१५९

सनत्कुमार उवाच
पार्वत्या निश्चयं ज्ञात्वा भगवान् त्र्यम्बकस्तदा १ ।
सुमालिम्[^२] पिङ्गल यक्षं प्राह वाक्यविदां वरः ॥ १ ॥

भक्तिमन्तम्[^३] महायोगं पुरा लब्धवरं गणम् ।
पार्श्वस्थं नन्दिनम्[^४] तत्र[^५] भगवान् शङ्करः स्वयम्[^६] ॥२॥


नार्हन्ति (?) । ८६ ह्यन्यतरलोलापि - क., द्यतर?.. - ख.,.. लोकापि - घ. । ८७ तस्यैव - ख । ८८ स्सह इव - क ख. । ८९२०७ - ख., १४८ - घ. ।
स्तथा - ख. । रे सुमालं - क. । ३ भक्तिवन्तं - क. । ४ दयितं - घ. । ५ न्तत्र - क. । ६ भगवान- ब्रवीदिदम्? - क ।


पर्वतेन्द्रसुताशोकं तरुं पुत्रं ग्रहीष्यति ।
त्वय्यायत्तं च तत्सर्वं तस्मात् कुरु ममाज्ञया ॥।३॥

यत्राशोकतरुस्तत्र यथान्नमुपलक्षितम्[^७] ।
भवेत् सुप्रचुरं वीर तथा कुरु[^८] गणेश्वर ॥४॥?
प्रदेशश्च गिरेस्तस्य यथा रम्यो भविष्यति ।
तथा विधत्स्व यक्षेन्द्र यत्राशोकतरुः स्थितः ॥५॥

इत्युक्तः परमेशेन पिङ्गलः पिङ्गलेक्षणः ।
उवाच सोमया सार्धं त्रिदशानां पतिं पतिम् ॥६॥

गणाधिप यथाज्ञप्तं तत् करिष्यामि यज्ञहन् ।
यथा सोमः स नन्दी च प्रसन्नो मे भविष्यति[^९] ॥७॥

इत्युक्त्वा सोभ्यनुज्ञातो यक्षो लोकान्तदस्तदा ।
तस्याशोकतरोः पार्श्वे विदधावन्नमुत्तमम् ॥८॥

सुमालावथ निष्क्रान्ते सिंहक्रोधस्त्रिलोचनः ।
नन्दिनं तेजसां राशिर्दिण्डि[^१०] चण्डेश्वरोब्रवीत्[^११] ॥९॥

ब्रह्मण्यान्[^१२] ब्रह्मणान्[^१३] नन्दिन् देवी यज्ञेन यक्ष्यति[^१४] ।
श्वः प्रभाते महाबुद्धे तत्र विप्रैः प्रयोजनम् ॥8.159.१० ॥

स त्वं मत्प्रहितो देव[^१५] यत्र यत्र[^१६] वदाम्यहम् ।
तत्र तत्र गतो विप्रान् निमन्त्रय पदत्रये ॥११॥

औदकायां विरूपास्य[^१७] ब्राह्मणा ब्रह्मसम्भवाः[^१८] ।
उपासते ये वरुणं[^१९] पातालतलसंश्रयाः ॥१२॥

ये सुरेव्यासुऽराद्याश्च[^२०] रसावयवमुत्तम[^२१] ।
पिबन्ति फेनपा नाम तान्निमन्त्रय मा चिरम् ॥१३ ॥

संयमन्यां तथा चैव[^२२] ये यमं पर्युपासते ।
ब्राह्मणा ब्रह्मणा तुल्या[^२३]स्तान्निमन्त्रय भूतप ॥१४॥


