सनत्कुमार उवाच
उत्थापितेषु दैत्येषु भार्गवेणोग्रकर्मणा ।
नेदुर्देवाः सगन्धर्वा दानवाश्च सहान्धकाः[^१] ॥ १ ॥
ततः शङ्खरवोन्मिश्रा माडुकानकनिस्वनाः[^२] ।
बभूवुः सिंहनादाश्च रथ[^३] हस्तिरवैस्सह ॥ २ ॥
प्रलये - क. । २३ प्राप्ते - ख. । २४ महार्णवाभाः (?) । २५ भीमरूपः - ख. । २६१९५ - ख. ।
महोरगाः - घ. । २ मण्डूकानकनिस्वनाः - ख. । ३ यूथ - घ. ।
हुण्डस्तुहुण्डो जम्भश्च कुजम्भश्च महासुरः ।
शैलशूलशिलाघातैर्युयुधुर्देवतारयः ॥३ ॥
पाकेन्द्रदमनौ तौ च स च कार्तस्वनो बलिः ।
ममर्दुः[^४] प्रमथानीकं वैरं प्रतिचिकीर्षया ॥४ ॥
तेषां वेगं सन्निवार्य प्रमथा अपि दर्पिताः ।
शिलातरुकराः सर्वे दानवानभिदुद्रुवुः ॥ ५ ॥
गणेश्वराः सुराणां तु[^५] तस्मिन्युद्धेति भैरवे ।
श्रूयन्ते धनुषां शब्दा रथशब्दाश्च भैरवाः ॥६ ॥
प्रमथानां जये सक्ता[^६] दानवानां तथापरे ।
चक्रुः कोलाहलं घोरं पक्षवादांस्तथाम्बरे ॥७॥
गर्जतां धावतां चैव बलानां समभूत् स्वनः ।
गर्जतां धावतां चैव समुद्राणामिवात्यये ॥८ ॥
युद्धातिशयमत्ताश्च सिद्धगन्धर्वचारणाः ।
नेदुश्चैवोत्ससर्जुश्च नानाकुसुमसञ्चयान् ॥ ९॥
नानाविधानि पुष्पाणि पतमानानि रेजिरे ।
सिद्धचारणमुक्तानि नक्षत्राणि यथात्यये[^८] ॥ 8.147.१० ॥
देवगन्धर्वतूर्याणि प्रसस्वनुरनेकशः ।
युद्धसंसक्तभावानां विरेमुश्च पुनः पुनः ॥ ११ ॥
विनायकेन स्मृत्वा तु जम्भो युधि पराभवम् ।
तं सक्रोधोभिदुद्राव गजं गज इवापरः ॥ १२ ।
तमापतन्तं दृष्ट्वा तु दानवं जम्भमाहवे ।
सिंहो गजमिव क्रुद्धो रुरुधे स विनायकः ॥ १३ ॥
ऐरावतकरप्रख्यं करं करिनिभाननः ।
उत्क्षिप्य दानवं युद्धे तताड स विनायकः ॥ १४॥
प्रमर्द्दुः - ख, ममर्द - घ. । ५ गणैश्च ?णां सर्वत्र - घ. । ६ प्रमथाञ्जयसंसक्ता - ख. । ७ सम्वमू (भौ?) - क. । ८ घनात्यये - घ. ।
कुम्भयोरन्तरे तं तु जम्भो दानवकुञ्जरः ।
बिभेद शरमुख्येन यथा सिद्धोर्कमण्डलम् ॥ १५ ॥
कुम्भयोरन्तरे[^९] तस्य निममज्ज स वै शरः ।
शृङ्गयोरचलेन्द्रस्य तडित्वानिव चाम्बुदः[^१०] ॥ १६ ॥
स शरारोषितमना[^११] विधूय[^१२] सशिरःकरम्[^१३] ।
कराग्रेण[^१४] महादैत्यमानम्याहत्य सोनदत् ॥ १७॥
प्रस्पन्दमानो जम्भस्तु विनायककराहतः ।
विनायकं शरैरुग्रैरवतस्तार रोषितः[^१५] ॥ १८॥
शलभा इव केदारं भ्रमरा इव पादपम् ।
जम्भेषवस्तदा देवं विविशुस्ते[^१६] विनायकम् ॥१९ ॥
