सनत्कुमार उवाच
आमन्त्र्य तानृषीन् सर्वान् सत्यवीर्ययशःश्रुतान् ।
नन्दी विसर्जितस्तैस्तु ययौ सूर्यरथं प्रति ॥१ ॥
स तं सप्तोत्तमहयं शकुन्तवरसारथिम् ।
हराज्ञया रविं देवमुपासर्पत भूतपः ॥२ ॥
चिरस्यास्य उदयो - क- । ६१ त्प्रभः - ख., प्रहः - क. । ६२… र्यतो - ग. । ३ तपोस्माकं गणेश्वर (?) । ६४ ससोमं - क. । ६५ सह - क. ख. । ६६ सुसत्यान् - क. । ६७ मिदमाह - क. । ६८ दयितं (?) । ६९ मिदमाश्रमम् - क ख. । ७० द्रक्ष्यते - क. ख । ७१.. मर्तिनिखिलं - घ. । ७२ हिवाहे - ख. ।
सूर्यरश्मिसहस्रेषु तापसान् स मरीचिपान् ।
अपश्यत् स१ सुखासीनान् छायास्विव विहङ्गमान् ॥३ ॥
ततः सूर्यरथं शीघ्रमुपेत्यारुणसारथिम ।
सोंशुमालिनमत्रिञ्च अथर्वाङ्गिरसावपि२ ॥४॥
देवानृषीन् भुजङ्गाँश्च अश्वाँश्चामन्त्रयच्छुभः३ ।
आदित्याश्वादिभिर्नन्दी रुद्रपिप्रीषुभिस्तदा । ५॥
तथेत्युक्तोपचक्राम सूर्यवाहा४दथ द्रुतम् ।
देवानृषीन् भुजङ्गाँश्च तत आमन्त्र्य भूतपः ॥६॥
स वायुरिव शीघ्रस्तु गरुडो वा यथाण्डजः ।
धनेशभवनं नन्दी कैलासं समुपागतः५ ॥७॥
स तं पाण्डरमेधाभं कुन्देन्दुरजतप्रभम् ।
पर्वतं धनदावासं पश्यमानः प्रहष्यत६ ॥८॥
स भूतेशो धनेशस्य गिरोशवचनङ्करः ।
आससाद नगस्याग्रे७ भवनं काञ्चनं शुभम् ॥९॥
कैलासाग्रे सन्निविष्टम्८ कैलासाग्रसमत्विषम् ।
हर्म्यप्रासादसम्पन्नं सम्पन्नमिव भासितम्९ ॥ 8.160.१० ॥
पताकाभिर्ध्वजैश्चापि किङ्किणीजालमालिभिः१० ।
हासैश्च पुरघोषाणां सन्नादितमहर्निशम् ॥११ ॥
भेर्या परमघोराणां वादित्रशतनादितम् ।
इज्याध्ययनसम्पन्नास्तिष्ठन्त्यत्र११ सभासदः ॥१२॥
भाभिर्जुष्टां सभां तस्य ततो रुद्रसभासदः१२ ।
आससाद स यत्रास्ते मुनेर्विश्रवसः१३ सुतः ॥ १३ ॥
तमृद्ध्या परया युक्तं सेव्यमानं श्रिया तथा१४ ।
अपश्यद् धनदं नन्दी दिव्यस्त्रीगणसेवितम ॥१४॥
सु - क. । २.? सामपि - ख. । ३… च्छुभं - ख. । ४… द्रथाद् - ख. । ५ समुयागतं - क. । ६ पश्यमनोपहृष्यत -क. । ७ न चास्याग्रे - ख. । ८ सन्निविष्टः - ख, । ९ भाषितम् - ख. । १० किङ्कजीजालमःलिभिः - ख., हासिभि (?) । ११ स्तिठँन्स्त्यत्र - ख, तिष्ठन अतिष्ठन् (?) । १२ सभासतः - ख. । १३… र्विश्ववसः - ख. । १४ तया (?) ।
शुक्तिकणं शुक्तिकर्णैर्यक्षेन्द्रैरभिसzवृतम्१५ ।
