व्यास उवाच
अन्धकं गणपं कृत्वा देव्या सह महेश्वरः ।
किं चक्रेतः[^१] परं ब्रूहि नुद कौतूहलं मम ॥१॥
सनत्कुमार उवाच
जित्वान्धकं ततो व्यास कृत्वा च गणनायकम् ।
गिरीन्द्रसुतया सार्धं विजहार सुरार्त्तिहा ॥२॥
च्चादित्यपाकान्ते ? - क. । ३० प्रचरीकृतः - क. । ३१ मम - ख. । ३२ त्वा - ख. । ३३ रात्रौ तथापि - ख. । ३४ एवमुक्तः - ख. । ३५ रराम च - ख. । ३६२०६ - ख. । १ नः - ख. ।
अथ भूतेशजननी षडाननतनूकरी ।
अपृच्छत् पुत्रसम्बद्धं प्रश्नं प्रश्नविदां वरा ॥३ ॥
किमर्थं गीयते देव गाथेयं सद्भिरुत्तमा ।
वरं भूमिरुहाः[^३] पञ्च[^४] न च कोष्ठरुहा दश ॥४॥
षोडशेहाङ्गमङ्गानि भित्त्वा पुत्रोभिजायते ।
तस्मात्पुत्रात् कथं श्रेष्ठः कोष्ठजाद् भुविजः[^५] सुतः ॥५॥
इत्येवं वृच्छतीं पृच्छां शिक्षां दीक्षां क्रियां मतिम्[^७] ।
उमामनुपमां देव इदं वचनमब्रवीत् ॥६॥
सूक्ष्मार्थं एष रम्भोरु यं पृच्छसि वरानने ।
अहं ते तम्[^८] प्रवक्ष्यामि शैलेन्द्रतनयेव्यये ॥७॥
कोष्ठजात्तनयाद्यस्माद् भूमिजस्तनयो वरः ।
शाल्मलौ वैतरण्यां च असिपत्रवनेषु च ॥८॥
कुम्भीपाके रौरवे च महारौरव एव च ।
एवमाद्येषु चान्येषु कुकृतैरनुवेष्टितान्[^१०] ।
शास्यतो मृत्युवचनाद्राक्षसैः क्रूरकर्मभिः ॥९॥
पितॄँस्तथाशुभै[^११]र्घोरैर्वेष्टितान् राक्षासार्दितान् ।
सत्पुत्रस्त्रायते देवि नेतरः पापनिश्चयः ॥ 8.158.१० ॥
नरस्य न च[^१२] सत्पुत्राः सर्व एव भवन्त्युत ।
एक एवात्र भवति यः पितॄँस्त्रायते भयात् ॥११ ॥
तत्र ये दुष्टचारित्राः पुत्रसङ्ख्यां[^१३] न ते गताः ।
शठो यद्वद्बलीवर्दः षण्ढो वापि नराधिपः[^१४] ॥१२ ॥
तत्रापि चोद्यते[^१५] दुःखं दुःखं च नरकं विदुः ।
यत्[^१६] पितॄँस्त्रायते तस्मात्[^१७] सुतः पुत्रस्ततः स्मृतः ॥ १३ ॥
रा - ख. । ३ भूमिरुहा - क., हां - क. । ४ तञ्च - क. । ५ भूमिजः (?) । ६ शिक्षाक्रियां - ख. । ७ पतिम् - ख., मतीं - क । ८ तत् - ख. । ९. व्यये - ख. । १०… ताः - क. । ११ सुरै - ख - १२ नरकस्य न - ख । १३ सञ्ज्ञां (?) । १४ नराधमः (?) । १५. प्यति चोस्युच्यते (?) - ख. । १६ यः - क. ख. । १७ यस्मात् - ख ।
नान्यः सम्बद्धको देवि पितुः पुत्रस्य चोभयोः ।
पाति पुत्रं पिता तस्मात् पुत्रो यत् त्रायते भयात् ॥ १४॥
इन्द्रियाणां तु प्राबल्यात् तत् पुत्रेष्वपि[^१८] पार्वति ।
पापकान्यपि कुर्वन्ति[^१९] ते सत्पुत्रा भवन्त्युत ॥ १५॥
इमे हि तरवो देवि दक्षशापाद् हतेन्द्रियाः ।
पापकानि न कुर्वन्ति संवृतैः करणैश्च ह ॥ १६ ॥
एतस्मात् कारणाद् देवि कोष्ठजानां शतादपि ।
एको भूमिरुहः पुत्रः शस्यते न तु कोष्ठजः ॥ १७॥
