१६२

सनत्कुमार उवाच
आमन्त्रितेषु विप्रेषु नारायणपदत्रये[^१] ।
नन्दिन्यथ निवृत्ते च गणयूथपयूथपे ॥ १ ॥

भगवान् क्रतुकामघ्नः पूष्णो दन्तनिपातनः ।
माली मौली बली कालः काले वचनमव्रवीत् ॥ २॥

अम्बिके जगतः[^२] सर्वे ब्राह्मणा ब्राह्मणः[^२] समाः ।
आमन्त्रिता वरारोहे कुरु यत्ते मनोगतम् ॥ ३ ॥

स यत्राशोकतरुकः पुत्रकस्ते भविष्यति ।
तत्र सज्जीकरोप्यन्न[^४]मन्नदः पिङ्गलः[^५] प्रिये ॥४॥


भिमन्त्र्य - क । २९ दमयममंयनशौचसत्वयुक्ताः - क, दमशम - ख. घ. । ३० मयेति - ख. । १ त्रिलोकपुरवासिषु - घ । २… ध्यागता - घ. । ३ ब्रह्मणा (?) । ४ करोत्वन्नं - क, करोद् देवि - घ । २.., त्व - क., पिञ्जलः - क. ।


श्वः प्रभाते यथा देवि नन्दिना सह नन्दिनि ।
यामोशोकतरोः[^६] पार्श्वं तथा कुरु गिरीन्द्रजे ॥५॥

साकाशजलपातालम्[^७] जगज्जननि तत्र हि[^८] ।
पिण्डीकृतं त्वद्धितार्थे[^९] भविष्यति गिरेः सुते ॥ ६॥

अनेन चामन्त्रयता नन्दिना वै द्विजोत्तमान् ।
क्रान्तं त्रिविक्रमाक्रान्तं[^१०] नारायणपदत्रयम् ॥७॥

सोहमस्य वरारोहे वरेण्ये[^११] वरदायिनि ।
वरं दास्यामि वरदे यदि ते रुचितं प्रिये ॥८॥

अथ देवी दिवोनाथं डिण्डिमुण्डेश्वरं[^१२] हरम् ।
अवदद्वरदं कान्तं कान्तं चन्द्रार्धभूषणम्[^१३] ॥९॥

अयन्नन्दीश्वरो देव आवयोः परमो हितः ।
वरकोटीसहस्राणि त्वत्तोर्हति न संशयः ॥8.162.१० ॥

वरदो ह्यसि लोकानां लोकानामपि चेश्वरः ।
यदि तुष्टोसि शैलादेर्दिशस्व प्रवरं वरम् ॥ ११ ॥

कृत्तिवासास्ततो देवो मूर्ध्न्युपाघ्राय नन्दिनम् ।
उवाच प्रमथेशानं[^१५] व्रियतामीप्सितो[^१६] वरः ॥१२ ॥

ततः कपीन्द्रवदनः सुरेशसदृशद्युतिः ।
प्रणम्य शिरसा प्राह नन्दी शङ्करवल्लभः[^१७] ॥१३॥

प्रभावात्तव देवेश वरदास्म्यजरामरः[^१८] ।
भोगवान् पूजितः पूज्यैर्देवदानवकिन्नरैः ॥१४॥

किं मे वरेण योहं ते वरकोटिप्रपूजितौ[^१९] ।
पश्यामि चरणौ शर्व साम्बस्य प्रमथार्चितौ ॥ १५॥


माया… - क, यामी ( म्य शोकतरोः - ख., याह्यशोकतरो - घ. । ७ सकालजलपातालं - घ. । ८ जगत्सर्वं निमन्त्रितं - घ,… मन्त्र(त्र - क. । ९ त्वद्धितार्थं - ख. ग । १० त्रिविक्रमम् - घ., …माक्रान्त - क. ग. । १५ वरदो - घ । १२ चण्डाण्डेश्वर - घ । १३ कान्तचन्द्रार्धभूषणम् - क. ग. । १४ सर्वेषां - घ । १५ प्रमथेशान - क. । १६ वृयतामीप्सितो - क. ग. । १७ नन्दीशो हरवल्लभः - घ. । १८ वरदास्म्यजरामरः - क. ग. । १९ प्रपूजितैः - क. ।


वरेण तु ममानेन गोपते यदि तुष्यसि[^२०] ।
नित्या भवतु मे भक्तिस्त्वयि साम्बे महेश्वर[^२१] ॥ १६।
शिष्टानां मद्विशिष्टानां गणानां गणपाधिपः[^२२] ।
त्वया कृतो देववर किमतोन्यत् करिष्यसि ॥ १७॥

