१५०

व्यास उवाच
मायावीर्यं च वीर्यं च अन्धकस्यामरद्विषः ।
सृष्टं भगवता सम्यग् देवरूपनिमित्तजम् ॥ १ ॥

निगीर्णो यस्य देवेन शरीरे भार्गवो मुनिः ।
कथं तु कृतवांस्तत्र देवदेवशरीरगः ॥२॥

कथं च तपसो वीर्याद् योगवीर्याच्च स द्विजः ।
श्वेताभ्रादिव वै चन्द्रो निःसृतो[^१] भृगुनन्दनः ।१३ ॥

एतत् कौतूहलं जातं ममाद्य मुनिसत्तम ।
कथयेशानचरितं भार्गवस्य च धीमतः ॥४॥

सूत उवाच
स एवमुक्तो व्यासेन पद्मगर्भसुतः प्रभुः ।
सनत्कुमारोकथयच्छिवाच्छुक्रस्य निर्गमम् ॥५॥

देहे तस्य तदा शम्भोः शुक्रो विनिहतद्युतिः[^२] ।
छिद्रान्वेषी भ्रमन्नेव अनिकेतो यथानिलः ॥६॥


पदा - क. । २१ स - क., भक्तिगणेश्वराः - ख. । २२.. स्तनया - क. । २३ पुत्राश्रयाश्च - ख । २४ हाराभरणा - क.,… स्रगस्त्राः - ख. । २५ व्याविध्यवस्त्रा - क । २६१९८ - ख ।
निभृतो - क. । २ विनिहितद्युतिः - क. ।


स लोकानग्निवर्णाभान् रुद्रकोटिशतैर्वृतान ।
रुद्रकन्याविचरितान् रुद्रदेहेभ्यपश्यत ॥७ ॥

कुन्देन्दुशङ्खवर्णानां दंष्ट्रिणां नखिनामपि ।
दीर्घलाङ्गूलजुष्टानां सदर्पाणां क्षमावताम्[^३] ॥८ ॥

ज्वलनप्रभकेशानां नन्द्यावर्तकधारिणाम् ।
किंशुकप्रभजिह्वानां कैलासगिरिवर्ष्मणाम् ॥ ९॥

अग्निबन्धनबद्धानाम्[^४] सिंहानां भीमरूपिणाम् ।
सहस्रं ददृशे देहे देवदेवस्य भार्गवः ॥ 8.150.१० ॥

सुरांश्च सेन्द्रान् सादित्यान्[^५] साप्सरोगणमानवान्[^६] ।
गणेशासुरयुद्धं च सोपश्यद्धरदेहगः[^७] ॥ ११ ॥

वर्षाणां तु शतं कुक्षौ भ्रममाणो भवस्य सः[^८] ।
न तस्य ददृशे छिद्रं शुचेरिव यथा कलिः ॥१२ ॥

योगमप्यस्य सैश्वर्यमणिमादिगुणान्वितम्[^९] ।
प्रजहार महादेवो मनोवाग्यतचेतसः[^१०] ॥ १३ ॥

अथ शब्दो महानासीत् प्रमथासुरसैन्ययोः ।
तं श्रुत्वा शब्दमाविग्नो भार्गवः प्रतिबोधितः ॥१४॥

सोन्तर्गत उमाभर्तुर्ब्राह्मणस्तपसैधितः[^११] ।
तुष्टावेष्टैः स्तवैर्देवं सोमं सोमविभूषणम् ॥ १५॥

आपद्भावं प्रपन्नस्य तस्य देवेन शूलिना ।
लिङ्गेन निष्क्रमस्वेति प्रसादाभ्युदयः[^१२] कृतः ॥१६॥

सूक्ष्मरूपस्ततो भूत्वा स शुक्रो मुनिसत्तमः ।
शुक्रवन्निःसृतो लिङ्गाद् देवदेवस्य धीमतः ॥ १७॥

