सनत्कुमार उवाच
शक्रेण तु कृतानुज्ञो नन्दी प्रमथनायकः ।
ब्रह्मणो भवनं गन्तुं मतिं दध्रे महाद्युतिः[^१] ॥ १ ॥
स मुहूर्त्तान्महावेगो महावेग[^२] इवानिलः[^३] ।
वैराजं भवनं प्राप्तश्चतुर्वक्त्रस्य पार्षदः ॥२॥
हतक्लमां स तु सभां सभां मेरुगिरेरिव ।
विवेश नन्दी तेजस्वी दिवाकरकरो यथा ॥३ ॥
प्रभु - रव्र. । ५० मन्दरावासमव्यग्र - ग., मन्दरावासिनव्यग्रः - घ । ५१ धर? । ५२ ग्रहिष्यति - क ख. । ५३ भूमिपः (प) - क. ग. (ख) ॥ ५४ द्विजापूर्वं - ग. । ५५ मनन्दयन् - ग. । ५६ त्सवम् - क. ग । ५७ देवेश - क. ।
महामतिः - ख. । २ मुहुर्त्तं स महावेगो - ग, । ६ इवानलः - क. ।
तां कथामिव चित्रार्थां चित्रार्थैर्बहुभिर्युताम् ।
ददर्श[^४] स सभां नन्दी बह्वाश्चर्यसमाकुलाम्[^५] ॥४॥
तस्यां सभायामालीनं यतिभिस्सह सोद्भुतम् ।
अपश्यदब्जजं नन्दी देवैः पञ्चभिरावृतम् ॥५॥
वेदार्थं भाषमाणं तम्[^६] यतीनां परिपृच्छताम् ।
ताँश्च भाष्यविदः सर्वान् श्रुत्वा साध्विति वादिनः ॥६॥
नन्दी पितामहं सम्यक् पूजयामास सत्वरम् ।
ततः पितामहः प्राह नन्दिनं गणनायकम् ॥७॥
किं चिरादागतोसीति स च तं प्रत्यभाषत ।
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ॥८ ॥
भगवँस्तत्र[^७] देवस्त्वां निमन्त्रयति शङ्करः ।
इमांश्च तपसाग्न्याभान्[^८] सवेदान् वेदवादिनः ॥९॥
निमन्त्रयति देवेशो यज्ञकोटीनिमन्त्रितः[^९] ।
यतिभिस्सह सर्वस्त्वं मन्दरं चित्रकन्दरम् ॥ 8.161.१० ॥
व्रज मानद देवानामेवमाज्ञापयत्यजः ।
इत्येवं वचसां कर्ता वचः श्रुत्वा स नन्दिनः ॥११ ॥
जप्यप्रियमुवाचेदं हृष्टरूपः[^१०] पितामहः ।
नन्दीश्वर व्रजस्व त्वमविघ्नेन शिवेन च ॥१२॥
अहमप्यागमिष्यामि एभिस्सह शिवान्तिकम् ।
मोक्ष्यते चाप्यशोकोसौ दक्षशापकृतं तमः ॥ १३ ॥
पुत्री हिमवतो देवी यं ग्रहीष्यति पुत्रकम् ।
इत्युक्तः प्रतिमान्येश[^११]मीशस्य[^१२] दयितोग्रणीः ॥१४॥
ब्रह्मणो भवनात्तूर्णं क्षीरोदमुदधिं ययौ ।
मालामिव समुद्रस्य स तु वेलाममालिनीम् ॥ १५॥
ददृशे - क. । ५ अश्चर्य बहुसङ्कुलाम् - क ख. । ६ स विभाषन्तं - क. ख. । ७ भगवांस्तत्र - क. । ८ तपनाभासान् - ध. । ९ कोटिनिमन्त्रितः - ख ग. । १० दृष्टरूपः - क. । ११ इत्युक्तस्तु प्रणम्याथ - घ. । १२.. .मीशेश - क. ख. ।