इत्येवं नन्दिनं देवो भाषमाणं तदा नतम्[^२३] ।
प्रीत्यापश्यद्[^२४] विरूपाक्षः शशाङ्ककृतशेखरः ॥ १८ ॥

ततोत्पलनिकाशेन करेण भगवान् हरः ।
प्रमृज्य प्राह हर्षेण हर्षयन् नन्दिनं भृशम् ॥ १९॥

भक्तिमानसि मे[^२५] नन्दिन् सदारं सगणाश्रयम् ।
तां च भक्तिं पुरस्कृत्य पार्श्वस्थोसि मया कृतः ॥ 8.162.२० ॥

सत्याद्धर्मात्तपोदानाद् गोभ्यो वेदेभ्य एव च ।
एभ्यो मे त्वं प्रियतरः सर्वेभ्यो गणपेश्वर ॥ २१ ॥

प्रभाते[^२६] यश्च ते नाम कीर्तयिष्यति लोकप[^२७] ।
सोश्वमेधस्य च फलं सम्यगिष्टस्य लप्स्यते[^२८] ॥२२॥

यश्च त्वां द्वेष्टि विद्विष्टः[^२९] स मे धर्मरतोपि हि ।
यस्य त्वं दयितोसौ[^३०] मे दयितस्तु भवेत् सदा ॥२३ ॥

नमो नन्दीश्वरायेति प्रोच्य यः स्वप्स्यते नरः ।
तस्य कुष्माण्डराजेभ्यो[^३१] न भविष्यति वै भयम् ॥ २४॥

इत्येवं ब्रुवतस्तस्य नन्दीश्वरगुणस्तवम् ।
ब्रह्मणस्तनुरत्युग्रा[^३२] सन्ध्या समभिवर्तत ॥ २५ ॥

सन्ध्याकालन्तु[^३३] कालज्ञः कालः कालनिहा[^३४] हरः ।
उपोढं वीक्ष्य नृत्तस्य देवः कालममन्यत[^३५] ॥ २६॥


तुष्यति - क., तुष्यसे - घ । २१ साम्ब महेश्वर - ग., गणेश्वर - क. । २२ गणपाधिप - क. । २३ नुतं - ख. । २४ पृत्यापश्यद् - क. । २५ मां (?) । २६ प्रयतः - ख । २७ लोकपः - क. । २८ लक्ष्यते - ख. । २९ वै द्वेष्टि - क । ३० दयितः सो - क. ग. । ३१ कुष्माण्डराजभ्यो - क. । ३२. रव्यग्रा - ख, ग. । ३३ सन्न्ध्याकालन्तु - क. ग. । ३४ कालावहो - घ. । ३५ यं रक्तं वीक्ष्य संसारं कालं मत्वेत्यजोव्ययः - घ. ।


उपस्पृश्य ततः सोद्भिरपां स्रष्टा त्रिलोकपः ।
अन्वास्त[^४६] भगवानि सन्ध्यां लोकसंस्थां नु पालयन्[^४७] ॥२७
प्रसारितकरो देवो न्यस्तजानुकमण्डलः[^३८] ।
प्रसरितकरो व्योम्नि दिवाकर इवाभवत् ॥२८॥

जप्त्वा तु परमं जप्यं त्रिवेदरससम्भवम ।
भवः प्रनृत्त्य[^३९]च्चतुर[^४०]श्चतुरं चतुरानन[^४१] ॥२९॥

भर्त्तारं वीक्ष्य नृत्यन्तं[^४२] विषक्तकरपल्लवम् ।
सहधर्मचरी देवी भर्त्तारं सान्वनृत्यत[^४३] ॥8.162.३० ॥

दम्पती वीक्ष्य नृत्यन्तौ साट्टहासं गणाग्रणीः ।
प्रानृत्यत[^४४] ततो नन्दी देवयोः प्रीतिमावहन् ॥३१ ॥

देवमम्बाञ्च नृत्यन्तौ नन्दिनञ्च समीक्ष्य तु ।
प्रमथा नीलमेघाभाः[^४५] प्रनृत्तास्तूर्यनिस्वनैः ॥३२॥

ततो भेर्यो झर्झराश्च[^४६] किखिरानकमण्डुकाः[^४७] ।
आडम्बरा डिण्डिमाश्च शङ्खाश्चैव प्रसस्वनुः ॥ ३३ ॥

मुहुर्मुहुः साधयते नृत्तं चतुरमम्बिका ।
नन्दी विसृजते[^४८] हासं प्रमथा नेदुरुल्बणाः ॥ ३४॥

तत्तूर्यवरशब्दाढ्यं[^४९] शिवाशनिरवाकुलम् ।
सन्ध्यामुखं बभौ रौद्रं वडवामुखसन्निभम् ॥३५॥

