सनत्कुमार उवाच
वर्तमानेन्धके युद्धे विद्रवत्सु गणेषु च ।
त्रिदशाधिपतिं शक्रमित्युवाच पितामहः ॥ १ ॥
विमुखान्पश्य भद्रन्ते प्रमथानमरधिप ।
काल्यमानान् रणे घोरैर्दानवैरन्धकेन[^१] ॥२ ॥
निहतान्निहतानेष प्रथमैर्दानवान् युधि ।
शुक्र उज्जीवयन्नास्ते सस्यानि[^२] जलदो[^३] यथा ॥३ ॥
असौ विकृष्टचापश्च सेन्द्रायुधघनोपमः ।
सृजतीषुमयं वर्षमन्धकः क्षपयन् रिपून् ॥४॥
घोरे दानवैरन्धकेन (?) । २ सस्यं हि - ख., सस्यं ह्य - क. । ३ तोयदो - ख., म्बुमुचो - क. ।
प्रमथाभ्यर्दनं ह्येतदहितं ह्ययशस्करम् ।
क्षममाणा ह्यतिष्ठध्वं कस्मादेतत् पराजयम् ॥ ५॥
जित्वा ह्येष गणन्सर्वानन्धको दानवेश्वरः[^४] ।
अस्माकमपि[^५] मूलानि निर्मूलानि करिष्यति ॥ ६॥
तद्यावदेष नो बाणैः प्रमथान्नयति क्षयम् ।
तावदेव वयं पार्ष्णिं गृह्णाम कृत्तिवाससः ॥७॥
एवं तव च कार्यार्थः सेत्स्यते देवताधिप ।
रुद्रस्य च कृतं ह्येवं भविष्यति महत् प्रियम् ॥८॥
स्वयम्भुवचनं श्रुत्वा बलवृत्रनिबर्हणः ।
युक्तमेतदिति प्रोच्य सुरान् सुरपतिर्जगौ ॥ ९॥
गृहीतवर्मशस्त्रास्त्राः शीघ्रं शीघ्रपराक्रमाः ।
साहाय्यं करवामाद्य[^६] गणानां युध्यतां रणे ॥ 8.151.१० ॥
ततो नारायणानन्तौ[^७] नरेन्द्रौ चन्द्र[^८] एव च ।
स्वयम्भुरनलो वायुः सूर्यो धनद एव च ॥ ११ ॥
पूषार्यमा भगो मित्रो यमश्च रविनन्दनः ।
अंश[^९]स्त्वष्टा जयश्चैव जयन्तश्चैव शक्रजः ॥ १२॥
मरुतो वसवः साध्यास्तथाश्विगरुडोरगाः ।
तुषिताश्चैव लेखाश्च विश्वेदेवाश्च गुह्यकाः ॥ १३ ॥
गन्धर्वाश्चैव यक्षाश्च[^१०] ये चान्ये देवपक्षिणः ।
ते सर्वे वातरन् युद्धे[^११] हन्तुकामास्तथान्धकम्॥१४॥
अथ दुन्दुभिशब्दाश्च सिंहनादाश्च भैरवाः ।
बभूवुर्देवसैन्येषु प्रमथानां प्रियङ्कराः ॥ १५॥
देवैः पतद्भिस्तत्सैन्यं दानवानां विलोडितम् ।
प्रभूतमीनं क्षीणाम्बु राजहंसैर्यथा सरः ॥१६॥
दानवैस्सह - क. ख. । ५ युष्माकमपि - ख. । ६ कुर्म देवस्य - क. ख । ७ नारायणोनन्तो (?) । ८ नरेन्द्रचन्द्र (?) । ९ अंशु - ख. । १० योद्धुकामाश्च - ख. । ११ .. वतरन् युद्धे - क. ख. ।
ततो हलहलाशब्दः सञ्जज्ञेतीवभैरवः ।
देवताध्युषिते सैन्ये दानवानां समाकुले ॥ १७॥
सामुद्रमम्भस्तिमिभिर्घनैरिव यथा नभः ।
कफपित्तैर्यथा देहो गरुडैर्भोगिनो यथा ॥१८॥
