१५५


पतत्रिणः - क ख. । ३५ रणेन्धकेन वै - क. । ३६ निहताः - ख. । ३७ सर्वे - ख. । ३८ महाबलाः - ख. । ३९ सुनासश्च - क. । ४० प्राणाः - क. ख., भृतो - ख. । ४१२०३ - ख. ।


सनत्कुमार उवाच
एतस्मिन्नन्तरे देवाः सर्वे शक्रपुरोगमाः ।
ब्रह्मणा सहिता जग्मुः शरण्यं शूलपाणिनम् ॥१॥

ते प्रणम्य महादेवमिदमूचुर्भयार्दिताः ।
विजिताः सर्व एव स्मः १ किमन्धकमुपेक्षसे ॥२॥

देवदेवस्ततः प्राह देवान् ब्रह्मपुरोगमान् ।
मया दत्तवरो यस्मात् तस्माद् यूयं विनिर्जिताः ।
क्रीडार्थमेव च मया सङ्गरे स उपेक्षितः[^२] ।
अधुना भवतामर्थे शामयिष्येहमन्धकम्[^३] ॥४॥

ततो देवः स्मितं कृत्वा पार्श्वस्थं शूलमैक्षत ।
देवाभिप्रायतत्त्वज्ञः शूलो जज्वाल तत्क्षणात् ॥५॥

अभिसृत्य द्रुतञ्चैवमन्धकं जितकाशिनम् ।
युद्धे विक्रम्य सहसा निर्बिभेद स्तनान्तरे ॥६॥

ततोन्धकं तदा भित्त्वा स शूलस्तं महाबलम् ।
दानवेन्द्रं महाकायमानिन्ये शङ्करान्तिकम् ॥७॥

तस्य भिन्नस्य शूलेन येक्षरन् रक्तबिन्दवः ।
पतिताः[^४] पुरुषा भूत्वा तेप्ययुध्यन्त दुस्सहाः ॥८॥

तस्यैव तुल्यरूपास्ते तस्य तुल्यपराक्रमाः ।
नानाशस्त्रप्रहरणास्तेप्ययुध्यन् गणेश्वरैः ॥९॥

                      • ो द्यतपाणयः ।
                        जघ्नुः केचिद् गणानेव द्रवतस्ते महाबलाः ॥8.155.१० ॥

न तेषां युध्यमानानां कश्चित्तस्थौ गणेश्वरः ।
सङ्ग्रामे दानवेन्द्राणां भयात् सर्वे प्रदुद्रुवुः ॥११
तान्दृष्ट्वा विद्रुतान् सर्वान् गणान् सह सुरेश्वरैः ।
महादेवोसृजत् - - - - - - - - - - ॥१२॥


एवास्म - क घ. । २ समुपेक्षितः - ख । ३ तमभ्धकम् (?) । ४ उत्थिताः (?) ।


                        • करन्तदा ।
  • वा विज्ञापयामासु[^५]राज्ञां नो दातुमर्हसि ॥ १३ ॥

देवदेवस्तदा प्राह सर्वाः प्रहरणोद्यताः ।
असृग्बिन्दुसमुद्भूतान् भक्षयध्वं महासुरान् ॥ १४॥

एवमुक्तास्तु तास्सर्वा योगेश्वर्यो महाबलाः ।
हत्वा हत्वासुरान् युद्धे चखादुश्च म । १५॥

देवोपि ज्वलितं शूलमब्रवीदन्धकान्तकृत् ।
अन्धकं पच[^६] सूर्याग्नौ सहस्र शरदाम्[^७] शतम् ॥१६॥

अन्धकोपि हि शूलाग्रे पच्यमानोर्कतेजसा ।
पूर्णे सहस्रे वर्षाणां सात्विकं भावमभ्यगात् ॥ १७॥

सात्विकं भावमापन्नो विनिर्धूतरजस्तमः ।
लोकानां कारणं देवं बुबुधे गोवृषध्वजम् ॥ १८॥

तं बुद्ध्वा च ततो भक्त्या निर्मलेनान्तरात्मना ।
स्नाय्वस्थिशेषस्तुष्टाव देवं चन्द्रार्धमौलिनम् । १९॥

