सनत्कुमार उवाच
हन्यमाने बले तस्मिन् देवैः सप्रमथेश्वरैः ।
चुक्रुधुर्दानवा[^१] घोराश्चतुर्विंशतिदर्पिताः ॥ १ ॥
प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ ।
जम्भो विरोचनो वृत्रो बलिर्बाणोवनिञ्जयः ॥२॥
तथा तुहुण्डो हुण्डश्च शम्भुः कार्तस्वनः कुभः[^२] ।
शम्बरो विप्रचित्तिश्च इल्वकः[^३] पिल्वकस्तथा ॥ ३ ॥
मयस्तारस्तारकाक्षो विद्युन्माली प्रमोहनः ।
एतेमर्षवशं प्राप्ताश्चतुर्विंशतिदानवाः ॥४॥
धनुर्गुणादितन्तुका - क.,.. .ति - (?) । ११ हासिताः - ख. । १२..? सुर्महाद्भुतम्-ख । १३ तदान्धकः - क. । १४ शराहतो त(?) । १५२०२ - ख. ।
चुक्रशुर्दानवा - ख. । २ कुशः - क, । ३ इल्वलः - ख. ।
दुद्रुवुः सायुधं देवम्[^४] नन्दिनं समवस्थितम्[^५] ।
तेञ्जनाचलसङ्काशाः काञ्चनाचलसन्निभम् ॥५ ॥
नन्दिनं ताडयामासुः शूलशक्त्यृष्टिपट्टिशैः ।
तथा तैररिभिः शस्त्रैस्ताडितो वारितश्च वै ॥६ ॥
नाक्षुभ्यत तदा नन्दी नार्त्तिमापन्न च व्यथाम् ।
ततो विकृष्य भगवानाततं कार्मुकं महत् ॥७॥
त्रिभिस्त्रिभिर्बिभेदाशु सर्वान्दानवसत्तमान ।
ते बाणमार्गनिस्रावै[^६] दानवाः शोणितक्षराः ।८॥
क्षरन्त इव शैलेन्द्रास्तपनीयरसान् बभुः ।
ततो रोषोद्धतो नन्दी शुक्रेणोज्जीवितं पुनः ॥९॥
कार्त्तस्वनं शरैर्घोरैरनयद्यमसादनम् ।
जीवितस्रंसनं प्राप्य स दानवमहाचलः[^७] ॥ 8.154.१० ॥
शीर्णोपलः पपाताशु वज्राहत इवाचलः ।
पतमाने क्षितौ[^८] तस्मिन्नन्दिबाणाहते हते ॥११ ॥
बलिरुत्पाट्य शैलाग्रं चिक्षेपोद्दिश्य नन्दिनम् ।
तत् सधातुमृगव्यालं सर्क्षवृक्षं गिरेस्तटम्[^९] ॥ १२ ॥
निर्भ्रान्तोपलवृक्षालमभ्यधावद् गणेश्वरम् ।
शृङ्गस्य बलिमुक्तस्य तस्य व्यालादयो जवात् ॥१३ ॥
अपक्रान्तानयार्त्तस्य पुरुषस्येव बान्धवाः ।
तदापतत् तद् गिर्यग्रं[^१०] नन्दी बाणेन वीर्यवान् ।
मेघानिव महावायुर्बिभेद च ननाद च ॥१४॥
तद्विदार्य गिरेः शृङ्गं गिरिशृङ्गनिकेतनः ।
बलिं बिभेद बाणेन बलिर्विघ्नमिवोत्थितम्[^११] ॥१५॥
देवा - ख. । ५ समुपस्थितम् (?) । ६ मार्त्तनिस्रावै - ख. । ७ बल्ल - क. दानवः स महाबलः (?) । ८ गिरौ (?),.. ह्यरौ - क. । ९… स्तदा - ख. । १० तदापतन्तं - क. । ११… च्छ्रितं - ख ।
सोभ्याहतो गणेशेन प्राह्लादितनयोवशः[^१२]।