ननृतुर्जहसुश्चान्ये[^५०] जजपुश्च तथापरे ।
जगुश्चान्येतिमधुरं गन्धर्वा इव पार्षदाः ॥३६ ॥

ततोम्बरतलापीडे पूर्णविम्बेतिनिर्मले ।
मृगाङ्के ह्युदिते चन्द्रे चन्द्रावयवभूषणः[^५१] ॥३७॥


अन्वास्ते - क. । ३७ लोकसंस्थान्तु पालयन् - घ . . . . भिपालना (नी म् (नात्) -कः। ३८ जानुन्यस्त(?), कमण्डलुः - क ख. । ३९ प्रहृष्ट - क. । ४० चतुर - ख. । ४१ … ञ्चतुराननः - क. ख., प्रनृत्यच् चतुरः (?) । ४२ नृत्तन्तं - क. ग. । ४३… सत - ख. । ४४ प्रनृत्यत - घ. । ४५ निलमेघाभः - क. । ४६ मर्मराश्च - ख. । ४७ किखरानक - क. ख., मेण्डुका - ग. । ४८ विससृजे - ख. । ४९ खरशब्दाढ्य - क. ख. ग. घ । ५० नर्नतुर्जहसुश्चान्ये - क. ख. ग. । ५१… भूषणे - क. ।


समाप्य नियमं देवः साम्बनन्दीशपार्षदः[^५२] ।
विररामोत्सवात्तस्मात् पार्वतीं चेदमब्रवीत् ॥३८॥

उषित्वा शर्वरीमेतां शर्वर्यमितविक्रमे ।
अशोकतरुकं पुत्रं ततः श्वस्त्वं ग्रहीष्यसि ॥३९॥

धारेयी सा सदर्भायां धरायां[^५३] धारणीधरा[^५४] ।
सुष्वाप देववचनादेकां[^५५] रात्रिं यतव्रता ॥8.162.४० ॥

ततः शतसहस्रांशावुदितेर्केर्कभावनः ।
उमामाह प्रयामेति[^५६] यत्राशोकः सुतः[^५७] स ते[^५८] ॥४१ ॥

ततो भगवती धन्या धनदा धनदार्चिता ।
भवमाह प्रयामेति सिञ्जमानविभूषणा[^५९] ॥४२॥

पादचारेण भगवान् पादपं पादपालयः ।
तमशोकतरु प्राप सनन्दी साम्बिको हरः ॥४३ ॥

स तत्र पिङ्गलं यक्षं[^६०] पिङ्गलानलसन्निभम् ।
साधयानं ददर्शान्नमन्नदं प्रमथैः सह ॥४४॥

अथात्र भक्ष्यभोज्यस्य चोष्यलेह्यस्य च प्रभुः ।
सोपश्यत् पर्वतप्रख्यान् राशीन् राशिविदां वरः ॥४५॥

स साधितं[^६१] ततो दृष्ट्वा यक्षेणान्नं पिनाकधृक् ।
प्रहर्षमतुलं[^६२] लेभे साम्बिकः सह नन्दिना ॥४६॥

ततः पितामहो देवः सह देवाप्सरोरगैः[^६३] ।
तत्रागान्मुदितो भूत्वा[^६४] यत्र साम्बोम्बिकापतिः ॥४७॥

ते प्रणम्य महादेवं[^६५] देवास्तेनाभिपूजिताः ।
परिवार्य तदाशोकमिदमूचुर्हराग्रतः[^६६] ॥४८॥


सपार्षद - ख । ५३ धारया - क । ५४ धरणीधरा - ख. । ५५ देवा (ताम्) - क. । ५६ व्रजाम्येति - घ. । ५७ यत्राशोकसुतः - क., यत्राशोकतरुः - ख. । ५८ सुतः - ख., शुभे - ग. । ५९ सिञ्जन्मणि वभूषणा (?) ॥ ६० पिङ्गलाध्यश - क. । ६१ संसाधितम् (?) । ६२ सहर्षमतुलं - ख. । ६३ देवसुरोरगै - क ख.। ६४ बुद्ध्वा - घ. । ६५ प्रणेमुर्महादेव - ख. । ६६ महासुराः - घ. ।


अद्यप्रभृति वृक्षोयं सर्वतः[^६७] सुखसंयुतः ।
दक्षशापतमोन्मुक्तो भविष्यति दिवौकसः[^६८] ॥४९॥

अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ।
सर्वाभरणपुष्पाढ्यः सर्वगन्धरसान्वितः ॥8.162.५० ॥

सर्वकामप्रदश्चैव इच्छापुष्पफलस्तथा[^६९] ।
भविष्यति न सन्देहो देव्याश्च सुदृढं प्रियः ।५१ ॥

