व्यास उवाच
अनुगृह्यान्धकं देवो विसृज्य सगणान् सुरान् ।
चराचरेशो यच्चक्रे तन्ममाचक्ष्व तत्त्वतः ॥१ ॥
सनत्कुमार उवाच
दिवं देवेषु यातेषु गणपे चान्धके कृते ।
देवेशोन्धकनन्दिभ्यां सहदेव्या - - - - ॥२॥
चिरस्य चन्द्रमौलिस्तु प्रमथाधिपतिर्गृहान् ।
प्रविश्य रञ्जयामास - - म्मेरुगृहानिव ॥३ ॥
सीमां सोमानुवदनां सोमार्धतिलको हरः ।
।
सखीनां दृश्यते मध्ये ताराणामिव रोहिणी ॥४॥
दृष्टवा देव्यपि देवेशमुपायातम्[^१] वृषध्वजम् ।
उत्तस्थावासनात्तूर्णं सखीभिः[^२] सहिता तदा ॥५॥
शिरस्यञ्जलि[^३]माधाय पद्मकुड्मलसन्निभम् ।
ववन्दे चरणौ तस्य प्रीयमाणेन चेतसा ॥६॥
देवोपि तां समुत्थाप्य तयैव सहितः प्रभुः ।
निषसादासने रत्नमयूखपरिपिञ्जरे ॥७॥
अन्धकञ्च जितं युद्धे देव्याः प्रियचिकीर्षया ।
शङ्करः कथयामास पुनश्च प्रवरीकृतम् ॥८ ॥
अन्धकोयं तव सुतो ममैव नयनोद्भवः ।
आसुरं त्याजितो भावं त्वामवज्ञातवान्[^४] हि यः ॥९ ॥
- ख. ।
मुपयातं - ख. । २ सखिभिः… । ३… मादायः - ख. । ४ तामवज्ञातवान् - ख. ।
इत्युक्तवति देवेशे शङ्करेन्धकदानवः ।
प्रणतः प्राञ्जलिर्भूत्वा व्यज्ञापयत[^५] पार्वतीम् ॥ 8.157.१० ॥
देव्यन्धकोहं देवेन प्रकृतानुग्रहः शुभे ।
तव प्रेष्यत्वमायातः पश्य मां सौम्यचक्षुषा ॥११ ॥
अम्ब तन्मे व्यतिक्रान्तं यन्मे दानवजं तव (?) ।
देवेनानुगृहीतोहं तव हासश्च[^६] किङ्करः ॥ १२ ॥
क्षान्तं दान्तञ्च भक्तञ्च त्ददाश्रयपरायणम् ।
विद्धि मामम्ब शुद्धेन भावेन समवस्थितम् ॥ १३ ॥
इत्येवमुक्त्वा गिरिजां गिरिकूटनिभोन्धकः ।
वाग्भिराहवनीयाभिरस्तुवत् प्राञ्जलिर्नतः ॥ १४॥
विभावरी[^७] वारिचरी शर्वरी शर्ववल्लभा ।
धृतिर्मतिस्तथा कीर्तिर्दीप्तिः प्राप्तिः प्रमोहिनी ॥१५ ॥
मेधा सुधा तथा साध्वी स्वधा स्वाहा महाद्युतिः ।
पुष्टिरिष्टिस्तथा तुष्टिर्गृष्टिर्दृष्टिस्त्रुटिस्तडित् ॥ १६॥
स्मृतिः प्रीतिः स्पृहा हानिर्वाणी ग्लानिर्दया क्रिया ।
लक्ष्मीः श्रीः सन्नतिः श्रद्धा माया मायाधरार्चिता ॥१७॥
अदितिर्दितिस्तथा कद्रूः सिंहिका सुरसा[^८] दनुः[^९] ।
राका कुहूः सिनीवाली चर्षणी[^१०] सुखदायिनी[^११] ॥ १८ ॥
दीक्षा दक्षावरा रक्षा शिक्षा कक्षनिकेतना ।
सुगन्धा[^१२] सुभगा भव्या भूतभव्यभवत्करी[^१३] ॥ १९॥
धरणी धारणी धन्या वीरणी वै गुहारणी ।
ला गोला तथा चैव मङ्गलाविधा - तथा ॥8.157.२० ॥
- रोवृता सता - श्च - - सक्षत्रनन्दिनी (?) ।
नक्षत्रचित्रा द्यौः पृथ्वी क्रिया स्मृतिरलोलुपा ॥२१ ॥
विज्ञापयत - ख. । ६ ह्यासञ्च (?), दास (?) । ७ विभावरि - ख. । ८ सरमा - ख. । ९ कुः - ख. । १० वर्षणी - क. । ११ शुभदायिनी - क. । १२ सुसज्जा - ख. । १३ भवङ्करी (?) ।