पपात सहसा भूमौ वाताहत इव द्रुमः[^१३] ॥१६॥
ततो बलौ निपतिते नन्दीषुवरताडिते[^१४] ।
जहुः समरमारात्तं[^१५] दानवाः शरपीडिताः ॥ १७॥
प्रसृताम्बुदसङ्काशाँ[^१६]स्ततोम्बुदनिभाकृतिः[^१७] ।
अन्धकः खात् क्षितिं प्राप्य दानवानिदमब्रवीत् ॥ १८॥
अद्य दाक्षायणीपुत्रा निबोधध्वं वचो मम ।
मया चोक्तानि पथ्यानि कुरुध्वं यदि मन्यत ॥ १९॥
कुलेषु जाता वीराश्च सर्वास्त्रकृतनिश्चयाः ।
द्रवध्वे[^१८] वै किमुद्दिश्य पटुनाराचवेजिताः ॥8.154.२० ॥
जल्पितानि क्व वस्तानि कथितानि च संसदि ।
क्व वस्तद्वैरबाहुल्यं[^१९] दैवतैस्सह[^२०] साम्प्रतम् ॥२१ ॥
एकेन नन्दिना भग्नाः शतशोथ सहस्रशः ।
ह्रीः कथं वै न भवति जल्पतां[^२१] वो गृहाजिरे ॥ २२ ॥
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वै[^२२] ।
भवेन्न नो[^२३] यत्र मृत्युः सोवकाशो न विद्यते ॥२३ ॥
प्राश्निकाः[^२४] पार्श्वतः स्थित्वा निर्वैरा वीतमत्सराः ।
द्वैरथं नन्दिना सार्धमेतत् पश्यत साम्प्रतम् ॥२४॥
इत्यन्धकवचः श्रुत्वा सर्वे ते दानवा रणे ।
पुनर्निवृत्ता युद्धाय प्रगृहीतवरायुधाः ॥ २५॥
ततोन्यं रथमास्थाय नल्वमात्रं पताकिनम् ।
अन्धकः सोभ्ययान्नन्दिं सार्धं दानवपुङ्गवैः ॥ २६ ॥
शिताग्ररुक्मविकृताः पृथवः प्रियदर्शनाः ।
अन्धकस्य धनुःसृष्टा[^२६] निष्पतन्ति महेषवः ॥२७॥
प्रह्रादतनयोवशः - क ख । १३ द्विपः?. ख । १४ नन्द्येषुवरताडिते ख. । समररागात्तं ः ख. । १६ सङ्काश - क. । १७ इवाकृतिः - क. । १८ द्रवध्वं - ७३. । १९ गतं वैरबाहुल्य - ख. । २० देवतैःसह - क. ख. । २१ जल्पितां - क. । २२ वः - क । २३ वो - ख । २४ प्राश्नीका - ख प्राणाः कः - क. । २५ सार्ध’ मम - (?) । २६ धनुषोन्धक (केन) सृज्यन्तो (न्ते) - क, ख. ।
शलभैरिव केदारा भ्रमरैरिव पादपाः ।
तोयदैरिव नागेन्द्राः सागरा मकरैरिव ॥२८॥
महेषुभिर्विनिर्मुक्तैर्नागादित्यसमप्रभैः ।
अन्धकेन कृता देवाः शतघ्नय (?) इवोत्तमाः ॥ २९ ॥
वायवोप्रतिघा यद्वद् यथा मृत्युर्यथा जरा ।
यथा चाप्रतिघाः सूक्ता नियतं ब्राह्मणाशिषः ॥8.154.३० ॥
तथा ते निशिता ह्युग्रा ब्रह्मदण्डा इवोद्यताः ।
अनिवार्या ह्यमोघाश्च तेन्धकस्य महेषवः ॥ ३१ ॥
यतो यतोसुरास्सर्वे सोन्धकश्च रणे रिपुः ।
ततस्ततः स्म दीर्यन्ते प्रमथा विबुधैस्सह ॥ ३२ ॥