सनत्कुमार उवाच
ततो गिरीन्द्रतनयां गिरीशः प्रणतार्तिहा ।
पश्यान्नपर्वतानेतानिति प्रोवाच कामदः[^७०] ॥५२ ॥

सा वीक्ष्य भक्ष्यभोज्यस्य उच्छ्रयान् पर्वतोपमान् ।
दृढं तुतोष देवेशा पिङ्गलस्य गुहारणिः ॥५३ ॥

सुमालिनं यक्षवरं पिङ्गलं पर्वतात्मजा ।
युयोज वरदानेन तामाह च महेश्वरः ॥५४॥

देवि सर्वमिदं सज्जं भक्ष्यं भोज्यं[^७१] तवोत्तमम् ।
यत्ते मनीषितं कार्यं तत्कुरुष्व किमास्यते ॥५५॥

ततः सातिप्रमुदिता दिव्याम्बरनिवासिनी ।
मनोजवमनुज्ञाप्य शङ्करं भुवनेश्वरम् ॥५६ ॥

दैत्यशोकप्रदा देवी तमशोकं[^७२] विभावरी ।
अलञ्चकार सस्नेहा अलङ्कारैः पृथग्विधैः ॥५७ ॥

आतपत्रं च तस्याग्रे मुक्तादामावभासितम्[^७३] ।
उच्छ्रयामास गिरिजा मयूराङ्गरुहैः सह ॥५८॥

नानावर्णेन चाप्यस्य चन्दनेन सुगन्धिना ।
आमूलादकरोद्देवी वरपङ्काङ्कितां[^७४] तनुम् ॥५९॥


सर्वगः - घ. । ६८ विनिश्चयम् (?) । ६९ स्वेच्छापुप्पफलस्तथा - ग । ७० कामहा - घ. । ७१ भक्ष्यभोज्यं - क. ख. । ७२ तदशोकं - क, तपशोकम्. - ख. । ७३ विभूषितं - क. । ७४ करपङ्काङ्किता - क., करपट्टाङ्कितां - ख. ।


जाम्बूनदमयश्चापि पट्टैर्मणिविराजितैः ।
सर्वतो भूषयामास अशोकतरुकं प्रियम् ॥8.162.६० ॥

तस्य शाखाप्रशाखासु मुक्तादामानि[^७५] पार्वती ।
आबबन्ध[^७६] स तैर्भाति नक्षत्रैरिव चन्द्रमाः ॥६१ ॥

अथ वासोयुगैः श्वेतैस्तमशोकं गुहारणिः ।
वासयामास लोकानां जननी पुत्रलालसा ॥६२॥

श्रीवेष्टकं नमेरुञ्च गुग्गुलं घृतमेव च ।
समवेतं ततो धूपं ददौ देववरप्रदा ॥६३ ॥

ततः शङ्खनिनादेन देवतूर्यरवेण च ।
बलिं बलवतो भार्या चकार चरती तपः ॥६४॥

तथार्चयन्त्यास्तं[^७७] वृक्षं चन्द्रहारामृतप्रभम् ।
स्तनाभ्यामस्रवत् क्षीरं[^७८] पुत्रस्नेहाभिसङ्गमात्[^७९] ॥६५॥

उमया[^८०] सोर्चितो वृक्षः अशोको वनदीपकः[^८१] ।
अतीव शुशुभे तत्र वसन्त इव रूपवान् ॥ ६६॥

नन्दिनाथ समानीतान् ब्राह्मणान् ब्रह्मणः समान् ।
वाचयामास पुण्याहं दत्त्वा तेषां यथेप्सितम्[^८२] ॥६७॥

ततः पुण्याहघोषान्ते आशीर्वादस्य चोभयोः ।
अनुमान्य पतिं देवी ऋषीँस्तानब्रवीत्तु सा[^८३] ॥६८॥

अपुत्रा भगवन्तोहमशोकतरुकं[^८४] सुतम् ।
इममद्य[^८५] ग्रहीष्यामि समनुज्ञातुमर्हथ[^८६] ॥६९॥

इत्येवं ब्रुवतीं देवीं पार्वतीं पुत्रलालसाम् ।
सममूचुर्द्विजाः सर्वे इष्टतो गृह्यतामिति ॥8.162.७० ॥

ततः शङ्खरवो[^८७] दिव्यः सर्वतूर्यरवान्वितः[^८८] ।
प्रबभौ पूरयन् सर्वं नारायणपदत्रयम् ॥७१ ॥


