सनत्कुमार उवाच
ततोन्धको वियत्स्थितो महाम्बुदौघसन्निभः ।
विरज्य वर्षमौपलम्[^१] यथैव वर्षमम्बुदः ॥ १ ॥
पट्टशेन - क. ख. । ३५ वैरिणं तूर्णं - ख. । ३६ गिर्यग्रपर्वत - क. । ३७ त - ख. । ३८ शीतान्त्वरु- रुहेष्विव - ख. - ख । ३९ अविरामञ्च विश्रामं - ख. । ४० चिरश्वासं - ख. । ४ । भिन्ननासाक्षिदन्तौष्ठा (?) । ४४ सौहार्यशृङ्गोपलशस्त्रवर्षी - क., सस्त्रवर्षं (?) । ४३ सोप्पायतोदवृत्तसमुद्रनादो - ख. । ४४ देवतसन्धवैरी - क. ख. । ४५२०१ - ख. ।
मौशलं - क. ।
पुनः प्रगृह्य कार्मुकं महेन्द्रकार्मुकोपमम् ।
मुमोच बाणदुर्दिनं बभूव चातिदुर्दिनम् ॥ २॥
ततः सुपर्णपुङ्खिनां सुपर्णपत्रपत्रिणाम् ।
सुपर्णतुल्यपातिनां सुपर्णतुङ्गतुण्डिनाम्[^३] ॥३ ॥
शतं शरीरभेदिनां शरीरसारभोजिनाम् ।
ससर्ज दानवाधिपो जगर्ज चापि दर्पितः ॥४॥
धनुः प्रपूरितेरिता रणप्रचारितैवृताः ।
स्वमार्गयानदेशिका जवे मनोनिलोपमाः ॥ ५ ॥
महेषवोन्धकस्य ते पतन्ति देवतोपरि ।
यथा दिवाकरेरिताः करा महाचलेष्विव ॥ ६॥
शराहताश्च कुञ्जराः शराहताश्च वाजिनः ।
शराहताश्च देवता गणेश्वराश्च सर्वतः ॥७॥
विनिर्गतान्त्रशेणिता[^४] विकीर्णहारभूषणाः ।
विमुक्तकेशबन्धनाः पतन्ति गाढवेदनाः ॥८ ॥
स्थितं चलन्तमुत्थितं प्रधावितं प्रवल्गितम् ।
हयं गजं सुरं यथा प्रपश्यते हि यं यतः ॥९॥
तमन्धकस्तदा रिपुं शरैस्तमोरिविग्रहैः ।
बलान्निपात्य नर्द्दते जलागमे यथाम्बुदः ॥8.153.१० ॥
व्रणार्त्तमुक्तनिस्वनम्[^५] समुद्भ्रमत्तुरङ्गमम् ।
बलं नदीनवद्बभौ[^६] प्रशान्ततूर्यनिस्वनम् ॥ ११ ॥
विभिन्नछिन्नदारितं प्रदग्धजग्धनिर्धुतम् ।
यथा मदान्धकुञ्जर[^७] प्रणष्टपादपं वनम् ॥ १२॥
मुखेषु केचिदाहता निरीक्षणेषु चापरे ।
उरोदरेषु[^८] चापरे[^९] तथा हताश्च पृष्ठतः ॥१३ ॥
सुवर्णपुङ्खिनां - क. । ३- तुण्डतुण्डिनाम् (?) .तुल्यतुण्डिनाम् (?) । ४ न्तषोशिता - ख. । ५ निस्वनिस्वनम् - ख. । ६ नदीनवद् बभौ - क. । ७ महामतङ्गज (?) । ८ उरूदरेपु - क, उरूत - ख. । ९ चार्पिताः - क. ।
शतघ्नयो यथाचिताः शरैस्तथा मरुद्गणाः ।
गणाश्च भीमविक्रमा नभूमिमापुराहताः ॥ १४॥
सुरासुरैः प्रवर्तिता ततो व्रणाम्बुवाहिनी ।
गजेन्द्रनक्रसङ्कुला रथाङ्गचारुकच्छपा ॥ १५॥
निकृत्तहस्तपन्नगा धनुर्ध्वजोत्तमद्रुमा ।
किरीटकूटदर्दुरा धनुर्गुणाभितन्तुका[^१०] ॥ १६ ॥
विकीर्णहारशर्करा सिताम्बरातिफेनिनी ।
सुरासुरैः प्रवर्तिता सुरासुरातिदुस्तरा ॥१७ ॥
ततोञ्जनास्तुदत्विषस्तडित्प्रहासहासिनः[^११] ।
पिशाचयक्षराक्षसाः पिपासयातिकर्षिताः ॥ १८॥
सुरा यथा वरामृतं पपुस्तथैव शोणितम् ।
ततः पुनः समाकुलं बभूव युद्धमद्भुतम्[^१२] ।
तदान्धके[^१३] शराहते[^१४] महेषुणाथ नन्दिने ॥ १९॥
इति स्कन्दपुराणे युद्धभूमिवर्णने त्रिपञ्चाशदुत्तरशततमोध्यायः[^१५]