१४८

सनत्कुमार उवाच
शुक्रेथ शुक्रपतिनागीर्णेन्नेव भुजङ्गिना[^१] ।
बभूवुर्दानवाः सर्वे दरिद्रा इव निष्क्रियाः ॥ १ ॥

विशरीरा यथा जीवा गरुडा विरया[^२] इव ।
विहस्ता इव मातङ्गा विशृङ्गा इव गोवृषाः ॥ २॥

निर्विषा इव नागेन्द्रा निर्विद्या[^३] इव च द्विजाः ।
सागरा इव निस्तोया विवेगा इव मारुताः[^४] ॥ ३ ॥


इवाभिधावन् - क ख. । ४५ यूथपाधिपम् - - क, यूथपदानवानां - घ. । ४६ याहीति ख ४७ भगवन्नितीद - क । ४८ च स - क. । ४९ - वक्रस्थितः - क., चिक्षेप वक्त्रे तु ५० देवसैन्यं - क ।
र्न्नध (र्ण्णय?) भुजाग्निना - क., शीर्णे गठरवह्निना - घ । २ विरथा - वः । ३ अविधा क,। ४ शाकुना - ख ।


पयोदा इव निश्शब्दा विशिखा इव चाग्नयः ।
गतोत्सवा व दिवसा[^५] विपुष्पा इव पादपाः ॥४॥

हरिणा इव सन्त्रस्ता विपक्षा इव पक्षिणः ।
ग्रहा इव प्रशान्ताभा ग्राहा इव जलोद्धृताः ॥५॥

नन्दिनापहृते शुक्रे गीर्णे चापि कपर्दिना ।
दानवा जज्ञिरे शूरा दीनमानपराक्रमाः[^६] ॥६ ॥

वैमनस्यं परं प्राप्तो[^७] दानवानां रणेन्धकः ।
उवाच मेघनिनदः संयुगस्थः स दानवः ॥७॥

विक्रम्य नन्दिना शुक्रं नयता[^८] नयिनां वरम्[^९] ।
हृतानि नोद्य सर्वेषां जीवितानि न संशयः ॥८ ॥

प्रमथैर्निहतान्दैत्यान् कः पुनर्जीवयिष्यति ।
भार्गवं तमृते शुक्रं[^१०] कोन्यो नो[^११] धारयिष्यति ॥ ९॥

धैर्यञ्च विक्रमस्तेजः सत्वं वीर्यं बलं धृतिः ।
शत्रुभिर्नो हृतं सर्वं देवे[^१२] शुक्रेपवाहिते ॥ 8.148.१०
भार्गवेपहृते[^१३] देवे[^१४] ममापि व्यथितं मनः ।
न त्वहं संयुगं जह्यां[^१५] प्रमथैस्समभिद्रुतः ॥ ११ ॥

संस्तम्भयत माभैष्ट युध्यध्वमरिभिः सह ।
सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना ॥ १२ ॥

अद्यैतान्[^१६] विवशान् कृत्वा[^१७] हत्वा च त्रिदशानपि ।
भार्गवं मोक्षयिष्यामि पञ्जरस्थं यथा हरिम्[^१८] ॥ १३ ॥

स चापि योगी योगेन यदि नाम स्वयं प्रभुः ।
शरीरान्[^१९] निष्क्रमेत्तस्य अस्माकं शेषपालितः ॥ १४॥

इत्यन्धकवचः श्रुत्वा दानवा मेघनर्दनाः ।
प्रमथानर्दयामासुर्मर्त्तव्यकृतनिश्चयाः ॥ १५ ॥


हीननानपराक्रमाः (?) । ७ दृष्ट्वा - ख. । ८ नयिना - क., जयिना? - ख. । ९ वरः - क. । १० शुक्रं क । ११ मे - ख । १२ देवैः - ख. । १३ प्रहृते - ख । १४ देवा ( वै?) - ख, । १५ जह्य - क ख. । १६ अदैत्यान् - क., प्रमथान् - ख. । १७ हत्वा - क. । १८ सिंहं पञ्जरगं यथा - ख. । १९ उदरात् (?) ।