मुक्तामाला (ल्या) नि - ख. । ७६ आबबद्ध - ख. । ७७.. र्चयत्यास्तं - क. । ७८. मभवत् क्षीरं (?), क्षीरमभचत् - क. । ७९ सङ्गतम् (?) । ८० उमायाः - क. । ८१ अशोकवनदीपकम् - क. ख. । ८२ गोधनमेव च - घ… ताम् - क.,. तान् - ख. । ८३ ब्राह्मणान्ब्रवीत् (?), बिप्राँस्तानब्रवीत् - क., ऋषीन्वमब्रवीत् - घ. । ८४ अपुत्राह हि भगवन्नशोकतरुक - क.,… हं द्विजाः स्वामी - घ. । ८५ इदमद्य - क इयमद्य - ख । ८६ मामनुज्ञातुमर्हथ (?) । ८७ वरो - घ. । ८८ आडम्बरवरान्वितः - घ ।


वेदानुच्चारयन्[^८९] विप्रा नृत्यन्त्यप्सरसां गणाः ।
नेदुश्च प्रमथास्सर्वे सगन्धर्वमहोरगाः ॥७२ ॥

ऋतवः षट् च संहृष्टाः स्वैः स्वैः कुसुमसञ्चयैः ।
अलञ्चक्रुरशोकञ्च तच्च दैवतमण्डलम् ॥७३ ॥

तत्प्रवादितगान्धर्वं प्रनृत्ताप्सरसां गणम् ।
पश्यन्ति हृषिता देवा अशोकतरुकोत्सवम[^९०] ॥७४॥

वादयन् कच्छपीं वीणां वीणावादयतां वरः[^९१] ।
नारदो नृत्यते हर्षाद् वातनुन्न इवानलः[^९२] ॥७५॥

तपोधनैश्च धनिनो देवैश्च धनदार्चिता ।
पूज्यमाना बभौ तत्र रवेरिव यथा प्रभा ॥७६॥

समाप्य नियमं साथ गृहीत्वाशोकपुत्रकम्[^९३] ।
गिरीन्द्रतनया[^९४] भाति धरा इव जलोक्षिता ॥७७॥

अथ नन्दीश्वरादिष्टाः प्रमथास्ते सहस्रशः ।
अददन् स्वासनान्याशु विप्राणां विप्रवत्सलाः ॥७८॥

स्वर्णानां राजतानां च स्फटिकानां[^९५] प्रभावताम् ।
प्रमथैः कीर्यमाणाना[^९६] मासनानामभूत् स्वनः ॥७९॥

मेरोः शिखरवर्षाणां महती कुशजैरिव (?
तथासनान्युद्वहतां प्रमथानां बभौ रवः[^९७] ॥8.162.८० ॥

वर्षान्नमृष्टाकामानां (?) मेघानां स्तनतामिव ।
स्कन्धस्थैश्च करस्थैश्च उत्तमाङ्गस्थितैरपि[^९८] ॥८१ ॥

आसनैः प्रमथा रेजुः सार्काग्नय इवाचलाः ।
आनयन्त्यपरे तूर्णमपरे धारयन्त्युत ॥८२ ॥

प्रमथास्ते[^९९] हृष्टरूपा ह्यासनानि महासनाः ।
एकैकयोजनशतं विस्तृतायोजनान्तरम् ॥८३ ॥


सामान्युच्चारयन् - घ । ९० शक्रब्रह्म पुरोगमाः पुरोगमा - - घ । ९१ वीणा वादयितां - क. ख । ९२ गन्ध- नुन्न इवाचलः - घ. । ९३ कं स (सु) त - घ. । ९४ ववर्ष हर्षिता - घ । स्फाटिकानां - घ. । ऽ १ क्रीयमाणानां - घ., सीर्य (?) । ९७ प्रमथानामभूद् (?) । ९८ शतैरपि - घ. । ९९ प्रकृतास्ते - घ. ।


असंसक्तासना पङ्क्तिर्निर्मिता विश्वकर्मणा ।
मन्दरस्य शुभे[^१००] पृष्ठे विप्रपङ्क्त्यो विनिःसृताः ॥८४॥

तपनैर्निर्गतैः सर्वैः समामेघास्वसेचतान्? ॥८५ ॥

स्नाते पथ इव दृष्टवा रेजुरासनभूषणाः ।?
सहस्रपङ्क्तयस्तास्तु मन्दरे विस्तृते[^१०१] गिरौ ॥८६ ॥

द्विजातीननुलिप्ताँस्तु यक्षजम्बालमिश्रकान् ।?
सशेखरान् सस्रग्दामाननुहूय समोद्यतान्? ॥८७॥

मन्दारैस्तु[^१०२] ससन्तानैः पारिभद्रैस्तथैव च ।
अनिलैः साङ्गनादाश्च (?) रेजुर्देवा इव द्विजाः ॥८८ ॥