अन्धक उवाच
कृत्स्नस्य योस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखदाता ।
संहारहेतुरपि यः पुनरन्तकाले, तं शङ्करं शरणदं शरणं व्रजामि ॥8.155.२० ॥

यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो[^८] विनिवृत्तकामाः ।
ध्यायन्ति निश्चितधियामितदिव्यभावम्, तं शङ्करं शरणदं शरणं व्रजामि ॥२१ ॥

यश्चन्द्रखण्डममलं विकसन्मयूखं बध्वासयं (?) प्रियतया शिरसा बिभर्ति ।
यश्चार्धदेहमददाद् गिरिराजपुत्र्यै, तं शङ्करं शरणदं शरणं व्रजामि ॥२२ ॥

यः सिद्धचारणनिषेवितचारुतोयां गङ्गां महोर्मिरभसां गगनात्पतन्तीम् ।
मूर्ध्ना दधे स्रजमिवाप्रतिलोलपुष्याम्, तं शङ्करं शरणदं शरणं व्रजामि ॥२३ ॥

कैलासशृङ्गशिखरं प्रविकम्प्यमानं कैलाशशृङ्गसदृशेन दशाननेन ।
यः पादपद्मपरिपीडनया दधार, तं शङ्करं शरणदं शरणं व्रजामि ॥ २४॥


विज्ञापयामास - ख । ६ पञ्च - ख. । ७ शरदं - ख । ८ भक्त्येकतानमनसो (?) ।


येनासकृद्दितिसुताश्च दनोः सुताश्च[^९] विद्याधरोरगगणाश्च वरैस्समग्राः ।
संयोजिता मुनिवराः फलमूलभक्षा,स्तं शङ्करं शरणदं[^१०] शरणं व्रजामि ॥२५॥

दक्षाध्वरं च नयनञ्च तथा भगस्य पूष्णस्तदा दशनपङ्क्तिमशातयच्च[^११] ।
व्यष्टम्भयत् कुलिशयुक्तमहेन्द्रबाहुम्, तं शङ्करं शरणदं शरणं व्रजामि ॥२६॥

  • कृ - - त्रिविधबन्धविमोक्षभावा ज्ञानान्वयश्रुतगुणैरपि नैव युक्ताः ।
    यं संश्रिताः सुखभुजः पुरुषा भवन्ति, तं शङ्करं शरणदं शरणं व्रजामि ॥२७॥

अग्रे मृतस्य रविकोटिसमानतेजः[^१२] सन्त्रासनं विबुधसत्तमदानवानाम्[^१३] ।
यः कालकूटमपिबत् समुदीर्णवेगम्, तं शङ्करं शरणदं शरणं व्रजामि ॥२८ ॥

ब्रह्मेन्द्रविष्णुमरुतां च सषण्मुखानां योदाद् वरान् सुबहुशो भगवान्महेशः ।
नन्दिञ्च मृत्युवदनात्प्रभुरुज्जहार,१४ तं शङ्करं शरणदं शरणं व्रजामि ॥२९॥

कामश्च कार्मुकधरो भुवि पञ्चबाणो हास्यात्कृतो भगवता स तदा विदेहः ।
एकेषुणा त्रिपुरमेव पुरा जघान, तं शङ्करं शरणदं शरणं व्रजामि ॥8.155.३० ॥

आराधितः सुतपसा हिमवन्निकुञ्जे धूमव्रतेन मनसापि परैरगम्ये ।
सञ्जीवनीमदित यः परमार्थगम्य[^१५] स्तस्मै नमः शिवकराय शिवाय नित्यम् ॥३१ ॥ नानाविधैर्गजविडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्वलिभिर्गणैन्द्रैः[^१६] ।
योभ्यर्च्यतेमरगणः सहलोकपालै,स्तं शङ्करं शरणदं शरणं व्रजामि ॥३२॥

क्रीडार्थमेव भगवान् भुवनानि सप्त नानानदीविहगपादपमण्डितानि ।
सब्रह्मकानि ससृजे सुकृतेहितानि, तं शङ्करं शरणदं शरणं व्रजामि ॥३३ ॥

यस्याखिलं जगदिदं वशवर्ति नित्यं योष्टाभिरेव तनुभिर्भुवनानि भुङ्क्ते ।
यः कारणं सुमहतामपि कारणानाम्, तं शङ्करं शरणदं शरणं व्रजामि ॥३४॥