उपगीयमानz गन्धर्वै१६रेकपिङ्गायतेक्षणमू१७ ॥१५॥
महेश्वरसखत्वेन१८ वरदानमदेन च ।
माद्यन्तं१९ स्वर्णया२० नद्धमालयामललोलया२१ ॥१६॥
धनदश्चापि तं दृष्ट्वा शङ्करानुचरं वरम् ।
पूजयञ्छङ्करं सोम२२ मुत्पपातासनाद् द्रुतम् ॥१८॥
स्वर्णादुत्पतमानस्तु आसनाद् धनदो बभौ ।
साशोकादिव२३ पुष्पाढ्यादुदग्रात् पर्वताद्रविः ॥१८॥
तमुत्पतन्तमुत्पेतुर्यक्षा यक्षपतिं२४ द्रुतम् ।
ग्रहा यथा दीप्यमाना दिनहानौ ग्रहाधिपम् ॥१९॥
नन्दिने२५ स तदार्घञ्च२६ पाद्यञ्चावेद्य वित्तदः२७ ।
सपुत्रदारः सामात्यः२८ प्रणेमे मनसा हरम् ॥8.160.२०॥
ततः कथा बहुविधाः कृत्वोद्दिश्य महेश्वरम् ।
पप्रच्छ धनदो नन्दिं चिरस्यागमनं कृतम् ॥२१॥ नन्द्युवाच
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
निमन्त्रयति तत्र त्वां द्रविणेश महेश्वरः ॥२२॥
श्वः सपुत्रः सदारश्च सानुगः साप्सरोगणः ।
मन्दरं याहि वित्तेश देवेशः प्रीयते२९ त्वया ॥२३ ॥
एवमामन्त्र्य धनदं धनदेन विसर्जितः ।
ययौ संयमनीं३० नन्दी यमस्य यमसन्निभः ॥२४॥
स यमं धर्मवक्तारं हर्तारं प्राणिनां प्रभुम् ।
साग्निं सधर्मं सव्याधिमपश्यद् गणनायकः ॥२५॥
सेवितम् - घ. । १६ गन्धर्वैरुपगीय (त?) न्तं - क. ख. । १७ … रेकपिङ्गायतेक्षणः - क- ग. । १८ सखित्वेन - क ग. । १९ मान्यन्तं - ग., आप्यन्त - ख., साज्यन्तं - घ. । २० स्वर्णया - क. ख., स्वर्णनक्षत्रमालया - घ., नद्धं - क. ग. । २१ माल. - क. ग. मनतोयथा - घ. । २२ पूजां कर्तुं नन्दिनस्तु - घ. । २३ अशोकादिव - घ । २४ रक्षपतिं - ख. ॥ २५ नन्दिनं - क. ग. । २६ तदार्घ्यस्य - क.,. र्घस्य - ग । २७ षः ( पः) - घ. । २८ सामान्यः - ग. । २९ प्रियते - ख. । ३० संयमनं - क. ख. ।
आयान्तं३१ नन्दिनं दृष्ट्वा यमो भूतशतावृतः३२ ।
पादाभ्यां नन्दिनः३३ सोथ निपपात तुतोष च ॥२६ ॥
रुद्रस्येव३४ यमस्तस्य पूजां कृत्वा ह्यनुत्तमाम् ।
पप्रच्छ नन्दिनं यत्नाच्चिरस्यागमनं कृतम् ॥ २७॥
नन्द्युवाच
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
तत्र त्वां३५ सानुगं देवो निमन्त्रयति शङ्करः ॥२८ ॥
ये चैव विषये३६ ह्यस्मिन् निवसन्ति द्विजातयः ।
ताँश्चामन्त्रयते देवः सम्मान्य बहुमानतः ॥ २९॥
कल्यं३७ स भगवान् कल्यः३८ कालः कालप्रियं गिरिम्३९
मानयन् प्रभुमीशानं गन्तुमर्हसि मन्दरम् ॥ 8.160.३० ॥
