१५२

सनत्कुमार उवाच
विष्णु[^१] मर्द्यमानं तु दानवान् दानवार्दनम् ।
जम्भोम्बुद इवारावं कृत्वा दुद्राव दानवः ॥१ ॥

तमापतन्तं दृष्ट्वा तु जम्भमम्बुदनिस्वनम् ।
न स संविविजे देवः सिंहो दृष्ट्वेव कुञ्जरम् ॥२ ॥

कुजम्भश्चैव जम्भश्च यवीयान दानवाचलः ।
अनन्तमन्तं शत्रूणामाववार ररास च ॥३ ॥

वृत्रोञ्जनगिरिप्रख्यः संवर्त्त कनिकाशदृक्[^२] ।
जिघृक्षुरभ्यगादिन्द्रं नदमानः[^३] पयोदवत् ॥४॥

तं धावन्तं नदन्तं च दानवं शतलोचनः ।
कुहरे गिरीसङ्काश[^४] माजघान पुरन्दरः ॥५॥

भावयत्यो (?) गदायोधी शतायुं वायुमाहवे ।
योद्धु कामोभ्ययात्तूर्णं जगर्ज च जहास च ॥ ६ ॥

तुहुण्डहुण्डावश्विभ्यामयुध्येतां महासुरौ ।
प्रह्लादेन भगस्सार्धमंशेन च विरोचनः ॥७॥

अर्यमाणं यमञ्चैवा[^७]युद्धेतां विल्वकेल्वलौ[^८] ।
विप्रचित्तिमुखा ये च बलिष्वग्रा[^९] महासुराः ॥८ ॥


यथोदग्रं - क । ३३ पूर्णमण्डलं - क. । ३४… र्गणपतिदेवदानवैः - - क. । ३५ प्रधूपितज्वालितर बभौ रणम् - क. । ३६ आ २०० ख।
विष्णुं - क । २ पिनाकधृक् ख । ३ नर्दमानः ख। ४ गिरिसङ्काशे क। ५ ररास ख ६ अर्यमन्तं - क, आर्य ख। ७ यमञ्चैव क. ख.। ८ युध्येतामित? केल्वलौ क । ग्राम - ख. ।


गणेश्वराँस्ते देवाँश्च अयुध्यन्त सहस्रशः ।
अन्धकस्तु समागम्य नन्दिनं[^१०] दानवर्षभः ॥९॥

ततक्षे वत्सरदनैः[^११] शरैः कार्मुकनिःसृतैः ।
सोन्धकेन दृढं विद्धः शरैर्मर्मविदारणैः ॥ 8.152.१० ॥

चुकोप नन्दी क्रुद्धश्च ससारान्धकमहाहवे ।
सवज्रमुद्यम्य करं दिवाकरकरप्रभम् ॥११ ॥

ररास नन्दी संरब्धः पयोद इव सङ्क्षये ।
वज्रेण शतधारेण सोन्धकस्य गणेश्वरः ॥ १२ ॥

चूर्णयामास तुरगान्नियन्तारं रथं तथा ।
ततोन्धकं कर्णमूले कुण्डलालकशोभिते ॥ १३ ॥

आजघान घनारावो वरदश्चारुकुण्डलः[^१२] ।
तेनाप्यपावृत्य हस्तो हस्तिहस्तनिभस्ततः ॥ १४॥

पातितो नन्दिनः क्रोडे कुञ्जरेणेव संयुगे ।
अपहस्ताहतस्तेन[^१३] दानवेन गणेश्वरः ॥ १५॥

अपासर्पत् पदान्यष्टौ तान्येवापतितः पुनः ।
साधु साध्विति वै दैत्यास्ततो ह्यन्धकमब्रुवन् ॥ १६॥

स तेन सुप्रहारेण दानवं प्रति रोषितः ।
क्रोधमाहारयन्तीव्रमभिदुद्राव चैव हि[^१४] ॥ १७॥

तस्य गत्वा धनुश्चित्रं कवचं च महाप्रभम् ।
वज्रेण शतधारेण खण्डशः प्रचकार ह ॥ १८॥

बाहुपाशेन चैवैनं बद्ध्वा भूतपतिः स्वयम् ।
इयेष भूमौ निष्पेष्टुमन्धकश्चावमोचयत् ॥ १९॥