यर्थार्थमुपलक्षितम् - घ. । ८ तथार्घन्तु - घ. । ९ भविष्यसि - घ. ।. १० दन्ति - घ. । ११ दण्डेश्वरोब्रवीत् - घ । १२ ब्राह्मण्या - क. टि । १३. न्ब्राह्मणान् - क. । १४ यं भोजयिष्यति - घ. । १५ प्रहितः शीघ्रं - घ. । १६ तत्र - क. । १७ वरुणस्य - घ. । १८ सङ्गताः - क. , सत्तमाः - घ. । १९ वरुणं ये ह्युपासन्ति - क । २० सुरभ्याः सुराद्यञ्च (?) । २१ रसायनवरं शुभम् - घ. । २२ देव - ख. । २३ ब्रह्मणस्स्तुल्था - क. ।


तथोदयगिरेः शृङ्गे सत्यो नाम महाह्रदः ।
राजहंसानुचरितः कान्ततामरसावृतः ॥१५॥

वसन्ति यत्र ते सत्याः[^२४] सत्यानाम तपोधनाः ।
सत्येन येषामादित्यो दिनं नयति नित्यशः ॥१६॥

तेषां निष्कल्मषस्तस्मिन् ह्रदे स्नातो दिवाकरः ।
प्रत्यहं कुरुते देवः प्रयाणं[^२५] शुभकर्मकृत् ॥१७॥

तेषां प्रणम्य शिरसा ह्यात्मानं सन्निवेद्य च ।
सद्भावं दर्शयन्नग्रे नन्दीश्वर निमन्त्रय ॥१८॥

ये चादित्यरथं शश्वत् परिवार्य व्रजन्त्युत ।
अथर्वाङ्गिरसस्तांश्च[^२६] निमन्त्रय गण द्विजान् ॥१९॥

ये च चक्रचराः सिद्धा ये कपोतोञ्छवृत्तयः ।
उपासते ये च शक्रं[^२७] तानामन्त्रय वै द्विजान् ॥8.159.२० ॥

ततो ब्रह्मसदो[^२८] गत्वा ब्रह्मण्यान्[^२९] ब्रह्मणः प्रियान् ।
ब्रह्माणं च सपत्नीकं ब्राह्मणांश्च निमन्त्रय ॥२१॥

क्षीरोदवेलानिलयास्तपोवननिवासिनः ।
ब्रह्मणो भवनादेत्य बालखिल्यान्[^३०] निमन्त्रय ॥२२॥

ये मां सदाराः ससुताः साग्निहोत्रपरिच्छदाः ।
भक्ता येषामहं नित्यं प्रसादसुमुखोग्रणीः[^३१] ॥२३॥

तान् बालखिल्यान् वागीश व्यालानिव दुरासदान् ।
आमन्त्रय यतो भूत्वा सुयशाः[^३२] सुयशापते ॥२४॥

सञ्चरँश्च त्रिभुवनं वायुरव्याहतो[^३३] यथा ।
यान्यतः पश्यसे विप्रान् सर्वानेव निमन्त्रय ॥२५॥

ये चापि प्रमथाः केचिद् गोचरे ते सुरारिहन् ।
ते च सर्वे समायान्तु विप्राणां परिवेशकाः[^३४] ॥२६॥


तस्याः - ख । २५ प्रण मं - क. । २६ साधवोङ्गिरसस्ताँश्च - घ । २७ ये च शक्रमुपासन्ते - क. । चक्र - (?) । २८ ब्रह्मसदं - क. । २९ ब्र ( ब्रा) ह्मणाः - क. । ३० बालिखिल्यान् - क ख. । ३१ गणे - ख । ३२ सुयशः (?) । ३३ वायुरभ्याहतो - ख. । ३४ परिवेषकाः - क. ख, ।


कपर्दिनैवमुक्तस्तु नन्दी सूर्यसमप्रभः ।
शूलं ज्वलन्तमुद्यम्य प्रययौ वरुणालयम् ॥२७॥

सागरं सोम्बराकारं साम्बरोम्बगोचरः[^३५] ।
आससाद प्रवल्गन्तं रङ्गस्थमिव वारणम् ॥२८॥