शुक्रवन्निःसृतो यस्माच्छिश्नाद् भार्गवनन्दनः ।
तस्माच्छुक्र इति ख्यातिं गतो गतिमतां वरः ॥ १८ ॥


? ४ ? ५ आदित्यान् - ६. अप्सरोगणमानवान् - क. ७ अपश्यद्धरदेहजः - क. । ८ च - क । ९ गगान्वित. - खे । १० वाग्यतचेतसः - क, । ११ स्तपसेधितः - क ख. । १२ प्रा ( प्र) सादः प रम - ख. ।


वन्दमानश्च[^१३] तेनोक्तः पयोदपतिकेतुना ।
शुक्रवन्निःसृतो मेद्य यस्मात्त्वं भृगुनन्दन ॥ १९॥

कर्मणा तेन शुक्रोसि मम पुत्रश्च गम्यताम् ।
इत्येवमुक्तो देवेन शुक्रोर्कसदृशद्युतिः ॥8.150.२० ॥

विवेश दानवानीकं मेघानीकं शशी यथा[^१४] ।
तं दृष्टवा चन्द्रसङ्काशं चन्द्रोदयनिभोदयम् ॥ २१ ॥

चन्द्रोदये यथा नॄणां प्रीतिरासीत् सुरद्विषाम् ।
ते दृष्टवा दनुदैतेयाः शुक्रं चन्द्रसमप्रभम् ॥ २२ ॥

सर्वे सिंहरवाँश्चक्रुः[^१५] सम्प्रहृष्टा युयुत्सवः ।
निहता दानवा ये तु प्रमथैर्जितकाशिभिः ॥ २३ ॥

तानागतान्मृत्युमुखान्मेनिरे भार्गवागमात्[^१६] ।
ववन्दुस्तं[^१७] ननन्दुश्च प्रसेदुश्च[^१८] महासुराः ॥२४॥

शुक्रोदयमुदं लेभे स दानवमहार्णवः ।
यथा चन्द्रोदये नित्यं सागरो राक्षसैर्युतः ॥ २५॥

अथ शाखो विशाखश्च छागवक्त्रश्चतुर्मुखः ।
नन्दी च सोमनन्दी च नन्दिषेणश्च वीर्यवान् ॥ २६ ॥

घण्टाकर्णः शङ्कुकर्णः कुण्डोदरमहोदरौ ।
विट्पतिर्वीरभद्रश्च स च देवः प्रभामयः ॥२७॥

संवर्तकानलोर्वौ[^१९] च यशोदीप्तो[^२०] विभाकरः ।
वेगपश्च[^२१] शिखण्डी च ताम्रचूडश्च कुक्कुटः[^२२] ॥ २८ ॥

अन्नदः पिङ्गलो यक्षः पिङ्गलश्च वटुः[^२३] पटुः ।
विद्युत्केशः सुकेशश्च राक्षसौ चापराजितौ ॥ २९ ॥

एते चान्ये च गणपा लोकपालसमत्विषः ।
विविशुर्दानवानीकं शुक्रोदयसमुद्धतम् ।, 8.150.३० ॥


वन्द्यमानश्च - क. । १८ शशिर्यथा - क ख. । १५ चक्रुस्सर्वे सिंहनादान्., ना (न) दाँ.. - ख. । १६ शुक्रोद्गमात् - क. ख. । १७ ववन्दुश्च - क. ख । १८ प्रक्ष्येदुश्च - ख । १९ संवर्त्तकानलोकौ - ख., नलोवौ - ग । २० दीप्तौ - क. ग. । २१ वेणपश्च - क., छगपश्च - क. । २२ कुर्कुटः - ख. । २३ पटुः - क. ।


अथ वादित्रशब्दास्तु सिंहनाहरवैः सह ।
बभूवुः सेनयोरुग्राः सर्वभूतप्रकम्पनाः ॥ ३१ ॥