                            • आसज्य मां क्षितिधरेन्द्रसुतानुयात ।
              • म विभूषणाङ्गं तं शङ्करं शरणदं[^१७] शरणं व्रजामि ॥३५॥

श्वेतं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम् ।
बद्ध्वा - - - - - - - - - - - - तं शङ्करं शरणदं शरणं व्रजामि ॥ ३६ ॥


दनोश्च पुत्रा - ख । १० शरणजं - ख । ११ श्च - ख., मशातयद्य (?) । १२ समानतेजं - ख. । १३ विबुधदानवसत्तमानां (?) । १४.. त्पुनराजहार - ख. । १५ परमार्थगभ्यं - ख. । १६.. र्गजेन्द्रैः - ख. । १७ शरणजं - ख. ।


?? ।

  • – - - - - - - - - - - - - - - - - - - - - - - - - - ॥ ३७॥

                • परिचिन्त्यमानं तं शङ्करं शरणदं शरणं व्रजामि ॥ ३८ ॥
                      • विमूढा, जानन्ति नास्य जगतो भवबन्धरूपाः ।
                        ऐश्वर्यदोषविषये - - - भिबद्धा, निर्यातमाद्यनुभवन्ति यथाहमेव ॥३९॥ ।
        • प्रसादाद्धि - - - - - स्तदा ।
          शुभकर्मा - - - - शिवलोकमकल्पयः[^१८] (?) ॥8.155.४० ॥

सनत्कुमार उवाच
तस्यैवं स्तुवतो देवः शूलपाणिर्वृषध्वजः ।
पूर्णे वर्षसहस्रे तु प्रीतः प्रोवाच शङ्करः ॥४१ ॥

पुत्र तुष्टोस्मि भद्रं ते जातस्त्वं निर्मलोधुना ।
दिव्यं ददामि ते चक्षुः पश्य मां दानवेश्वर ॥४२ ॥

          • यत्किञ्चित् काङ्क्षितं फलमुत्तमम् ।
            तत्सर्वमेव दास्यामि ब्रूहि दानवसत्तम ॥४३ ॥

ब्राह्मं वैष्णवमैन्द्रं वा पदं विबुधदुर्लभम् ।
अथवा सर्वलोकानां भव राजा यथा पुरा ॥४४॥

अन्धक उवाच
ब्राह्मं वैष्णवमैन्द्रञ्च पदमावृत्तिलक्षणम् ।
विदितं मम तत्सर्वं मनसापि - - ॥४५॥

यदि तुष्टोसि देवेश गाणपत्यं विधत्स्व मे ।
अविशेष्यं विशुद्धञ्च तदक्षय्यं च सर्वदा ॥४६ ॥

देवदेव उवाच

                • सर्वलोकनमस्कृतः ॥४७॥

मयम् - ख ।


कामरूपी महायोगी सहासत्वो महाबलः ।
अणिमादिगुणैर्युक्तः प्रियः पुरुषसत्तमः ॥४८ ॥

सनत्कुमार उवाच
ततो - - - वरं दत्त्वा सुदुर्लभम् ।
महादेवः. भूत्वा तत्रैवान्तरधीयत ॥४९ ॥


॥ 8.155.५० ॥

वरेण्यं वरदं देवं ब्रह्मण्यममितौजसम् ।
आगत्य चैव - - - - - - - - - - - ॥ ५१ ॥

                                • ॥ ५२ ॥
    • शूलं - - परमं विक्रमैः स्तम्भयित्वा ।
          • ’ - - - - - - - - - - ॥ ५३ ॥

                                                        • -.. ’ ’ ’ ’ ’ - - - - - - - - ॥ ५४॥ ।
                                                          ’ ’ ’ ’ - - - - - - - - - - - - - - वाङ्मनोभिः ॥ ५५॥

येन्ये कुशास्त्रमलपङ्कविमग्नदेहा मोक्षेप्यतस्तव विभो चरणा - - - ।
ते वो - - - - .. - - - स्तुवन्ति मूढा मृगा इव वने मृगतृष्णिकाभिः ॥५६॥

    • ङ्कुशङ्किततटे स्मृति - - - - - - - - - - - - - - - - - - ।
                    • प्यटेन पूषा[^१९] करोति विमलं किरणौघजालैः ॥ ५७॥