छेदं भेदं तथा त्रासं पाटनञ्च निशाचरैः ।
कुर्वद्भिस्तरवः पुत्राः पितॄणां - - - - । - - ॥ १८॥
उमोवाच
छेदं भेदं त्रासनं च राक्षसैर्निरयोपगैः ।
कथं पितॄणां तरवो वारयन्ति यमक्षये ॥ १९॥
देवदेव उवाच
शृणुष्व छेदं भेदं च पितॄणां यमसादने ।
यथा वै[^२०] पारयन्त्येते[^२१] तरवो नागनन्दिनि ॥ 8.158.२० ॥
एते निरुद्यमा देवि विहीनाः करणैरुत ।
यज्ञेर्थितास्ते देवानां तरवो - - - - - - ॥ २१ ॥
-
-
-
-
-
-
-
- ।
दक्षशापेन भगवन् वयं ह्युपहतेन्द्रियाः ॥२२ ॥
- ।
-
-
-
-
-
-
तमोबाहुल्यतां प्राप्ता निष्क्रिया निष्परिक्रमाः ।
असुखाः करणैर्हीना महता तमसावृताः ॥२३ ॥
एतां दशामनुप्रप्ता धर्मयुक्तान् कुरुष्व नः ।
इत्येषां वचनं श्रुत्वा देवः सलिलसम्भवः ॥२४॥
तत् - क ९०-. द् येषु त्रिष्वपि - थ । १९ कुर्वन्तः - (?) । २० ययैवं (व) क- । २१ तारयन्त्येते - क, ।
यज्ञवृक्षार्थमाहेदं वृक्षान् वृक्षपतिर्वचः ।
स्थावराः स्वागतं वोस्तु तुष्यामि शरणैषिणाम ।
नाशयाम्येष वो वत्सा दक्षशापकृतं तमः ॥ २५ ॥
शाला बिल्वाः पलाशाश्च वरुणाः[^२२] किंशुकास्तथा ।
रोहीतकाश्च ये चान्ये यज्ञाङ्गप्रभवा द्रुमाः ॥ २६ ॥
ते सूपयुक्ता यज्ञेषु त्वक्पत्रफलशाखिनः ।
मूर्त्तीः सुभास्वराः प्राप्य मम लोके निवत्स्यथ[^२३] ॥ २७॥
एषां यज्ञियवृक्षाणां[^२४] यूयमप्यनुगामिनः ।
यज्ञोपयुक्ता गच्छध्वं तेषामेव सलोकताम् ॥२८॥
स्थाणुलिङ्गोपयुक्ताश्च[^२५] जनैर्भक्तिपुरस्सरैः ।
धर्मेण शुद्धदेहाश्च गतिमिष्टामवाप्स्यथ[^२६] ॥ २९ ॥
उपयोगं च गच्छन्तो यज्ञायतनवस्तुषु[^२७] ।
दक्षशापतमोमुक्ता मम लोके चरिष्यथ ॥ 8.158.३० ॥
पुत्रहीनो नरो यश्च[^२८] पुत्रकान्वः[^२९] करिष्यति ।
तं भयात्[^३०] त्रायतां चैव धर्मो वो भविता महान् ॥३१ ॥
तरव ऊचुः
कथं वयं पुत्रकृतास्तान्[^३१] पितॄन्निरयोपगान् ।
’ ’ ’ - ’ - - - - - - - - - ॥ ३२॥
सोमविक्रयिणो ये च ये च विश्वस्तघातिनः ।
ये च प्राणिवधे युक्ताः पृष्ठमांसाशिनश्च ये ॥३३ ॥
राज्ञामाक्रोशका ये च ये च पिण्डापहारकाः ।
एते[^३२] स्वकर्मभिर्घोरैर्वेष्टिता लोमहर्षणैः ॥३४॥
पच्यन्ते निरये घोरे क्रोशन्तो भैरवान् रवान् ।
अहो भृशं[^३३] यातनाभिरशिवाभिरभिद्रुताः ॥३५ ॥
तरुणाः - ख । २३ निवत्स्यत - क, निवृक्ष्यथः - ख. । २८ याज्ञिय - ख., याज्ञिकवृक्षाणां - क. । २५ शृणु लिङ्गेप्रयुक्ताश्च - क. । २६ गमि .. - क । २७ वास्तुषु (?) । २८ यच्च - ख. । २९ पुत्रकार्थं - क ख. । ३० तद्भयात् - क ख. । च १ पुत्रकृतान् स्तान् - क., तान्स्वान् - ख.,… तस्तान् (?) । ३२ ये ते (?) । ३३ नृशम्स - क ख ।