शुद्धा[^२५] शुद्धिः सुधीः कीर्तिः कृत्तिवासोधरप्रिया ।
धनुर्ज्या जयिनी पूज्या ईज्या व्रज्या जयप्रदा ॥२२ ॥
वरावरेण्या वरदा वरनारी[^१५] वचोरणि[^१६] ।
भूतिर्भूताधिजननी[^१७] सुकृतिः[^१८] सुमना रतिः ॥२३ ॥
भारती भासमायुक्ता युक्तरक्तवचोधरी ।
आज्ञा प्रज्ञा तथा सञ्ज्ञा उल्का नासासमुद्भवा ।
वेदमाता[^१९]थ गायत्री दुर्गा सावित्र्यथापि च ॥ २४॥
धर्म्मिणी धर्मजननी तेजनी तेजसां वरा ।
रजनी रञ्जनी धीरा योनिर्वनजलोचना ॥२५ ॥
श्रदर्थिनी[^२०] दनुनदी श्रुतार्था[^२१] श्रुतवत्तरा ।
बलयालातकधरा[^२२] मेखला मेखलाधरा ॥२६॥
प्रीयतां मे जगद्धात्री श्यामा श्यामाम्बरा[^२३] ह्युमा ।
इत्येवमन्धकेनेशा स्तुता स्तुतिशतस्तुता ॥२७॥
अन्धकस्य तुतोषाति तुष्टा चेदमुवाच तम् ।
प्रीतास्मि पुत्र यत् प्राप्तं गाणपत्यं त्वया शुभम् ।
प्रियोधुना वरस्तूर्णं व्रियतां[^२४] प्रवरोत्तम ॥ २८ ॥
सनत्कुमार उवाच
भवानीं[^२५] वरदां दृष्टवा सोन्धको गणपोत्तमः ।
प्रणतः प्राञ्जलिः प्राह हिमवत्तनयामुमाम् ॥२९॥
यञ्च त्वं मे[^२६] वरं देवि ददासीशानबल्लभे ।
मम तेन समस्तेन त्वयि भक्तिः स्थिरा भवेत् ॥8.157.३० ॥
तस्य तद्वचनं श्रुत्वा भगवत्यपराजिता ।
उवाचान्धकमासाद्य[^२७] प्रीयमाणा पुनस्तदा ॥।३१॥
ज्ञानेनानेन तुष्टास्मि तव पुत्र शुभेन वै ।
यन्मत्तोर्थितवानद्य त्वं भक्तिं प्रवरेश्वर[^२८] ॥ ३२ ॥
श्रद्धा- (?) । १५ नरनारी - क. । १६ रणी - क ख. । १७ भूताभूताभिजननी - ख । १८ सुगतिः - ख. । १९ वेदमाया - ख । २० सु (स) दर्थिनी - क. । २१ श्रुतार्थं - क. । २२.. लकधारा - ख. । २३ श्यामावरा - क., श्यामाचरा - ख । २४ वृयतां - क. । २५ भावनीं - क. । २६ तन्मे - क. । २७ सद्यः (?) । २८ प्रवरेश्वरः - क. ।
मच्छन्दादेव चाप्येतद् गाणपत्यं तवानघ ।
दत्तं देवाधिदेवेन तेन चास्मि सुतोषिता ॥३३॥
तस्माच्चादित्यपाकात्ते[^२९] सुयुद्धेन च पुत्रक ।
पापव्ययो महानासीत् तेनासि प्रवरीकृतः[^३] ॥३४॥
अमरो जरया त्यक्तो बली बलवतामपि ।
तपस्वी ह्यक्षयो जेता नन्दिवत्त्वं भविष्यसि ॥३५॥
मम देवस्य चापीष्टः किङ्करो मम चाप्यथ ।
भव[^३१] त्वमनघः श्रीमान् गणेश्वरगणेश्वरः ॥३६॥
ये च त्वां[^३२] कीर्त्तयिष्यन्ति दिवा रात्रावथापि[^३३] वा ।
तेषां कीर्त्तिर्यशः स्वर्गो धर्मश्चैव भविष्यति ॥३७॥
स त्वेवमुक्तः[^३४] पार्वत्या अन्धकोर्चितमानितः ।
अनुज्ञातश्च पार्वत्या मुमुदे हरपार्श्वगः ॥३८॥
इत्येवमन्धकं देवस्तमोरिकृतभूषणः ।
अनुगृह्य गिरौ तस्मिन् विजहार यथासुखम्[^३५] ॥३९॥
इति स्कन्दपुराणे अन्धकवरप्रदानं नाम सप्तपञ्चाशदुत्तरशततमोध्यायः[^३६]