सोपि नित्यायतधनुः परिवेषीव भास्करः ।
असृजद्बाणनिकरान्[^२७] किरणान् भास्करो यथा ॥३३ ॥
तस्य बाणरुजः[^२८] प्राप्य नदीतीर इव द्रुमाः ।
सीदन्ति गणपास्सर्वे देवाश्च सहवासवाः ॥३४॥
स विष्णुमेकेन शरेण विद्ध्वा द्वाभ्यामनन्तं त्रिभिरेव शक्रम् ।
यमञ्च सोमञ्च जलाधिपञ्च वसूँश्च निर्दार्य[^२९] ररास घोरम् ॥ ३५॥
अश्विद्वयञ्चापि शरद्वयेन विद्ध्वा भगांशार्यमचन्द्रपूष्णः[^३०] (?) ।
ततोथ नन्दीश्वरमुग्रकर्मा गणेश्वराँश्चापि शरैस्ततक्ष ॥३६॥
तथा दहत्यन्धक आततायी थथा पतङ्गान् भगवान् हुताशः[^३१] ।
निवारितास्ते शरदारिताश्च तदान्धकेनामरयोधमुख्याः[^३२] ॥३७॥
न स्पन्दितुं[^३३] शेकुरुदीक्षितुं वा रणेन्धकं खे मनुजा इवार्कम् ।
यशांसि दीप्तानि ततः प्रहाय देवाः सनारायणदेवपालाः ।
शरार्दितास्तेन्धकदावेन प्रदुद्रुवुर्दानववेधखिन्नाः ॥ ३८॥
किरणान् - क. ख. । २८ रजः - क. ख. । २९ निर्वार्य - ख. । ३०.. श्चार्यमचन्द्रपूष्णः - क । ३१ हुताशनः - क. । ३२… वारिताश्ववदन्धकेनामरयोधमुख्याः - ख. । ३३ निस्पन्दितुं - ख. ।
विष्णुः पितामहश्चैव अनन्तोथ शतक्रतुः ।
अन्धकेन रणे भग्नाः शरैरग्निशिखोपमैः ॥३९॥
आदित्या वसवः साध्या अश्विनौ च सुरोत्तमौ ।
अन्धकेन रणे भग्ना वज्राघातैः पतत्त्रिवत्[^३४] ॥8.154.४० ॥
तुषिताश्चैव विश्वाश्च देवाश्चैव स्वधाभुजः ।
अन्धकेन शरैर्भग्ना मारुतेन यथा द्रुमाः ॥४१ ॥
चन्द्रमा भगवान् वह्निर्वित्तपालश्च राक्षसः ।
अन्धकेन रणे[^३५] भग्नाः[^३६] शरैराशीविषोपमैः ॥४२॥
गन्धर्वा गुह्यकाः सर्पा[^३७] गरुडाश्च महोरगाः[^३८] ।
अन्धकेन रणे भग्ना विद्धानलसमैः शरैः ॥४३ ॥
विट्पतिः शङ्कुकर्णश्च सोमनन्दी प्रभामयः ।
पिङ्गलो नन्दिषेणश्च घण्टाकर्णो महोदरः ॥४४॥
विद्युत्केशः सुकेशश्च[^३९] स च देवो विनायकः ।
अन्ये च प्रमथाः शूरा वीरभद्रपुरोगमाः ॥४५॥
अन्धकेन रणे भग्नाः शतशोथ सहस्रशः ।
त्रैलोक्यं प्रसभं सर्वमुद्युक्तं सचराचरम् ॥४६॥
अन्धकेन रणे भग्नं सनारायणदेवपम् ।
तस्मिन्सुरबले देवं विमुच्यैकं गणाधिपम् ॥४७॥
महामणिशिरोमौलिं न कश्चिदवतस्थिवान् ।
ततोसुरबले घोरस्सर्वप्राणिकृतो[^४०] महान् ।
सिंहनादरवो जज्ञे सवादित्ररवोद्भुतः ॥४८ ॥
इति स्कन्दपुराणेन्धकविजये चतुष्पञ्चाशदुत्तरशततमोध्यायः ४१ ।