ततः प्रहरर्णेर्घोरैस्तुण्डनिर्वापितैस्तलैः[^२४] ।
परस्परं समासाद्य निर्जघ्नुस्ते[^२५] परस्परम् ॥३२ ॥

नन्दीश्वरं पुरस्कृत्य कार्त्तिकेयञ्च षण्मुखम् ।
मृद्रन्ति[^२६] प्रमथा दैत्यान् सर्पाँस्तार्क्ष्य इवाहवे ॥३३ ॥

असिपातावलूनाग्रा मुशलाहतमस्तकाः ।
दानवाः शेरते भूमौ वज्रभिन्ना इवाचलाः ॥३४॥

शरनिर्भिन्ननिर्भग्नाः[^२७] सम्भग्नोरुप्रबाहवः
रिरिङ्गुस्समरे[^२८] दैत्याः सर्पास्तार्क्ष्यार्दिता इव ॥३५॥

भग्नत्रिकोरुजघना[^२९] घनबाणावपीडिताः[^३०] ।
दैत्या विनिष्टनन्त्यार्त्तास्तोयपूर्णा इवाम्बुदाः ॥३६॥

तस्मिन् गणपदैत्यानां मथने भृशदारुणे ।
बभूव पूर्णा[^३१] दैत्यानां[^३२] धरा द्यौरिव नीरदैः ॥ ३७॥

किरीटैर्मुकुटैर्हारैर्वलयाभरणाङ्गदैः ।
पारिहार्यैस्स[^३३] केयूरैः श्रोणीसूत्रैस्सकुण्डलैः[^३४] ॥३८॥

शिरस्त्रैर्मणिभिः शुभ्रैर्ग्रैवेयैरपि सुप्रभैः ।
स्रग्दामैश्चारुकुसुमैर्नेत्रै रत्नाग्रबाहुभिः[^३५] ॥ ३९ ॥

अस्त्रैः शस्त्रैश्च वस्त्रैश्च छत्रै[^३६] श्चेन्दुसमप्रभैः ।
रक्तकुङ्कुमचित्राङ्गी[^३७] नानाभरणभूषणा[^३८] ॥8.150.४० ॥

धनाढ्या स्त्रीरिवाभाति तत्र तत्र रणावनिः ।
सिंहानामिव दृप्तानां हस्तिनामपि वा यथा ॥४१ ॥

उत्साहोभूद् गणेशानां दानवान् सम्मप्रर्दताम् ।
ते हन्यमानाशरणा[^३९] भयार्त्ताः शरणार्थिनः ॥४२॥


निर्घाचितैस्तलैः - ख. । २५ निजघ्नु - क.. । २६ ममर्दुः (?) । २७ निर्म्मग्नाः - ख. । २८ ररङगुःसमरे - क. । २९ त्रिसा (का) स्थिजघना - ख. । ३० बाणग्रपीडिताः (?) । ३१ देव - ख. । ३२… दित्यानां - क., दिव्यानां - ग. । ३३ परिहार्यैश्च - ख । ३४.. स्सबन्धनैः - ख । ३५ रत्नाग्रबा- हुभिः - क । ३६ तीक्ष्णैः - ख. । ३७ रणकुङ्कुमचित्राङ्गी - क. ख. ग. । ३८ भूषिता - ख. । ३९ आहन्यभानाशरणाः - ख, ।


प्रमथैरनुबद्धाश्च दानवाः सागरं श्रिताः ।
दृष्ट्वा तद्रेचितं[^४०] सैन्यं दानवैः प्रमथार्दितैः ॥४३ ॥

प्रविष्टेषु च दैत्येषु सागरं मकरालयम् ।
भार्गवः सुमहातेजा यथाग्निरिव मूर्छितः ॥४४॥

स समुद्रालयान् दैत्याञ्छशाप कुपितो भृशम् ।
यस्मात्सहायानुत्सृज्य मां चापि पितृवद्धितम् ॥४५॥