गणेश्वरसदोमुख्य आससाद दुरुत्सहाम् ।
स वेलानिलयान् विप्रान् वालखिल्याँ[^१३] स्तपोधनान् ॥१६॥
नानानियमसंयुक्तानपश्यद्[^१४] गणनायकः
वन्दमानं[^१५] तमालोक्य गणेशं सुयशापतिम् ॥१७’ ।
आशीभिरनुकूलाभिर्ननन्दुस्ते[^१६] तपोधनाः ।
तपोधनानां हृष्टानां नन्दी मध्यगतो बभौ ॥ १८॥
ग्रहाणां सौम्यरूपाणां यथा[^१७] मध्यगतोडुपः[^१८] ।
अथ पाद्यार्घ्यदानेन फलदानेन वैव हि ॥१९॥
सम्पूज्य नन्दिनं देवं बालखिल्यास्तमब्रुवन् ।
कुतश्चिरस्यागमनमिह ते प्रमथाधिप ।
कच्चिद् द्रक्ष्याम देवेशं साम्बमम्बापतिं भवम् ॥8.161.२० ॥
ततो नन्दी द्विजश्रेष्ठान्[^१९] श्रेष्ठो वै प्रमथाधिपः ।
सालाङ्कारमिदं वाक्यमब्रवीद् द्विजसंसदि ॥२१ ॥
मन्दरे साम्बिको देवो नेहागच्छति शङ्करः ।
इह चागमनं[^२०] यन्मे तच्छृणुध्वं तपोधनाः ॥२२ ॥
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
तत्र वो गोपतिर्देवो निमन्त्रयति शङ्करः ॥ २३ ॥
श्वः सर्वे दारसहिताः सशिष्यतनयाग्नयः ।
मन्दरं यात विप्राग्र्या मामम्बां[^२१] चानुगृहणत[^२२] ॥२४॥
इत्येवं नन्दिना प्रोक्ता बालखिल्या[^२३] महर्षयः[^२४] ।
देवे भक्ति[^२५] प्रकर्षेण[^२६] गणेशमिदमब्रुवन् ॥ २५॥
भो नन्दिन्नागमिष्यामः श्वः प्रभाते वयं प्रभो ।
पर्वतं याह्यविघ्नेन मन्दरं चारुकन्दरम् ॥२६॥
बालिखिल्याँ - क ख. । १४ लीलानियमसंयुक्तानपश्यद्।१५ वन्द्यमान-क। १६ स्तं-घ ख। १७ स्थितो - क. ख. । १८ इवोडुपः ( ?) - घ ॥ १९ नन्दिर्द्विजश्रेष्ठान् - ख. । २० त्वागमनं - घ. । २१। माम्बां - क ख । २२ च नुगृहणथ - क ख., गृह्य च - घ । २३ बालिखिल्या - क. ख. । २४ महाबलाः ख. । २५ देवभक्ति क । २६ प्रहर्षेण - क ख. । २७ देवेश - घ. ।
स बालखिल्यैः प्रणतोभिपूजितो
निमन्त्र्य[^२७] सर्वान् त्रिपदे द्विजोत्तमान् ।
पुनर्निवृतोभिजगाम मन्दरं
स यत्र देव्या सहितोवतिष्ठते ॥२७॥
अथ भुवनपतिं पतिं सुराणां
गिरितनयामुखपङ्कजद्विरेफम् ।
धनदवरदमेत्य भूतनाथं
गणपतिनाथ इदं तदावभाषे ॥२८ ॥
दिवि च भुवि च ये चरन्ति विप्राः
शमदमसंयमशौचसत्वयुक्ताः[^२८] ।
त्रिपुरदमन कालनाश सर्वे
तव वचनाद्विनिमन्त्रिता मया ते[^२९] ॥ २९॥
इति स्कन्दपुराणे तरुपुत्रग्रहणे विप्रामन्त्रणं नाम एकषष्ट्युत्तरशततमोध्यायः