पक्षे तपश्चरति येन कलावशेषश्चन्द्रोपि ते हरतवोत्तमपादमूले ।
नक्तं तु शूलहसितै रजमीमुखानि सम्पूर्णमण्डलवपुर्धवलीकरोति ॥ ५८॥


करोकरो - ख. ।


  • ’ - - - - - - - - - - - - - - - - - वसवो मरुतोश्विनौ च ।
    भृग्वादयश्च ऋषयस्तत्र देव सिद्धाः[^२०] सिद्धिं गताश्चरणपद्मवरप्रसादात् ॥ 8.155.६० ॥

कैलास - - - - - - - - र्द्रवाय देवाय - - लयलाङ्कितमेखलाय[^२१] ।
बद्घ्वासनं परममुन्नतचारुमूर्तिं योगेश्वरं दिभुमहद् भुवनस्य भूत्यै ॥६१ ॥

          • सासि पूर्व[^२२]मदृष्टपूर्वा सा सा स्पृहां प्रकुरषे महतीं जनस्य ।
            तस्माज्जटेन्दुरिवजा(?) र्धशरीरयोगाद् गङ्गां च[^२३] देव भजसे त्वमपूर्ववत्ताम् ॥६२॥
                • शीर्ण - - - संस्थैः सम्यग्वरेश्वररुषा सदसोग्रकण्ठ (?) ।
                  ते देव लोकविजयं तव देव यावद् दुष्टस्य वक्त्रकमलानि निवेदितानि ॥६३ ॥

कैलासमेरुमलयोदरमन्दरेषु विद्याधरैर्मुनिमहोरगकिन्नरैश्च ।
अभ्यर्च्यसे कुल - टायन - - - - - - - - - - - - मधुरैर्वचोभिः ॥ ६४॥

            • ये - भक्त्या सर्व - - - - - - मजरं - - - मात्मवेद्यम् ।
              पश्यन्ति सत्वमचलास्तव योगदृष्ट्या त्वामेव ते शिव विशन्त्यनिवर्तनाय ॥६५॥

विद्यावयो - स्य समेत्य शक्तास्तेजःसृजाशुगमित - - - - - - - - - ।

                                                      • -२४ ॥ ६६॥ ॥
    • —..१–…- - - - - - - - - - - - - ॥ ६७॥
    • -.२- – - — - - - - - - - ।
                                      • र पा व - य - ॥६८॥

दक्षाध्वरस्सुरवरैः कृतसर्वरक्षो भृग्वादिभिर्मुनिवरैरुपगीतवेदः ।
क्रोधोद्भवेन तव देव हतस्सलीलमेकेन शूलवरचक्रभृता गणेन ॥ ६९॥

लिङ्गस्य यो हर हरिः प्र - - ह्यधस्तादूर्ध्वन्त्वहं - - - - - - - ब्रुबाणः ।

          • रवन्दतवादिमध्ये कोन्यः प्रवीण इह वक्ष्यति[^२५] तेल्पबुद्धिः ॥8.155.७० ॥

शर्वोसि सर्वगतससर्वफलप्रदोसि योगोसि योगधर योगविदां वरोसि ।
मातापितासि जगतः प्रभुरव्ययोसि शान्तः शिवोसि परमोसि शिवङ्करोसि ॥७१ ॥


सिद्धिं - ख । २१ लाञ्छित (?) । : २२… य - ख । २३ य- ख. । २४
एतस्य पादटिप्पण्यां ‘चामीकरोत्कर- समूहसमानवर्ण, इत्यादिका पङ्क्तिर्दृश्यते ।
सा च वृष्टःक्षरतया दुष्पठेति तथैवोपेक्षिता । २५ वक्ष्यसि - ख. ।


स्तवमिमममलार्थ[^२६] ब्रह्मणा गीतमग्र्यं
द्विजसदसि पठेद्यः कल्यमुत्थाय शश्वत् ।
इह सुखमनुभूय प्रेत्य चाग्रे च तस्य
धनकनकसमृद्धे जायते जन्म वंशे ॥७२॥

इति स्कन्दपुराणे गणयुद्धेन्धकमथने ब्रह्मकृतस्तवकथने च पञ्चपचाशदुत्तरशततमोध्यायः[^२७]