स मोचयित्वा ह्यात्मानं मायामास्थाय मोहनीम् ।
अभिदुद्राव शैलादिं तिष्ठतिष्ठेति चोचिवान्[^१५] ॥8.152.२० ॥


नन्दिना - क. ख. । ११ वस्त्रवदनै - क. । १२ कुण्डलं - क । १३ अपाहस्ताहतस्तेन - क., अपहस्ताद्धतस्तेन - ख. । १४ ह - ख. । १५ चाब्रवीत् - ख. ।


तमापतन्तं वेगेन गणेश्वरमहत्तराः ।
सर्वे सङ्क्रुद्धमनसो विविधायुधपाणयः ॥२१ ॥

नन्दिषेणः सोमनन्दी शङ्कुकर्णो महोदरः ।
घण्टाकर्णो वीरभद्रः स च देवः प्रभामयः ॥२२ ॥

भर्त्तारमभिरक्षन्तस्तेषां पारिषदाग्रगाः[^१६] ।
अन्धकं योधयन्ति स्म सिंहाः[^१७] शक्रगजं[^१८] यथा ॥२३ ॥

तं नन्दिषेणः शूलेन सोमनन्दी च मुष्टिना ।
शरेण वीरभद्रश्च घण्टाकर्णोसिनापि च ॥२४॥

शङ्कुकर्णो चलाग्रेण पादपेन प्रभामयः ।
अन्धकं चिच्छिदुर्देवा द्रमिडा[^१९] इव चन्दनम् ॥२५॥

नन्दीश्वरस्तु गणपो गणपैर्विमुखीकृतम् ।
आजघानोत्तमाङ्गे तु अन्धकं दानवाधिपम् ॥२६॥

दृष्ट्वासुरपतिं देवैर्गणपैः समभिद्रुतम् ।
असुराणां बले जज्ञे धाव गृह्णेति निस्वनः ॥२७॥

ततोसुराः समाजग्मुः प्रह्लादप्रमुखा द्रुतम् ।
तान्युद्धायागतानेको विष्णुः सर्वानदीधरत् ॥२८॥

चक्रहस्तं तु दृष्ट्वैवं विक्रान्तं रणमूर्धनि ।
चकार सुमहद्वेगमन्धकः क्रोधमूर्च्छितः ॥२९॥

व्यायच्छमानं निश्चेष्टं प्रधावन्तं प्रगर्जितम् ।
यं यतः[^२०] पश्यतेसौ वै[^२१] तन्तं विव्याध सायकैः ॥ 8.152.३० ॥

पृथवः पीतनिशिता गरुडाङ्गरुहन्धराः[^२२] ।
अन्धकस्य शरा घोराश्च्यवन्ते[^२३] धनुषोक्षयाः ॥३१ ॥

मुखेषु दन्तवेष्टेषु उदरेषु करेषु च ।
अन्धकेन गजा विद्धास्त्यजन्त्यतिमदा मदम् ॥३२॥


एते - क., एतेषां पार्षदाग्रगाः - ख । १७ सिंहः - क, सिंहाः - ख. । १८ गजान् - क., गजं - ख । १९ द्राविडा (?) । २० यन्तु (?) । २१ सोरि(म्) - क. । २२… स्वराः - क. । २३. श्चव्यन्ते - क. ।


अन्ये श्रयन्ति देवेशमन्ये चेन्द्रं सुराधिपम् ।
देवं नारायणं चान्ये नन्दिनं चापरे गणाः ॥ ३३ ॥

अन्ये शाखं विशाखं च कुमारमपि चापरे ।
व्यपाश्रित्य स्थिता देवाः शकुन्ता इव पादपान् ॥ ३४॥

यथाशनिभयान्मर्त्या यथा सिंहभयान्मृगाः ।
यथा च गरुडान्नित्यं भुजगा भुजगाशिनः ॥ ३५॥

तथान्धकस्य युद्धस्था देवा दैवतवैरिणः
वित्रेसुः शरजालार्त्ता[^२४] मूढा इव[^२५] च बभ्रमुः[^२६] ॥३६ ॥