प्राणत्राणार्थमबलाः प्रविष्टाः स्थ[^४१] पयोनिधिम् ।
तस्मात्तत्रैव निर्ह्रीका[^४२] मम शापपरिक्षताः ॥४६॥

मीनभावमनुप्राप्ता[^४३] जाताजाता भविष्यथ ।
यावल्लोका भविष्यन्ति पर्वताश्च ससागराः ॥४७॥

तावद्यूयं जले मत्स्या भविष्यथ जलेचराः ।
नरमांसाशनाः पापा नरभक्ष्या भविष्यथ ॥४८॥

क्षपयिष्यथ मच्छापं वर्षकोटीशतान्युत ।
इति शापहतान् शेषान्[^४४] कृत्वार्णवजलौकसः[^४५] ।
विरराम महातेजाः शुक्रश्चन्द्रसमद्युतिः ॥४९॥

सनत्कुमार उवाच
ततस्ते वार्धितोयेषु गुरुशापहतासुराः ।
सायुधाः सतनुत्राश्च दृश्यन्ते दंशिताश्च ह ॥8.150.५० ॥

अन्धकं तु ततः शुक्रः[^४६] शुक्रारिभयविह्वलम्[^४७] ।
उवाच पाणिना स्पृश्य जीवयन्निव तं गिरा । ५१ ॥

माभैस्त्वं[^४८] दानवश्रेष्ठ प्रतियुध्यस्व[^४९] शत्रुषु ।
अहं त्वां धारयिष्यामि आहार इव जीवितम् ॥५२ ॥

इत्येवमुक्तः शुक्रेण सोन्धको दानवेश्वरः ।
एवमेतदिति प्रोच्य रुरोध प्रमथान् रणे ॥५३ ॥


तद्रचितं - ख. । ४१. स्तु - क. ग. । ४२ निस्ती (श्री) का - ख. । ४३ ग्रासभावमनुप्राप्ता - क. ग. । ४४ चैतान् - ख.. तेषां - ग. । ४ र जलौकसान् - क. ग. । ४६ शुकाः - क । ४७ शुक्रारिं - क । ४८ भीस्त्वं - क. । ४९.. बुद्धस्य - क., युद्धस्व ख. - ग. ।


ततः प्रविष्टेष्वसुरेषु सागरं निहन्यमानेषु च शङ्करानुगैः ।
दधार सर्वान्प्रमथान् तदान्धको[^५०] नदीनदान् भूरिजलो यथार्णवः ॥५४॥

स नन्दिनं द्वादशभिः पराभिनत् तदान्धकः पञ्चभिरेव चाग्निजम् ।
विशाखशाखौ दशभिः शतेन च स नैगमेषं प्रतुतोद दानवः ॥५५ ।
स वीरभद्रं च तथा च विट्पतिं प्रभामयं यक्षवरं च पिङ्गलम् ।
विबभेद बाणैस्तपनीयभूषणैर्यथाङ्कुशाग्रैरिव हस्तिपो गजम्[^५१] ॥५६; ।
न सोस्ति तस्मिन् पुरतो न पृष्ठतो हयो गजो वा प्रमथोथवेतरः ।
शरान्न यो धारयतेन्धकेरितान् प्रदीप्तकालानलसूर्यसन्निभान् ॥५७ ॥

विवृश्चिताश्चन्दनवद् गणेश्वरा भुजोदरे वक्षसि[^५२] मूर्घ्नि चासकृत् ।
निरुद्यमास्तस्थुरमित्रनन्दना यथा गजाः पञ्जरबन्धबन्धनाः[^५३] ॥५८॥

ततोसुरैः सिंहरवास्तदा कृताः सशङ्खभेरीशतदुन्दुभोत्कटाः[^५४] ।
पुनश्च युद्धं प्रबभौ भयानकं गणेश्वराणां सह दानवेश्वरैः ॥५९॥

इति स्कन्दपुराणे गणयुद्धे सुरशापे पञ्चाशदुत्तरशततमोध्यायः