रुधिरं क्षरमाणास्ते त्रिवित्त्रै(? )र्दारिताननाः[^१७] ।
शरा विनायके रेजुः सर्पा मेरुमिवाश्रिताः[^१८] ॥8.147.२० ॥
स जम्भबाणैरतिभिन्नगात्रः[^१९] कुम्भास्रुतावाप्लुतरक्तनेत्रः[^२०] ।
धुन्वन् कराग्रं च शिरश्च देवो दुद्राव जम्भं तृषितो[^२१] यथाम्भः[^२२] ॥२१ ॥
स तं कराग्रेण दृढं दृढेन मुहुः समाहत्य मुहुर्विनद्य ।
रथं गृहीत्वा बलवाँस्तदाजौ चिक्षेप[^२३] साश्वध्वजशस्त्रचक्रम्[^२४] ॥ २२॥
सोद्धूत[^२५] भग्नातिपताककेतुश्च्युतासिशक्त्यृष्टिसहस्रबाणः ।
रथः पपातासुरनन्दनस्य मनोरथस्तीव्र इवाधनस्य ॥२३ ॥
पतीष्यमाण्णं तु[^२६] रथं विहाय प्रह्रादिरिन्द्राम्बुधरप्रभावः ।
स्थितोम्बरे शक्तिधरो रराज स्थितोम्बरे शक्तिधरो यथैव ॥२४॥
स तां सघण्टां कनकावदातां कृशानुलेखामिव दीप्यमानाम् ।
विनायकायासुरराजपुत्रश्चिक्षेप शक्तिं समुदीर्णशक्तिः ॥२५॥
कुचयोरन्तरे - ख. । १० तडित्वन्त इवाम्बुदाः - क । ११ रोपितमना - क. । १२ गणपो घ.। १३ सशरं करम् - घ. । १४ राराग्रेण - घ. । १५… रतक्ष्तदतिरोषितः - घ । १६ स्त घ.। १७ यद्यथनिमृतानकाः - घ । १८ समीपेरुधिराश्रिताः - घ. । १९… दतिभिन्नगात्रो - क. । २० कुम्भसृता वाप्लुतस्क्तनेत्रः? क. । २१ तृषिता - घ । २२ यथास्तः - घ. । २३ जम्भ - घ । २४ चक्रशस्त्रं (स्त्रस्त) - ख. घ. । २५ सोधू. - ख. । २६ स (?) ।
सा खात्पतन्ती भुजगाङ्गनेव शस्त्राङ्गना प्रज्वलमानवक्त्रा ।
शराहता विट्पतिना पपात शक्तिर्यथाग्र्या पुरुषे हताशे ॥२६॥
आश्चर्यभूते प्रमथासुराणां तस्मिन् तथा वर्तति युद्धयज्ञे ।
अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोभ्यगमन्महेशम् ॥२७॥
जयेति सोक्त्वा[^२७] जययोनिमुग्रमुवाच नन्दी कनकावदातम्[^२८] ।
गणेश्वराणां रणकर्म देव देवैः सहेन्द्रैरपि[^२९] दुष्करं यत् ॥२८॥
तद् भार्गवेणाद्य कृतं वृथा न सञ्जीवयानेन हि दानवेन्द्रान् ।
एते हि ते दानवयूथपाला[^३०] यमालयादद्य पुनर्निवृत्ताः ॥२९॥
विद्रावयन्तः प्रमथाँश्चरन्ति नागानिवाजौ शरभाः सदर्पाः ।
यदि ह्यसौ दैत्यवरान्निरस्तानुज्ज्जीवयत्येव पुनः सदैव[^३१] ॥ 8.147.३० ॥
जयः कुतो वै भविता महेश गणेश्वराणां कुत एव शान्तिः ।
वक्रस्थितश्चैष[^३२] न चैष वध्यो[^३३] अयुध्यमानो[^३४] वृषवाह शुक्रः ॥३१॥
नैवाभिनाशोस्ति[^३५] तव प्रसादाद् हतं च तं त्वं कुरुषे प्रसादम्[^३६] ।