तथेत्युक्तो यमेनाथ तैश्चाग्निसदृशैर्द्विजैः४० ।
सूर्यात्मजगृहान्नन्दी शक्रलोकं ततो गतः४१ ॥ ३१ ॥
सुकृतीनां तमावासं४२ वासवं लोकमद्भुतम्४३ ।
विवेश त्वरितं नन्दी४४ दितिगर्भं यथाहिहा ॥३२॥
स सुधर्मा सुधर्मायां सुधर्मममरैर्वृतम् ।
गान्धर्वमुपशृण्वानं नन्दी शक्रमपश्यत ॥३३ ॥
शक्रश्च नन्दिनं देवं४५ देवदेवस्य किङ्करम् ।
हर्षान्नेत्रसहस्रस्थं कृत्वा सम्यगपश्यत ॥ ३४॥
स पूजां रुद्रसदृशीमवाप्य त्रिदशेश्वरात् ।
उपाविशदमेयात्मा शक्राभ्यासे वरासने४६ ॥ ३५ ॥
तमासीनमुपासीनः४७ शतक्रतुररिन्दमः ।
पिबन्नेत्रसहस्रेण न तृप्तिं सोभ्यगच्छत४८ ॥ ३६ ॥
आयात - क ग । ३२ भूतशतावृतः - घ । ३३ नन्दिनं - घ. । ३४ रुद्रस्यैव - क ख. ग. । ३५ ततस्त्वां - य. । ३६ ऋषयो - घ । ३७ काल्यं - क ख. ग. । ३८ काल्यः - ख । ३९ गिरिप्रियः -घ. । ४० सतैश्चाग्निसदृशैर्द्विजैः - क । ४१… गमत्-ख । ४२ तदावासं - क. ख. ग । ४३ वासवस्यामरावतीम् - घ. । ४४ नन्दी त्वरितं - क. ख. । ४५ देवो - ख । ४६ शक्रोद्यानवरासने - घ. । ४७ तमुपास्त - घ, उपसीनं - घ, त - क. । ४८ योभ्यगच्छत - ग. ।
ततो वृत्रबलारिस्तं नन्दिनं दिनकृत्प्रभम्४९ ।
पर्यपृच्छत हर्षेण किं चिरादागतो भवान् ॥ ३७॥
इत्युक्तः स तु देवेन देवः स्वर्गनिवासिना ।
मन्दारवासितोव्यग्रः५० प्रोवाच कुलिशाधरः५१ ॥३८॥
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति५२ ।
तत्र त्वां सामरं देवो निमन्त्रयति भूतपः५३ ।३९॥
द्विजपूर्वं५४ द्विजा ये च तवालयनिवासिनः ।
सपुत्रदाराँस्ताँश्चापि निमन्त्रयति शङ्करः ॥8.160.४० ॥
श्वस्सपुत्रः सदारस्त्वं देवदेवस्य शासनात् ।
मन्दरं गच्छ देवेश गिरीशमभिनन्दय५५ ॥४१ ॥
त्वयि याते सुरश्रेष्ठ अशोकतरुकोत्सवे५६ ।
प्रीतिं यास्यति देवेशः५७ परां सुरनरार्त्तिहा ॥४२॥
शितशूलधरं पिनाकिनं गिरिराजेन्द्रसुतापतिं प्रभुम् ।
प्रणिपत्य महेशमूर्जितं पुनरेवैष्यसि नाकसंसदम् ॥४३ ॥
इति स्कन्दपुराणे विप्रामन्त्रणे षष्ट्युत्तरशततमोध्यायः
प्रभु - रव्र. । ५० मन्दरावासमव्यग्र - ग., मन्दरावासिनव्यग्रः - घ । ५१ धर? । ५२ ग्रहिष्यति - क ख. । ५३ भूमिपः (प) - क. ग. (ख) ॥ ५४ द्विजापूर्वं - ग. । ५५ मनन्दयन् - ग. । ५६ त्सवम् - क. ग । ५७ देवेश - क. ।