शास्यन्ते मृत्युवचनाद्राक्षसैर्भीमविक्रमैः ।
तानेव तुद्यमानाँश्च कुट्यमानाँश्च राक्षसैः ।
पितॄन्निरयसम्मग्नानुद्धरिष्यामहे कथम् ॥२६॥
ब्रह्मोवाच
ताँस्तथा[^३४] तुद्यमानांश्च कुट्यमानाँश्च राक्षसैः ॥ ।
पितॄन्निरय सम्मग्नान् यूयमभ्युद्धरिष्यथ॥३७॥
निरयस्थान् यथा चैतान् पितॄन् निस्तारयिष्यथ[^३५] ।
तन्मे सुमनसो भूत्वा निशामयत पादपाः ॥ ३८॥
पुत्रप्रकृतका यूयं यस्य यस्य भविष्यथ ।
तस्य तस्य स्मृताः[^३६] शीघ्रं तं देशं यास्यथानघाः[^३७] ॥३९॥
-
-
- निरयप्राप्तान् पितॄन् क्लेशैरुपद्रुतान् ।
सुखाय धास्यथ यथा स्थावरास्तन्निबोधत[^३८] ॥8.158.४० ॥
- निरयप्राप्तान् पितॄन् क्लेशैरुपद्रुतान् ।
-
मन्त्रवद् विधितश्चैव[^३९] यो वः संस्कारमन्तशः ।
गर्भाधानादिभिः कृत्वा पुत्रत्वे कल्पयेन्नरः ॥ ।४१ ॥
ये चापि[^४०] पूर्वजातान् यो विधिना[^४१] निष्परिग्रहान् ।
पुत्रप्रकृतकान् कुर्य्युस्ताँश्च निस्तारयिष्यथ ॥४२ ॥
सर्वकामाँश्च दास्यध्वं सुखञ्चैव तथोत्तमम् ।
कर्मक्षयं च सर्वेषां लोकाँश्चैव तथाक्षयान्[^४२] ॥४३ ॥
सनत्कुमार उवाच
ततः शैलसुता भूयोपृच्छत्तद्विधिमुत्तमम्[^४३] ।
तां पृच्छतीं महादेव इदं वचनमब्रवीत् ॥४४॥
देवि नागेन्द्रनासोरु नागेन्द्रगतिगामिनि ।
शृणुष्व येन विधिना गृह्यतेवनिजः सुतः ॥४५॥
तानेवं (?) । ३५ स्ताँस्तारयिष्यथ - ख. । ३६ मृताः - ख. । ३७. तानघाः - क. । ३८ स्तान्नि- बोधत - क. ख. । ३९ विधितच्चैव - ख. । ४० वापि - ख. । ४१ विविधां - क. । ४२… क्षयम् - क. । ४३ अपृच्छद्विधिमुत्तमम् - क ख. । ४४ च निज. - क ।
श्वो भूतेहं[^४५] भुविरुहं ग्रहीष्यामीति[^४६] पार्वति ।
सोपवासा भवेन्नारी शुचिशीला शुचिव्रता ॥४६॥
ततः शतसहस्रांशावस्तशृङ्गं गते रवौ ।
उदिते विमले चापि चन्द्रे चन्द्रनिभानने ॥४७॥
आपद्भावेन सुभगे परेण परमात्मिके ।
विप्रानामन्त्रयेद्रात्रौ पावनान् वेदवादिनः ॥४८॥
श्रुतीनामाकरा ह्येते रत्नानामिव सागराः ।
विप्रा विप्राधिपमुखि पूजनीयाः सहस्रशः ॥४९॥
यत्र मन्त्रविदो विप्रा न प्राश्नन्त्युत्तमं हविः ।
न तत्र देवा[^४७] देवेशे हविर्भुञ्जन्ति कर्हिचित् ॥8.158.५० ॥
न स्कन्दते न व्यथते नैनमाक्रमते[^४८] तमः ।
वरिष्ठमेतद्दानानां यद् ब्राह्मणमुखे हुतम् ॥५१ ॥
ब्रह्मणत्वे[^४९] (?) महासत्वे अणधातुस्तु भक्षणे ।
ब्रह्म भक्षयते यस्माद् ब्राह्मणस्तेन स स्मृतः ॥५२॥
जायन्ते ये पुनर्जाता ह्युपनीता महात्मभिः ।
ततो देवि द्विजाख्येयं तेषु नित्यं निपात्यते ॥५३ ॥
वियदित्युच्यते व्योम प्रकारः[^५०] प्रापणे स्मृतः ।