तथा तदन्धकबलं बलेन त्रिदिवौकसाम् ।
मुहूर्तेन कृतं सर्वं विहस्तकवचध्वजम्[^१२] ॥ १९॥
एकतः सेन्द्रकै[^१३] र्देवैरेकतश्च गणेश्वरैः ।
हन्यते दानवानीकमजा[^१४] वृकशतैरिव ॥8.151.२० ॥
वज्रोद्यतकरो देवो देवानां देवपुङ्गवः ।
ओङ्कार इव वेदानां[^१५] तेषामासीत् पुरस्सरः ॥२१ ॥
वज्रास्त्रपावकेनेन्द्रो ददाह समरे रिपून् ।
दुरितानि तु सर्वाणि प्रायश्चित्तानलो यथा ॥२२॥
देवैश्च प्रमथैश्चैव हन्यमाने बलेन्धकः ।
उवाच क्रोधरागान्धो दानवान्दानवाधिपः ॥२३ ॥
उत्पाद्य वैरं रुद्रेण सर्वलोकाभिरक्षिणा ।
न शक्यं प्रमथान् जेतुमनिर्विण्णैः सहामरान्[^१६] ॥२४॥
मरणाच्च न[^१७] भेतव्यं युध्यध्वं दैत्यदानवाः।
भार्गवस्तिष्ठति ह्येष यो नः सञ्जीवयिष्यति ॥२५॥
तत् प्राणेष्वदयन्तो वै यूयं देवगणेश्वरान् ।
यथाबलं यथोत्साहं वारयध्वमशङ्किताः ॥२६॥
मायाभिरेतान् बह्वीभिर्गूढाभिर्गूढरूपिणः ।
निवारयत युद्धेन सर्वान् देवान् समागतान् ॥२७॥
इत्युक्ता[^१८] - - - - - - - - - - - - - ।
-
-
- चक्रुर्घोराणि कल्पान्ते नीरदा इव ॥२८॥
-
विध्वस्तकवचध्वजम् (?) । १३ सैन्यकै - ख । १८ शतानीकमाजं (?) । १५ देवानां - क. ख.. । १६ सहामराः सहामरारे ( ?) - क. । १७ मरणान्न च - ख । १८ इत्युक्त्वा - क. ख. ।
धनुःशब्दान् प्रकुर्वाणाः सिंहनादरवांस्तथा[^१९] ।
दुद्रुवुर्दानवा देवानन्धकेन प्रचोदिताः ॥२९॥
विकृष्य तु महाचापं[^२०] सागराम्बुदनर्दनः १ ।
रुद्रमुद्दिश्य वेगेन ससारान्धकदानवः ॥8.151.३० ॥
तं दानवेन्द्रं दुर्वारं धावमान - - - - ।
वारयामास शैलादिर्धर्मचित्तमिवाशुभम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥३१॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
स’ नन्दिनं त्रिभिर्बाणैर्ज्वलनादित्यसन्निभैः ।
निबिभेदान्धकः क्रोधाद् बाहुमध्ये निपीडयन् ॥३२॥
गाढं विदारितस्तेन दानवेन गणेश्वरः ।
सं[^२२] जुघूर्ण तदा नन्दी वायुनुन्नो यथा द्रुमः ॥३३॥
घूर्णमानो बभौ नन्दी मृष्टकुण्लभूषणः ।
चलत्पल्लवपुष्पाढ्यो यथाशोकतरुस्तथा ॥३४॥
ततश्चिरात्समाश्वस्य सुयशाः सुयशापतिः ।
वज्रमूर्जितमुत्क्षिप्य सोन्धकाय ससर्ज ह ॥३५॥
तत्पावकरविप्रख्यं वज्रमागतमूर्जितम् ।
व्यष्टम्भयत बाणौघैरन्धकः प्रजहास च ॥३६॥