बन्धुजीववनं यद्वद् भ्राजते पुष्पसन्नतम्[^२७] ।
तथा व्रणजसिक्ताङ्गं तद् बभौ[^२८] पार्षदं बलम् ॥ ३७॥

कम्पन्ते पादपा यद्वत् काननेष्वनिलेरिताः ।
तथान्धकभयाद्देवाः सन्त्रस्ता रणमूर्धनि ॥३८॥

ततो नारायणोनन्त[^२९] ऊर्जितः शक्र एव च ।
अश्विनौ वसवश्चाष्टावादित्या द्वादशैव तु[^३०] ॥ ३९॥

नन्दी विशाखः शाखश्च वीरभद्रः प्रभामयः ।
विट्पतिः शङ्कुकर्णश्च सोमनन्दी विनायकः ॥8.152.४० ॥

एते बले हन्यमाने अन्धकेन बलोर्मिभिः ।
दुद्रु वुस्सायुधा देवास्तं दानवगणाधिपम् ३१ ॥४१ ॥

गन्धर्वभवनाकारं तं तस्य रथसत्तमम् ।
परिवार्य बभञ्जुस्ते[^३२] जगर्जुश्च पयोदवत् ॥४२ ॥

भज्यमानः सुरैरासीदन्धकस्य महारथः ।
अधर्मे प्रकृतो[^३३] यद्वद् विघ्नैरिव मनोरथः ॥४३ ॥

चक्रायुधं स चक्रेण शक्रं वज्रेण दानवः ।
अनन्तमिषुणैकेन शूलेन च विनायकम् ॥४४॥


शरजालाङ्का - ख । २५ वै इव - क. । २६ विभ्रमुः - क., इव विबभ्रमुः - क. । २७ सन्ततं - ख. । २८ स बभौ - क । २९ नारायणोनन्तो - क. । ३० च - ख. । ३१ गणाधिपाः - क. । ३२.. श्च - क. ख. । ३३ अधर्मेषु कृतो - क. ।


मुष्टिना नन्दिनं चैव पट्टिशेन[^३४] प्रभामयम् ।
भल्लेन चैव पूषाणं गदया यममेव च ॥४५॥

आहत्य वैरिणस्तूर्णं[^३५] सर्वानेव रणेन्धकः ।
उत्पत्य चानदद् व्योम्नि जलमत्त इवाम्बुदः ॥४६ ॥

स कूटयोधी कूटानि गिरीणां गिरिसन्निभः ।
सवृक्षक्षुपसर्पाणि ससर्ज च जगर्ज च ॥४७ ॥

गिर्यग्रवर्षं[^३६] तद्[^३७] घोरं सवृक्षर्क्षमहोरगम् ।
पपात देवसैन्येषु शोतमम्बुरुहेष्विव[^३८] ॥४८ ॥

अविराममविश्रामं[^३९] निरुच्छ्वासं[^४०] भयाकुलम् ।
’ ’ ’ ’ ’ - ’ - - - - - - - - - ॥४९ ॥

छिन्ननासाक्षिदन्तौष्ठा[^४१] भग्नपादकटीकराः ।
उत्त्रस्तोद्भ्रान्तचकिता दृश्यन्ते प्रमथामराः ॥8.152.५० ॥

सौधाग्रशृङ्गोपलशस्त्रवर्षी[^४२] मुहुः सृजन्भात्यसुरोम्बरस्थः ।
ता मे - - - - - - - - - - - - - - - - - - - ॥५१ ॥

                                      • शब्दम् ।
                                        अब्जं महद्धूमलावृतञ्च खद्योततुल्यं च महाग्निचूर्णम् ॥५२ ॥

सोप्यायितोद्वृत्तसमुद्रनादो[^४३] नभोगतो दैवतसङ्घवैरी[^४४] ।
मुहुः सृजत्येव महाम्बुवर्षं यथान्तकालेम्बुमुगुग्रवर्षम् ॥५३ ॥

इति स्कन्दपुराणे अन्धकयुद्धे द्विपञ्चाशदुत्तरशततमोध्यायः[^४५]