स तं तिमिशताकीर्णमर्णवं[^३६] प्रमथाग्रणीः ।
प्रविवेश प्रदीप्तोर्कः[^३७] पयोदनिचयं यथा[^३८] ॥ २९॥

सुतले[^३९] स तु पाताले गां गजेन्द्रेन्द्रविक्रमः[^४०] ।
अपश्यत् क्षरतीं क्षीरं दिव्यं तदमृताकरम् । 8.159.३० ॥

सुरभीमभिवाद्यैव शङ्करानुचरोरिहा ।
विवेश नन्दी वरुणो यत्रास्ते सगणोर्चितः[^४१] ॥३१ ॥

स दिव्यवस्त्राभरणं[^४२] पुत्रपौत्रगणान्वितम्[^४३] ।
अपश्यदम्बुगोप्तामादित्ययुतसन्निभम् ३२ ॥

वरुणं द्वारपालेन पूर्वमेव निवेदितः ।
प्रविवेश तदा नन्दी वरुणस्य निवेशनम् ॥३३ ॥

स चाप्यपात्तदा (?) राजा दूरादेव प्रहृष्टवत् ।
दृष्ट्वा नन्दिनमुत्तस्थौ पूजयन्मन्मथार्दनम् ॥३४॥

तस्यार्घं गाञ्च पाद्यञ्च निवेद्य वरुणः स्वयम् ।
आसीनं तमपां गोप्ता पप्रच्छ वदतां वरः ॥ ३५ ॥

भगवन् किं चिरस्याद्य त्वया वयमपेक्षिताः[^४४] ।
दर्शनं देवदेवस्य मन्यामस्तव[^४५] दर्शनात् ॥ ३६॥

विवक्षोरिव ते वक्त्रमिन्द्रगोपायतेनघ ।
वद सर्वानभिप्रायान् कर्ता तेहं न संशयः ॥३७॥

वरुणेनैवमुक्तस्तु तत्परेण शिलादजः ।
ततः स वरुणं प्राह दानवैरपराजितम् ॥३८ ॥


स्ता - क., सोम्बराम्बरगोचरः - घ । ३६ मार्णव - क. ख. । ३७ प्रदीर्णोकः - क., प्रदीपार्चिः - घ । ३८… धिमय - ख., पयोधिमिव भास्करः - घ. । ३९ सुतलं - घ. । ४० गत्वा नागेन्द्रविक्रमः - घ., गजेन्द्रेन्दुविक्रमः- क । ४१ सगणोर्चितः - क., सगणार्चितः ( ?), स्वगणार्चितः (?), सगणोर्चितम् - क । ४२ शस्त्राभरणं - क. ख. । ४३,.. वृताम् - ख. । ४४ मवेक्षिताः (?), मुपे.?. (7) । ५ तव - ख. ।


अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
क्रीडार्थमुमया सार्ध निमन्त्रयति ते हरः ॥३९॥

तद्देव पुत्राभिवृतः सदारः सह फेनपैः ।
श्वो याहि मन्दरगिरिं प्रीतिं वर्द्धय शूलिनः ॥8.159.४० ॥

इत्युक्त्वा सोभ्युनुज्ञातो वरुणेन गणेश्वरः ।
निष्क्रान्तो वरुणावासाच्छ्वेताभ्रादिव भास्करः ॥४१ ॥

स पूज्यमानः सिद्धैश्च[^४६] चारणैश्च सुरैरपि ।
प्रापोदयगिरिं[^४७] नन्दी हरेषुस्त्रिपुरं[^४८] यथा ॥४२॥

सोथ तस्य गिरेः[^४९] शृङ्गे रञ्जिते तापनैः करैः ।
निलिल्ये गरुडः पक्षी प्रभञ्जनपथे यथा ॥४३ ॥

ह्रदं तत्रार्णवाकारं काञ्चनाम्बुजशोभितम् ।
शीर्णोत्पलतरङ्गाढ्य[^५०]मपश्यत्सोप्सरोवृतम् ॥४४॥

