधारे - ख. । ३३ एव - ख. । ३४. माहं - ख,… म्यहं - ग., नाज्ञापकमहं - ख । ३५ प्रभो - ख. ।


तमाराध्य प्रभुं भक्त्या गृहाणाज्ञां शतक्रतो ।
तामहं प्रतिपत्स्यामि[^३६] यामसौ दास्यति प्रभुः ॥४८॥

तस्याभिप्रायमाज्ञाय देवदेवो वृषध्वजः ।
आजगाम सपत्नीको दिदृक्षुस्तनयं तदा ॥४९॥

स्वाहया सहितो वह्निर्गङ्गा च सरितां वरा ।
कृत्तिकाश्च सुसंहृष्टाः श्वेतं शिखरिणां वरम् ॥8.163.५०॥

युगपत्ते तदा तत्र श्वेतस्य शिखरोत्तमे ।
चिन्तयामासुरायान्तः कन्नु स्कन्दोभियास्यति ॥५१ ॥

अथ तेषामभिप्रायं ज्ञात्वा मतिमतां वरः ।
षोढा समभवत् स्कन्दो योगीशो बलवत्तदा ॥५२॥

स्कन्दोभ्यगान्महादेवं विशाखो हिमवत्सुताम् ।
नैगमेषो ययौ गङ्गां वह्निं शाखो महाद्युतिः ॥५३॥

स्वाहां जगाम संहृष्टः काकपक्षधरो गुहः ।
कृत्तिकाः[^३७] षण्मुखः श्रीमान् वेगादभिससार च ॥५४॥

मनोरथान् स सर्वेषां देवदेवात्मजः प्रभुः ।
युगपद्योगिनामीशः पूरयामास मूर्तिभिः ॥५५॥

अथ तस्मै ददौ शम्भुरस्त्रग्रामं चतुर्विधम् ।
सुधाकणपरिस्रावि चूडारत्नं च पार्वती ॥५६॥

स्वमनोनिर्मलां गङ्गा विशुद्धाममृतोद्भवाम् ।
एकावलिं ददौ तस्मै गुहायोत्फुल्ललोचना ॥५७॥

द्विषत्प्राणहरां गुर्वीममोघां हव्यवाहनः ।
अर्चिष्मतीं ददौ चास्मै शक्तिं शक्ताय सूनवे ॥५८॥

पताकां महतीं रक्तां ज्वलत्पावकसप्रभाम् ।
किङ्किणीनादितां दिव्यां प्रादात् स्वाहा महात्मने ॥५९॥

सुपुण्यगन्धामुत्फुल्लां स्वरजःपरिपिञ्जराम् ।
कृत्तिकाश्च ददुस्तस्मै[^३८] मालामञ्चितकेसराम् ॥8.163.६० ॥


प्रतिवक्ष्यामि - . ३७ कृत्तिकां - क. ख । ३८ ददौ तस्मै - क ।


अथाजग्मुः सुराः सर्वे पितामहपुरःसराः ।
श्वेताद्रेः शिखरं रम्यं वृषकेतुं दिदृक्षवः ॥ ६१ ॥

तानागतान् समं सर्वान् तदा तत्र दिवौकसः ।
दृष्ट्वा सम्भावयामास महादेवः प्रसन्नया ॥६२ ॥

प्रणम्य देवदेवेशं[^३९] लब्ध्वानुज्ञां[^४०] दिवौकसः ।
शिलासु शशिगौरीषु निषेदुरमितौजसः ॥६३ ॥

प्रोत्तुङ्गशिखरः श्वेतो द्युतिमानपि भूधरः ।
तेजसां सन्निपातेन बभूव द्युतिमत्तरः ॥६४॥

अथ प्रचोदितः सर्वैर्विबुधैर्विबुधाधिपः ।
व्यज्ञापयन्महादेवं प्रणम्य वदतां वरः ॥ ६५॥

तारकाख्येन नो लक्ष्मीरामृष्टा[^४१] प्रसभं प्रभो ।
वज्रं वक्षःस्थले तस्य कठिने कुण्ठतां[^४२] ययौ ॥ ६६ ॥

चक्रं हरेः सहस्रारं ज्वलितं ज्वलितौजसः ।
आसाद्य मृदुतां भेजे कण्ठं तस्यामरद्विषः ॥ ६७॥

दण्डो वैवस्वतस्यापि प्रदीप्तानलभास्वरः[^४३] ।
अलातमिव तोयौघे निर्वाणो दानवोरसि ॥ ६८ ॥

समरे रिपुदुर्वारो महापाशः प्रचेतसः ।
तस्य कण्ठे समभवन्मन्त्रेणेव वशीकृतः[^४४] ॥ ६९॥

उत्पाट्य[^४५] प्रसभं तेन नन्दने कल्पपादपाः[^४६] ।
निवेशिता यथाकामं स्वगृहोद्यानभूमिषु ॥8.163.७० ॥

समीपे तस्य साशङ्कस्तालवृन्तायतेनिलः ।
स्वपुष्पनिकरैर्भीता ऋतवस्तमुपासते ॥७१ ॥

हविर्भुजि हुतं हव्यमाच्छिनत्ति बलादसौ ।
मिषतां सर्वदेवानां देवदेव दितेः सुतः ॥७२ ॥


देवदेवाय - क. ख. ग. । ४० लब्धानुज्ञा - क., लब्धानुज्ञा - ग. । ४१… रामिष्टा - क.,.. राशिष्टा - ग. । ४२ कुण्ठितां - ख., कुण्ठितं (?) । ४३ भासुरः - वा. । ४४ वशीकृते - ख. । ४५ उत्पाट्याप्रसभं क. । ४६ पादपान् - क. ।


अभिषिच्य सुराः स्कन्दं सेनापत्ये महाद्युतिम् ।
जेतुमिच्छन्ति दैत्येन्द्र प्रसादात्तव शङ्कर ॥७३ ॥

एवं विज्ञापितस्तत्र वज्रिणा वृषभध्वजः ।
दादावनुज्ञां स्कन्दाय[^४७] सेनापत्याभिषेचने ॥७४॥

अथ विबुधसमूहैर्वन्दितो वन्दनीयो
मदनतनुविहन्ता बालचर्न्द्रार्धमौलिः ।
तनयमभिसमीक्ष्य स्नेहसzफुल्लनेत्रः
शशिकिरणसिताद्रेराशु सोन्तर्बभूव ॥७५॥

इति स्कन्दपुराणे स्कन्दाभिषेकानुज्ञाने त्रिषष्ट्युत्तरशततमोध्यायः[^४८]