दिवं सम्प्रापयन्त्येते देवि[^५१] विप्रास्ततः स्मृता ॥५४॥
सत्य[^५२] सारमया ह्येते[^५३] विप्राः सृष्टाः स्वयम्भुवा ।
सिद्धिर्न तेष्वतुष्टेषु[^५४] शक्या प्राप्तुं सुरैरपि ॥५५॥
अहं नारायणोनन्तो ब्रह्मा शक्रोनिलः शिखी[^५५] ।
तद्दानं नाभिनन्दामो विप्रा यत्र[^५६] न पूजिताः ॥५६॥
येषां प्रसादात् सुलभा आयुर्धर्मो बलं सुखम् ।
श्रीर्यशः स्वर्गवासश्च तान्[^५७] विप्रानर्चयेद् बुधः ॥५७॥
श्वो हि भूते - क. । ४६ गृहीष्यामीति - क., व्रहि.. - ख । ४७ देव - ख. । ४८ नैतमा- क्रमन्ते - क. ख. । ४९ ब्राह्मणत्वे - क. ख, महाहव्ये (?) । ५० पकारः - क. । ५१ दिवि - क ख. । ५२ साव्य ( ष्ठ्य) - ख. । ५३ सागर याह्येति - वा. । ५४ सिद्धिर्न तेष्वतुप्टेषु - ख. । ५५.. स्विति (?) । ५६ येन (?) - क । ५७ तद् - क. । क. ।
विप्रानामन्त्रयित्वाथ[^५८] शुचिवस्त्रा शुचिस्मिता ।
शयीत सनमस्कारा सदर्भा[^५९] भूमिमाश्रिता ॥५८॥
गमयित्वा ततो रात्रिं सवितर्युत्थितेपि[^६०] च ।
भक्ष्यभोज्यं समादाय व्रजेत् यत्र भवेत्तरुः ॥५९॥
ततस्तं सपताकं च सातपत्रं सभूषणम् ।
तरुकं प्रमदा[^६१] कृत्वा तरुच्छायानुगामिनी ॥8.158.६०॥
यथोपपन्नमन्नं तु भोजयित्वा द्विजोत्तमान् ।
पुण्याहं कारयित्वाथ ऋत्विजा ह्यथवात्मना[^६२] ॥६१॥
तृप्तानां ब्राह्मणानां च तत्त्वेनाकूत[^६३]मात्मनः ।
निवेद्य परमुद्दिश्य सद्भावेन परेण ह ॥६२॥
अपुत्रा भगवन्तोहं[^६४] पुत्रप्रकृतकं[^६५] तरुम् ।
ग्रहीष्ये तदनुज्ञां वै कर्तु[^६६] मर्हथ मेनघाः ॥६३॥
ततस्तैरभ्यनुज्ञातं तं तरुं तरुणं प्रिये ।
भूमिदेवसमक्षं वै गृह्णीयात्तनयं प्रिये ॥६४॥
अनेन विधिना देवि गृहीतस्तरुकः सुतः ।
पितॄणां निरयस्थानां मधु सोमञ्च वर्षति ॥६५॥
गृहीतो विधिनानेन सुभ्रु भूमिरुहात्मजः ।
शुभे[^६७] सुखाय भवति विपरीतेन दुःखदः ॥६६॥
सत्पुत्राणां[^६८] शताच्चापि देवि चन्द्रनिभानने ।
एको भूमिरुहः[^६९] श्रेष्ठः पुत्रत्वे कल्पितः सुतः ॥६७॥
इत्येतत्ते मया शिष्टं[^७०] श्रिष्टम्लिष्ट[^७१] वचोरणि ।
यथा भूमिरुहः पुत्रो विशिष्टः कोष्ठजात् सुतात् ॥६८॥
ततः पुनर्देवदेवी[^७२] प्रणिपत्य महेश्वरम् ।
प्रणयात् कौतुकाच्चैव इदं वचनमब्रवीत् ॥६९॥
तु - ख । ५९ सदर्पा - ख. । ६० सवितर्युदितेपि (?) । ६१ प्रयता (?) । ६२ विप्रान्भोज्या- र्थनात्मना - घ । ६३ तत्तेनाक्षत - घ । ६४ हङ्हिभगवत् तेहं - क. ख. । ६५ पुत्रत्वेकृतकं - क. । ६६ वै दातु (?) । ६७ सुभगे - क ख. घ. । ६८ सपुत्राणां - ख. । ६९ एकोपि भूमिजः - ख. । ७० श्लिष्टं - ख । ७१ मृष्ट - ख. । ७२ ततो देवी पुनर्देवं - घ. ।