ह्रदस्य तस्य रोधस्सु साशोकेषु सहस्रशः ।
अपश्यत ऋषीन् सत्यानादित्यायुतसन्निभान् ॥४५॥

स तान् तपोधनान् दृष्ट्वा तपनाभान् तपोधनान्[^५१] ।
नन्दी प्रह्वाञ्जलिपुटो ह्यासाद्यावन्दत द्विजान्[^५२] ॥४६॥

ते सर्वे नियमान् हित्वा नियमस्थास्तपोधनाः ।
नन्दिनं समयुज्यन्त[^५३] वासद्रुममिवाण्डजाः[^५४] ॥४७॥

तैः सूर्यकिरणापीतैः पीतचीराम्बरैरपि ।
संवृतः स बभौ[^५५] नन्दी जम्बुद्वीप इवाचलैः ॥४८॥

स पूज्यमानो गणपः सत्यः सत्यैस्तपोधनैः ।
अतीव प्रबभौ व्यास तीर्थेष्विव[^५६] महेश्वरः ॥४९॥

ते नन्दिनं[^५७] सुखासीनं सत्यं सत्यास्तपोधनाः ।
ऊचुर्हर्षाकुलैर्वाक्यै[^५८]र्विस्मिताननलोचनाः[^५९] ॥8.159.५० ॥


वरुणं - क । ४७ प्राप्तोदयगिरि - क. ख । ४८ त्रिपुरं - क ख. । ४९ सोदयस्य गिरेः - क. । घातय - ख. । ५० शार्णोपलतरङ्गाक्ष्यं तल - क ख । ९ । ५१ तपोधन (?) । ५२ वन्दिनो द्विजान् - क, वन्द्य तान् द्विजान् - ख. । ५३ सममर्पन्त - घ. । ५४ इवाण्डजाः - क. ख. । ५५ प्रबभौ - क. । ५६ तिथिस्वि र (व - ख. क. । ५७ तन्नन्दिनं - क. ख । ५८ र्हर्षकरैर्वाक्यं - ख., हर्षफलै - क । र्बाह्यै - क. । ५९ . र्विस्तृताननुलोचनाः - क. ख ।


नन्दीश्वर चिरस्याद्य ह्युदयो[^६०] ह्युदयप्रभः[^६१] ।
समाक्रान्तस्त्वया तात धर्मेण निरयो यथा ॥५१ ॥

किमिहानघ देवेशस्त्रिनेत्रस्त्रिपुरार्दनः ।
विहर्तुमागतो देवो दृष्टोस्माभिस्ततो[^६२] भवान् ॥५२॥

सत्यं सुचरितं शुद्धं तपोस्माभिर्गणेश्वर[^६३] ।
सहोमं६४ यत् त्वया सार्धं द्रक्ष्याम इह शङ्करम्६५ ॥५३ ॥

एवं कपीन्द्रवदनो वन्दमानाँस्तपोधनान् ।
स सत्यान्६६ सत्यवचन इदमाह६७ शिलादजः ॥५४॥

    • -६८ मन्दरं शैलं न कथञ्चित्त्यजेदजः ।
      अहन्तु कार्यवानागां युष्माकमिममाश्रमम्६९ ॥५५॥

अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
निमन्त्रयति वस्तत्र सवाञ्छर्वो द्विजोत्तमान् ॥५६॥

मानयन्तो भवं सर्वे साम्बमम्बापतिं द्रुतम् ।
श्वो गच्छत तपोनित्या मन्दरं धरणीधरम् ॥५७॥

तत्र शर्वममराधिपप्रभुं तारकाधिपविभूषणं शिवम् ।
द्रक्ष्यथेशमसुरप्रमर्दनं देवतार्तिनिखिलं हरं७१ हरम् ॥५८॥

इति स्कन्दपुराणे तरुपुत्रकग्रहणे७२ ब्राह्मणामन्त्रणे ऊनषष्ट्युत्तरशततमोध्यायः