तत्र षाणासिवज्रौघैः कटङ्ककटशिलोपलैः ।
अन्योन्यमवकृन्तन्तस्ते चक्रुः[^२०] कदनं महत् ॥१६ ॥

कार्मुकाणां विकृष्टानां विसृष्टानां च पत्रिणाम् ।
निपात्यतामसीनां च शब्दोभूद् भृशदारुणः[^२१] ॥ १७॥

भग्नध्वजपताकानि क्षीणप्रहरणानि च ।
रुधिरास्रावचित्राणि[^२२] व्रणाकुसुमितानि च ॥१८॥

पिपासितानि श्रान्तानि[^२३] हतवाजिगजानि च ।
समुद्राम्बरकल्पानि बलान्यासन् समन्ततः ॥ १९॥

अथ भूयो गजेन्द्रेण चतुर्दन्तेन गर्जता ।
अञ्जनाचलकल्पेन अञ्जनद्विपवर्चसा ॥8.148.२० ॥

सतूणीरपताकेन अङ्कुशारोषितेन च[^२४] ।
जम्भो दानवशार्दूल अभिदुद्राव नन्दिनम् ॥२१ ॥

गजस्कन्धगतो दैत्यो बभौ जम्भः सतोमरः ।
कृष्णापर्वतशृङ्गस्थस्सबलाक इवाम्बुदः ॥ २२ ॥

स्तब्धलाडत्गूलदृक्कर्णः प्रसारितमहाकरः ।
चदितो दानवेन्द्रेण समधावन्महागजः ॥ २३ ॥

युगान्तेर्णववातस्य अनौपम्यो यथा जवः ।
अनौपम्यस्तथा तस्य जवो नागस्य धावतः॥२४॥

तुरङ्गा ये च मातङ्गा प्रमथा ये च दानवाः ।
तस्य मार्गादपक्रान्ता मृत्योरिव यथा नराः ॥ २५॥

तं मत्तनागं धावन्तं नदन्तमिव नीरदम् ।
वारयामास बलवान् विक्रम्य स विनायकः ॥२६॥

स तं देववरो दन्ती[^२५] करिणं[^२६] पर्वतोपमम्[^२७] ।
प्रकीर्णेन कराग्रेण प्रमुखेभिजघान[^२८] ह ॥२७॥


मवकृन्तन्तः प्रचक्रुः - क. । २१ दारुणाम् - क । २२ रुधिरस्रवचित्राणि - ख । २३ भिभूतानि - ख. । २४ रोपितेन च(?) । २५ नन्दी - ख, । २६ किरिणं - क. । २७ पर्वतत्विषं - क. । २८ प्रभुखोमिजघान (?) ।


विनायकेनाभिहतो नायकः सर्वहस्तिनाम् ।
स रुजा घोरया नुन्नो मुहूर्त्तमभवज्जडः ॥२८ ॥

अथाश्वस्य च[^२९] विश्रम्य[^३०] संवर्त्यात्मकरं[^३१] करी ।
विनायकमुरोदेशे[^३२] ताडयामास नर्दयन्[^३३] ॥२९॥

स विन्ध्यकूटकल्पेन तेन नागेन ताडितः ।
पदात्पदं न चलितो महासत्वो विनायकः ॥8.148.३० ॥

नासया स गृहीत्वा तं नासायां[^३४] दानवद्विपम् ।
आक्षिप्य पातयामास गिरिवर्ष्मा[^३५] विनायकः ॥३१ ॥

स सिम्ह इव सिंहेन वनमध्ये निपातितः ।
ररास विस्फुरन्नागो मेघो वाय्वाहतो यथा ॥३२॥

तं नागं पातययानं तु नागवक्त्रमसृक्स्रवम्[^३६] ।
बिभेद तोमरेणाशु करेणार्क इवाम्बुदम् ॥३३ ॥