हसतस्तस्य[^२३] नेत्राभ्यां सुभ्रूभ्यामश्रुबिन्दवः ।
न्यस्रवन्त यथार्कस्य किरणा दीप्तमण्डलात् ॥३७॥
भूतराज[^२५]स्तस्तोत्पाट्य द्रुमं व्याकुलपल्लवम् ।
हतोसि हेन्धकेत्युक्त्वा ससर्ज च जगर्ज च ॥३८॥
तं धावमानमाकाशे तरुमारुतवीजिताः[^२६] ।
अनुव्रजन्ति भ्रमरा मित्रं व्यसनगं यथा ॥३९॥
स्तदा - क. । २० महच्चापं - क । २१.. नर्दनं - क. ख.,.. वन्नदन् (?) । २२ स - क. । २३ हतस्य तस्य - ख. । २४ शुभ्राभ्यामश्रुबिन्दवः - क., शुभाभ्या.. - ख. । २५ भूतराज्य - क. । २६ मरुतजीवितम् - ख,, जीविताः - क. ।
तमप्यस्यान्धको बाणैश्चारुकाञ्चनभूषणैः ।
चकर्त धर्ता[^२७] लोकानां दितिगर्भं यथाहिहा ॥8.151.४० ॥
वृक्षे कृते ततो नन्दी समृगव्यालपन्नगम् ।
मन्दराग्रं समुत्पाट्य दुद्रावान्धकमाहवे ॥४१ ॥
गिरिकूटं तु तं नन्दी गिरिकूटवनालयः ।
अपातयद्रथे तस्य विन्ध्ये वज्रमिवाहिहा ॥४२ ॥
स रथस्तेन शृङ्गेण नन्दिना दृढमाहतः ।
सचक्रकूबरहयः पांसुसायुज्यमागमत्[^२८] ॥४३ ॥
ततोन्धकरथं दृष्ट्वा सचक्राक्षं विचूर्णितम् ।
नेदुर्देवाः सगन्धर्वाः प्रमथाश्च सगुह्यकाः ॥४४॥
ततोन्धकस्त्रिशूलेन नदित्वा कालमेघवत् ।
नन्दिनं ताडयामास गजेन्द्र इव पादपम् । ४५॥
त्रिशूलिदयितस्तेन त्रिशूलेनाभिताडितः ।
नन्दी विह्वलसर्वाङ्गश्चकम्पेन्तर्जलेन्दुवत् ॥४६॥
नन्दीश्वरे घूर्णमाने प्रहारेण भृशार्दिते ।
असुराणां बले जज्ञे सिंहनादरवो मुहुः ॥४७ ॥
सिंहनादेन शत्रूणां तेन नन्दी प्रबोधितः ।
परश्वधेनाभ्यहनदन्धकं भूतबान्धवः ॥४८॥
परश्वधहतो रक्तं चक्षरान्धकदानवः ।
गजदन्ताहतो रक्तं स्वरसं चन्दनो यथा ॥४९ ॥
अन्धकं विरथं दृष्ट्वा ररक्षुरमरद्विषः ।
आशास्ववस्थिता[^२९] देवा यथा लोकमिमं तथा[^३०] ॥8.151.५० ॥
अथ बाणो बलेः पुत्रो बाणपुष्पसमप्रभः
अन्धकं रथयानेन सम्पादयत दानवः[^३१] ॥ ५१ ॥
भर्ता (?)। २८ पांशुपा?योज्यमानयत् क.। २९ वस्था ख। ३० यदा क। ३१ दानवः सुमपादयत् (?) ।
स तं रथं दानवेन्द्र आरुरोह तदान्धकः ।
यथोदयं[^३२] तु भगवान् दिनकृत् पूर्णमण्डलः[^३३] ॥५२ ॥
ततः पुनर्युज्यत देवदानवैः[^३४] प्रकर्तुकामैः कलहं सुदारुणम् ।
त्रिशूलवज्राशनिःसायकै रणे प्रधूपितोग्निर्ज्वलितस्तरां बभौ[^३५] ॥५३ ॥
इति स्कन्दपुराणे न्धकनन्दियुद्धे एकपञ्चाशदुत्तरशततमोध्यायः[^३६]