सुश्लक्ष्णैश्च सुगन्धैश्च गन्धचूर्णैः सपिञ्जरैः ।
अवकीर्णास्ततो देवैर्भूमिदेवाः समन्ततः ॥८९॥

दिव्यचन्दनपङ्काङ्का दिव्यचूर्णावचूर्णिताः ।
ब्राह्मणा रेजुरेकस्था एकस्था इव पावकाः ॥ 8.162.९० ॥

दिव्यं धूपं चारयित्वा मामाज्ञा (?) सर्वशश्च ह ।
ततः स्फटिकसङ्काशं पद्मरेणुरिवार्जिताः (१) ॥९१ ॥

हस्तशौचं मुहूर्तेन दत्तं शङ्करकिङ्करैः ।
बद्धकक्षास्ततः शूरा बद्धकक्षा इव द्विपाः ।
परिवेष्टुमुपक्रान्ताः प्रमथा ब्राह्मणर्षभान् ॥९२॥

भाजनान्यथ स्वर्णानि राजतस्फाटिकानि च ।
मुहूर्तेन द्विजातीनां ददुर्देवा[^१०३] विनीतवत् ॥९३ ॥

हृत्वा हृत्वा बभूरेखं दण्डे वारि समण्डलम् (?) ।
भक्ष्यभोज्यान्नपानानि[^१०४] ददुः सम्यक् समन्ततः ॥ ९४॥

अर्थवद्यो हरिपुरासराटपुरकान्यपि[^१०५] ।
नेत्रस्थं हृदयस्थं च मुखस्थं हस्तसूचितम् ॥९५॥


शुभाः - व. । १०१ विसृते - घ- । १०२ मन्दरैस्तु - घ. । १०३ दधुर्देवा (?) । १०४ भोक्ष्य- भोज्यानि पानानि - घ. । १०५… त्यपि - घ ।


ब्राह्मणानां विदुश्चैव ददुश्च प्रमथाधिपाः ।
भृङ्गारैः काञ्चनैः केचित्[^१०६] पानीयं गुणवर्धनम्[^१०७]॥९६ ॥

दिशन्तोपि चरन्त्येते पानीयमितिवादिनः ।
अपरे चन्द्ररश्म्याभैश्चामरैः सत्सुगन्धिभिः ॥९७॥

आबीजुर्ब्राह्मणान्[^१०८] हृष्टाः प्रमथाः तपसोनिलः (?) ।
दिव्या देवस्त्रियश्चैव लोकत्रयनिवासिनः ॥९८ ॥

एकैकं ब्राह्मणांस्तत्र सेवन्ते वासवं यथा ।
अप्सरोवारसङ्घाश्च सर्वालङ्कारभूषिताः ॥९९॥

ननृतुर्देवचेतांसि मुष्णन्त्यः सर्वतोदिशम् ।
विश्वावसुर्नारदश्च तुम्बुरुः पर्वतस्तथा ॥8.162.१०० ॥

कुस्तुम्बुरुः शालिशिराः पर्जन्यो गण्डमण्डकः ।
चित्राङ्गदश्चित्रसेनश्चित्रश्चित्ररथस्तथा ॥ १०१ ॥

एते दैवतगन्धर्वा रक्तातोद्या हरप्रियाः ।
दिव्यतानेषु गायन्ति गेयं मन्मथदीपनम् ॥१०२॥

नमेरुर्गुग्गुलून्मिश्रो घृतधारावसेचितः[^१०९] ।
धूपः सञ्चार्यते तत्र प्रतीहारीभिरुत्तमः[^११०] ॥ १०३ ॥

यदर्थमेष भ्रमति नारायणपदत्रये ।
पूज्यमानः सुरैः सेन्द्रैः श्लोको धूपत्रयाङ्कनः[^१११] ॥ १०४॥

गुग्गुलोश्च नमेरोश्च आज्यधूपस्य चैव ह ।
तृप्तिं न देवा गच्छन्ति प्रियाणामिव दर्शनात् ॥ १०५॥

त्रयाणामेव धूपानां जहुर्न पवना गतिम्[^११२] ।
गुग्गुलोश्च नमेरोश्च आज्यधूपस्य चैव ह ॥ १०६॥

तं दृष्टवा चन्द्रमौलिस्तु[^११३] तरुकोत्सवमीश्वरः ।
पार्वतीहर्षदो हर्षं पुपोषानुत्तमं मुहुः[^११४] ॥१०७॥