मोचयन्तं तु चरणौ ग्रीवायां दानवोत्तमम ।
तेनैव तोमरेणाथ आजघान विनायकः ॥३४॥

स सुप्रहाराभिहतो गजवक्त्रेण दानवः ।
चक्षार रुधिरं जम्भो निर्ज्जराम्भो गिरिर्यथा ॥३५॥

पुनश्चास्य वधाकाङ्क्षी असिं जग्राह वीर्यवान् ।
तस्योद्यतासेर्नदतश्चिच्छित्सोर्जम्भकन्धराम्[^३७] ॥३६ ॥

असिं कुजम्भश्चिच्छेद गरुडः पन्नगं यथा ।
तञ्चापि सुविकृष्टेन शरेणासृग्भुजा तदा ॥३७॥

कुजम्भो ह्यहनद्बाहौ वज्रेणेन्द्र[^३८] इवाचलम् ।
स दृढाभिहतस्तेन घूर्णितस्सालवृक्षवत्[^३९] ॥ ३८॥

कुजम्भमभिदुद्राव केसरी कुञ्जरं यथा ।
समुच्छ्रितकरो देवस्तं दानवमभिद्रवन् ॥३९॥


स (?)। ३० विक्रम्य - ख. । ३१ संवर्ध्यात्मकरं - ख. । ३२… मुरोद्देशे - क. ख. । ३३ निर्दयं - क. । ३४ नासया - क । ३५ व (ध) र्म्मा - ख. । ३६… वस्रजम् - -ख. । ३७ चिच्छेद जम्भकस्तदा - ख. । ३८ वजेन्द्रेण - क. । ३९… स्तालवृक्षवत् - ख. ।


ऐरावत इवाभाति बलोद्वृत्तो विनायकः ।
व्यंसस्तं[^४०] धावमानं तु कुजम्भवधकाङ्क्षिणम् ॥8.148.४० ॥

ववार स गतोंसेन[^४१] पातयामास तं[^४२] क्षितौ ।
व्यंसमंसेन[^४३] हत्वा तु नागवक्त्रो महाबलः ॥४१ ॥

कुजम्भस्यान्तिकं प्राप[^४४] सिंहस्य शरभो यथा ।
कुजम्भस्तस्य भित्वा तु शरेण करमुद्यतम् ॥४२॥

गदयाभ्यहनन्[^४५] मूर्ध्नि मुद्गरेण च वक्षसि ।
त्रिभिः प्रहारैः स बभौ शोणिताक्तो विनायकः ।
नागायुतसहस्रौजास्त्रिप्रभिन्न इव द्विपः ॥४३ ॥

धरायां[^४६] नासयादाय कुजम्भं तु विनायकः ।
प्रचिक्षेप महावीर्यो यथा भूतबलिं नरः ॥४४॥

कुजम्भे मन्दरप्रख्ये[^४७] विनायकभुजेरिते ।
चुक्रुधुर्दानवाः सर्वे तेर्दयंश्च विनायकम् ॥४५॥

सोर्दितो दानवशतै[^४८] र्नानयुधवितक्षितः ।
चचार देवो दैत्येषु पृषतेषु यथा हरिः ॥४६ ॥

स दन्तैश्चरणैश्चापि शुण्डयाततयापि च ।
ममर्द दानवान् क्रुद्धः कुञ्जरो नड्वलानिव ॥४७॥

ततो गणेशा ह्यपि[^४९] वीक्ष्य दानवैर्विनायकं शस्त्रशतैः परिक्षतम् ।
गृहीतशस्त्रा गजसिंहविक्रमा विमुक्तरावाः शतशोभिदुद्रुवुः ॥४८॥

ततः पुनः शस्त्रसहस्रवेजितं[^५०] शरासिशक्त्यृष्टिनिपातदुःसहम् ।
गणासुराणामसुनाशनं[^५१] महद् बभूव युद्धं हतवाजिकुञ्जरम् ॥४९॥

इति स्कन्दपुराणे गणयुद्धे अष्टचत्वारिंशदुत्तरशततमोध्यायः[^५२]