सनत्कुमार उवाच
एवं स्तुतस्स भगवान् ब्रह्मणायुग्मलोचनः ।
उवाच देवांस्तान् सर्वान् ब्रह्मणा सहिताँस्तदा ॥१ ॥
प्रीतोस्मि विबुधा यात नाशितो देवकण्टकः ।
किमन्यत् करवाण्यद्य प्रियं वो वरतानघाः ॥२॥
इत्युक्ता देवदेवेन देवाः सर्वे बभाषिरे[^२]
स्तुवन्तः प्रह्वमूर्धानो देवेशं हृष्टमानसाः ॥३ ॥
त्वमेव देव सर्वेषामस्माकं शरणं परम् ।
त्वं पिता सर्वलोकानां त्वयायं नाशितोन्धकः ॥४॥
इत्युक्त्वा विबुधास्सर्वे प्रणिपत्य च शङ्करम् ।
ब्रह्मणा सहिता जग्मुर्यथास्थानं मुदा युताः ॥५॥
ततो गणानपीशानो युद्ध - - कृतश्रमान् ।
अर्चयित्वा यथावद्धि विससर्ज महामनाः[^४] ॥६॥
सनत्कुमार उवाच
एवं तमन्धकं जित्वा कृत्वा च गणनायकम् ।
विसृज्य च सुरान् देवो विजहार सुरार्तिहा ॥७॥
इमं यो ह्यन्धकवधं पठेत द्विजसंसदि ।
ब्राह्मणो लभते - - - यो रक्षां न संशयः ॥८॥
स्तवमिदमगलार्थं - ख. । २७२०४ - ख. ।
किमन्य द्वाकरोम्यद्य - ख. । २ बभासिरे - ख. । ३ पिदुः - ख. । ४ महात्मनाम् - ख. ।
शरीर - - - योगं - रूपं धर्म विन्दति ।
यच्च- त्वा गाणपत्येन युज्यते देहपर्यये ।
इति स्कन्दपुराणे गणयुद्धे दैवतवरकीर्तने षट्पञ्चाशदुत्तरशततमोध्यायः[^५]