कश्चित् - घ. । १०७ वर्द्धत. - घ । १०८ अविदुर्ब्राह्मणान् - घ. । १०९… वसेचितं - क. । ११० प्रतीहारिभिरुत्तमः (?) । १११ ङ्करः - क., कङ्कणः - ख. । ११२ न जहद् गन्धमागतं - घ. । ११३ ततः स कृतातुलाल ( ?) - घ. । ११४ बहु - घ. ।


हृष्यमाणे पशुपतौ मुहुर्व्रतपतौ हरे ।
चराचरं पशुपतौ त्रैलोक्यं[^११५] हर्षणायते[^११६] ॥ १०८ ॥

प्रनृत्ताप्सरसोवारं[^११७] दिव्यधूपाधिवासितम् ।
ऋतुभिः[^११८] कुसुमैः कीर्णं तत्सदो गगनायते ॥ १०९॥

ततः शाल्योदनं तूर्णं - - - - - - - - ११९ ।
तेन तेमृतकल्पेन सर्व एव द्विजोत्तमाः ।
भक्ष्यभोज्यान्नपानेन ततृपुर्लोकपूजिताः[^१२०] ॥8.162.११० ॥

ततः श्रुतिसुखः पुण्यो राक्षसासुरवेजनः ।
पुण्याहशब्दः प्रकृतो विप्रैस्त्रैलोक्यपूरणः ॥ १११ ॥

ततः साम्बमशोकं तं सहरं सह नन्दिना ।
कुसुमाक्षतसंयुक्तमाशीर्भिरभिनन्द्य च ॥११२॥

महान्तः सुस्वनाः सर्वे ब्रह्मसूत्रजटाधराः ।
प्रणमन्तो विरूपाक्षं ययुर्विप्रा यथागतम् ॥ ११३ ॥

सुराश्च पूजिता दानैर्वाक्प्रदानैश्च शूलिना ।
यथागतं[^१२१] गताः सर्वे परिवार्य शतक्रतुम्[^१२२] ॥ ११४॥

गणाश्च गणपालेन[^१२३] पूजिताः सगणाधिपाः ।
यथावासं ययुः सर्वे हर्षादुद्धूतवाससः ॥ ११५॥

अहो देव्या हि सौभाग्यमहोस्या[^१२४] वल्लभो हरः ।
अहो देवस्य देव्यर्थं सम्भ्रमो लक्षितो हि नः ॥११६ ॥

या नैवं[^१२५] दयिता भर्त्तुर्यथेशस्य गिरेः सुता[^१२६] ।
कथं सा सुभगा नाम स्त्रीत्वं चापि बिभर्त्ति किम् ॥ ११७ ॥


पशुपातेस्त्रैलोक्यं - ख. । ११६ हर्षं जायते - क. ग । ११७ वारी - घ. । ११८ धातुभिः - घ. । ११९ इतः परं कतिपयोंशः खण्डितः । १२० ततृपुर्लोकपूजिताः - क. ख. ग. । १२१ पितामहं - क. ग. । १२२ शतक्रतु - क.,… तु - ग. । १२३ गणपाः सर्वे - कः ग. । १२४.. तिसौभाग्यमहोस्या - क., भि… - ख. । १२५ नैव - ग. । १२६ सुतां - क. ग. ।


गिरिपुत्र्या कृतं मन्ये तपः परमभास्वरम् ।
तपसाभिजितो[^१२७] यस्या वरदो[^१२८] वृषभध्वजः ॥ ११८॥

अहो स्त्रीणां बलं सूक्ष्मं देवैरपि सुदुर्जयम् ।
येन रुद्रसमा ईशाः स्त्रीणां वश्यत्वमागताः ॥ ११९ ॥

अन्ये तानब्रुवँस्तत्र महात्मानो गणाधिपाः ।
देव एवैष रूपेण भार्या भूत्वावतिष्ठते[^१२९] ॥ 8.162.१२० ॥

मावमन्यत देवीं तां योगात् किं नावबुध्यथ ।
इत्येवं जल्पमानास्ते अन्योन्येन[^१३०] गणोत्तमाः[^१३१] ।
जग्मुः स्वभवनान्येव दीप्यमाना यथाग्नयः ॥ १२१ ॥

देवोपि नन्दिना सार्धं सोम्बया[^१३२] चाभिरूपया ।
अशोकतरुकस्याध उपविष्टोम्बिकार्चितः[^१३३] ॥ १२२ ॥

ततः प्रणम्य[^१३४] वरदं[^१३५] सोमा[^१३६] सोमविभूषणम् ।
उवाच वचसां योनिर्भूतसङ्घपतिं पतिम् ॥ १२३ ॥

सुनिर्वृतास्मि संवृत्ता त्रिपुरान्धकसूदन[^१३७] ।
यन्मयाशोकतरुकः पुत्रः[^१३८] प्रकृतकः कृतः ॥१२४॥