प्रोषिते त्वयि देवेश भ्रमन्त्या मन्दरे मया[^७३] ।
अशोकतरुको दृष्टः कोमलः सुमनोरमः ॥8.158.७०॥
आसीच्च मे तदा भाव एष मे तरुपोतकः ।
भविष्यति सुतो रुद्रे निर्विघ्नं[^७४] पुनरागते ॥७१॥
आभ्यां च मे महादेव कुचाभ्यां द्विजपावन[^७५] ।
क्षीरमागात् सुधासारं पुत्रस्नेहात् सुखप्रदम्[^७६] ॥७२॥
तमहं देव गृहणीयां पुत्रप्रकृतकं तरुम् ।
यदि मे कुरुषेनुज्ञां तवाहं वशवर्तिनी ॥७३॥
देवैः पुत्रफले क्षिप्ते स हि मे तरुपोतकः ।
तुष्टिप्रदो ह्यपुत्रायाः पुत्रको भवितानघ[^७७] ॥७४॥
इत्येवं भाषमाणान्तु भवानीं[^७८] भगवान्[^७९] भवः ।
सद्भावान्निःसृतं[^८०] वाक्यमवदत् परतापनः ॥७५॥।
देवि फुल्लारविन्दाक्षि कथं नाम न ते सुतः ।
भविष्यति तपस्विन्या ऐश्वर्यपरमे[^८१] मया[^८२] ॥७६ ॥
शक्ता जनयितुं पुत्रान् तपसा त्वमनिन्दिते ।
अहं च ते प्रदास्यामि पुत्रान् परमशोभनान् ॥७७॥
अथवायमनुग्राह्यस्तवाशोकतरुः प्रिये ।
अनुज्ञाता मया देवि कुर्वशोकतरुं सुतम् ॥७८॥
अनुकूलं पतिं ज्ञात्वा तं तामरसलोचना ।
प्रणिपत्याव्यया[^८३] तुष्टा[^८४] इदमाह महेश्वरम् ॥७९॥
देव जानाम्यहं धर्मं यथा स्त्रीणां न विद्यते ।
दैवतं पतिमुत्सृज्य पूजनीयं हि यद् भवेत् ॥8.158.८०॥
अनामन्त्र्य हि भर्त्तारं यद्ददाति यदर्चति ।
न फलं विन्दते तस्य नारी इत्येव नः श्रुतम् ॥८१ ॥
यथा - क. । ७४ निर्विघ्ने - म. । ७५ पावनः - क. । ७६ सुखप्रदः - क. । ७७.. नघः - ख. । ७८ भावनीं - क. । ७९ भवतां - ख. । ८…. न्निसृतं - क. ख. । ८१ मैश्वर्यपरमे - ख । ८२ यया - क, त्वया - ख., स्वयं (?) । ८३. भ्यया - ख । ८४.. त्तुष्टा - ख ।
या तु भर्तारमामन्पय नारी धर्म समाचरेत् ।
तस्या देवाश्च तुष्यन्ति धर्मश्च सुमहान् विभो ॥८२॥
अवमन्य तु या नारी भर्तारं दैवतं गुरुम् ।
स्वबुद्ध्या कुरुते पुण्यं निरयं सा प्रपद्यते ॥८३ ॥
अतीतमपि या नारी भर्तारं परिपृच्छति ।
अनुमान्य यथावद्धि जीवन्तमिव शोभना ॥८४॥
अनुज्ञाता हि सा तेन प्रीयमाणेन चेतसा ।
धर्मकृत्येषु देवेश फलं प्राप्नोति पुष्कलम् ॥८५॥
तपोपवासो दानं च आर्जवं सत्यमेव च ।
पतिशुश्रूषणस्यैते कलां नार्घन्ति[^८५] षोडशीम् ॥८६॥
या ह्यन्यनरलोलापि[^८६] सद्भावाच्छयनासने ।
शुश्रूषां कुरुते भर्तुः सा सत्येव[^८७] विभाव्यते ॥८७॥
इत्येवं गिरितनया गिरीशमुक्त्वा गिर्यग्रे गिरितरुपुष्पपुञ्जचित्रे ।
तेनाग्य्रा सह विचचार चारुरूपा भानोर्भा इव सह[^८८] भानुना भवानी ॥८८॥
इति तौ सुरपूजितावपरस्परपूजितौ ।
सहितौ प्रविचेरतुः प्रवरेश्वरवन्दितौ ॥८९॥
इति स्कन्दपुराणे भूमिजपुत्रवर्णने अष्टपञ्चाशदुत्तरशततमोध्यायः ८९