भवेत्तवेशान[^३७] मतं स वध्यो यथा जयस्ते समरेनिशं स्यात् ।
तथा कुरुष्वोत्तमबुद्धिबुद्ध[^३८] न ते महेशान समोस्ति बुद्ध्या ॥३२॥
सनत्कुमार उवाच
इत्येवमुक्तः प्रमथेश्वरेण नन्दीश्वरेणेश्वरदेवदेवः ।
उवाच देवः प्रहसस्तदानीं स नन्दिनम्[^३९] सर्वगणेशनायकम् ॥३३ ॥
नन्दिन् प्रयाहि त्वरितोतिमात्रं द्विजेन्द्रबन्धुं[^४०] दितिनन्दनानाम् ।
मध्यात्समुत्पाट्य तमानयस्व यथोपहारं धनवान्[^४१] मनुष्यः ॥३४॥
स एवमुक्तो वृषभध्वजेन वृषध्वजो वै वृषसिंहनादः[^४२] ।
जगाम तूर्णं[^४३] प्रविगाह्य सेनां यत्राभवद् भार्गववंशदीपः ॥३५॥
चोक्त्वा - घ. । २८… वदातः - क.?) । २९ सहस्रैरपि - क. ख । ३० दानवायुद्धपाला - क. ख. । ३१ सुरेषु (श) देव - क. ख. । ३२ वक्त्रः स्थितश्चैव - घ. । ३३ महानुभावः - घ. । ३३ अयुध्यमानो - घ । ३५ नैषां हि ले ( ।) पोस्ति - क. । ३६ हतां च तं त्वं तु कुरु प्रसादम् - क. । ३७ न चेत्तवेशान - क । ३८ युद्धं - ख. । ३९ उवाच देव- प्रहसं नन्दिनं गणनायकं - क. । ४० वर्णं - क. । ४१ बलवान् घ । ४२ नन्दीश्वरोयं भृशसिंहनादः - घ. । ४३ हन्तुं - घ. ।
तं रक्ष्यमाणं दितिनन्दनैस्तैः पाशासिवृक्षोपलशूलहस्तैः ।
विक्षोभ्य दैत्यान् वृषराड् जहार शुक्रं स नन्दी शरभो यथेभम् ॥३६ ॥
स्रस्ताम्बरं तं च्युतभूषणं च विमुक्तकेशं रिपुणा गृहीतम् ।
विमोक्षयिष्यन्त इवाभ्यधावन्[^४४] सुरारयः सिंहरवान् सृजन्तः ॥ ३७॥
ते वज्रशूलेषुपरश्वधानां सचक्रदण्डोपलकम्पनानाम् (?) ।
नन्दीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्राः ॥ ३८ ॥
स भार्गवं प्राप्य गणाधिपाग्र्यो वक्त्राग्निना शस्त्रशतानि दग्ध्वा ।
आयात् स शुक्रन्तु करे गृहीत्वा नन्दीश्वरो दानवयूथपालम्[^४५] ॥३९॥
तेषां च तेषां च ततो बभूव प्रमुक्तशस्त्रास्त्रसुभीमपातः ।
जहीति[^४६] गृह्णेति च वादिनां वै महाहवो देवमनःप्रतोषः ॥8.147.४० ॥
तेनान्तरेणैत्य भवस्य पार्श्व नन्दीश्वरः क्रोधविवर्णनेत्रः ।
अयं स शुक्रो भगवन्नितीशे[^४७] निवेदयामास भवाय शीघ्रम् ॥४१ ॥
जग्राह शुक्रं स च[^४८] देवदेवो यथोपहारं शुचिना प्रदत्तम ।
वक्रस्थितं शुक्रमरिं जगार[^४९] न किञ्चिदुक्त्वा स हि भूतगोप्ता ॥४२॥
ततः पुनर्दानवदैत्यसैन्यं[^५०] गणेश्वरास्तस्य तदा विजघ्नुः ॥४३ ॥
इति स्कन्दपुराणे गणयुद्धे भार्गवहरणे सप्तचत्वारिंशदुत्तरशततमोध्यायः