समस्तव्यस्तमखिलं त्रैलोक्यं लोकभावन ।
समागतं त्वत्प्रभावात् मम पुत्रतरूत्सवे[^१३९] । १२५॥

नूनं मे सुकृतं देव तपः परमभास्वरम् ।
लब्धोसि यन्मया देव सर्वभूतपतिः पतिः ॥ १२६ ॥

देवैर्यच्चापि[^१४०] मुषितमिष्टपुत्रफलं पुरा[^१४१] ।
तन्मे सर्वं[^१४२] व्यपगतं प्राप्याशोकतरुं सुतम् ॥१२७॥

मत्तो[^१४३] धन्यतरा देव[^१४४] नास्त्यन्या त्रिदिवे[^१४५] ङ्गना[^१४६] ।
पतिर्व्रतपतिर्वीर[^१४७] यस्या मे त्वं महेश्वर[^१४८] ॥ १२८॥


निर्जितो - घ. । १२८ वशगो - घ. । १२९ भूतावतिष्ठते - क ग, भार्याभूतो.. (?) । १३० अन्योन्यं तु - घ. । १३१ दिवौकसः - घ. । १३२ साम्बया - क., सोमया - घ. । १३३.. म्बिकाश्रितः - घ. । १३४ ततो- भिपूज्य - घ. । १३५ वरदां - घ. । १३६ सोमं - क. घ. । १३७ त्रिपुरान्तक - घ. । १३८ पुत्र - क. । १३९ तरुपुत्रमहोत्सवे (?) । १४० देवैर्यच्चात्र - घ. । १४१… मिष्टं पुत्रफलं - घ. । १४२ सव्यं (त्यम्) - क. । १४३ मया - घ. । १४४ देवि - क. । १४५ त्रिदिवो - ख., त्रिदिवा - घ. । १४६ त्रिदिवाङ्गना - ख. ।ऽ १४७ पतिता पतिवीरस्य - घ. । १४८ महेश्वरः - क. ख. ।


भवं भवानी प्रीत्यैवमुक्त्वा मुक्तावलीधरा ।
पपात पद्भ्यां देवस्य नेत्रास्रापूरितेक्षणा ॥ १२९॥

तामुत्थाप्य गिरीशस्तु परिष्वज्य च पीडितम्[^१४९] ।
निवेश्य - - - रुमूरूभ्यां[^१५०] सस्नेहमिदमब्रवीत्[^१५१] ॥ 8.162.१३० ॥

देवी सती च साध्वी च सहधर्मचरी च मे ।
ब्रह्मण्या च शरण्या च त्वं मे नित्यं प्रिया प्रिये ॥ १३१ ॥

अकार्यमपि कार्यं हि अतो[^१५२] देवि मया तव ।
किं पुनर्यद्यशोन्मिश्रमीदृशं[^१५३] धर्मसंयुतम् ॥ १३२॥

तर्पिता ब्राह्मणा देवि देवाश्च सगणास्त्वया ।
गृहीतः पुत्रकश्चायं त्वयाशोकतरुः प्रिये ॥ १३३ ॥

एहि देवि गृहान् याम सम्पूर्णस्ते मनोरथः ।
भूयः सुतं[^१५४] तं द्रक्ष्यामः स्तबकैः समलङ्कृतम् ॥ १३४॥

इत्युक्ता पतिना साध्वी हर्षपूर्णमुखेक्षणा ।
प्राहेदं वचनं तत्र हरितं हरिणेक्षणा[^१५५] ॥ १३५॥

हरिणाक्ष स्थितमिह[^१५६] अमुं[^१५७] पुत्र सुपुत्रकम् ।
गोपायस्व हरे यत्नाद् गजाश्वाच्चाण्डजाण्डपात् ॥१३६॥

यदि वापि भवेदेष स्तबकैः समलङ्कृतः ।
अशोकपुत्रको मह्यं तदा मां द्रष्टुमर्हसि ॥ १३७॥

इति सन्दिश्य हरितमुद्भ्रान्तहरिणेक्षणा ।
सापाङ्गचक्षुर्विक्षेपं कृत्वोमा पतिना सह ।
विवेश सदनं देवी प्रभेवादित्यमण्डलम् ॥ १३८॥

इति पशुपतिना सहैव देवी सुतमुपगृह्य तरुं ह्यशोकपोतम्[^१५८] ।
प्रमुदितगणमध्यगा विवेश स्वभवनमेव तदा प्रहृष्टचित्ता ॥ १३९॥

इति स्कन्दपुराणे अशोकतरुपुत्रग्रहणे द्विषष्ट्युत्तरशततमोध्यायः