सनत्कुमार उवाच
अपसृत्य ततो युद्धादन्धकोसुरसत्तमः ।
शुक्रान्तिकमुपागम्य इदमाह नताननः ॥ १ ॥
भगवँस्त्वां समाश्रित्य वयं देवान् सहानुगान् ।
गणयामस्तृणैस्तुल्यान् सदा सत्यं ब्रवीम्यहम् ॥ २ ॥
कुञ्जरा इव सिंहानां गरुडानामिवाहयः ।
अस्माकं बिभ्यति सदा देवा युष्मत्प्रसादतः ॥ ३ ॥
दुर्गं देवगणव्यूहं भवता प्रतिपालिताः ।
विविशुर्निर्भया दैत्या ह्रदमुष्णार्दिता[^१] इव ॥४॥
वयं त्वच्छरणा भूत्वा पाषाणा इव निश्चलाः[^२] ।
स्थित्वा वधाम[^३] निःशङ्का[^४] ब्राह्मणेन्द्रेन्द्रमाहवे ॥ ५॥
आपद्भावेन च वयं पादौ तव सुखप्रदौ ।
सदाराः ससुताश्चैव शुश्रूषामो[^५] दिवानिशम् ॥ ६॥
अभिरक्षस्व सततं स नस्त्वच्छरणागतान्[^६] ।
भयेषु सततं देवान् नारायण इवापरः ॥७॥
पश्य हुण्डं तुहुण्डं च कुजम्भं जम्भमेव च ।
पाकं कार्तस्वनं चैव विपाकं च महासुरम् ॥८॥
ससारथिं - ख । १३ सुमन्दलोचनः - ख. । १४ शुक्लं - ख । १५ सो - क. ख., सोयं (?) । १६ गुरुश्च नः (?) । १७ तं - क । १८१९४ - ख ।
ह्रदन्तृष्णार्दिता - ख. । २ निर्भयाः - ख. । ३ बाधाम - क., चराम - घ. । ४ निःसंस्त्रा - क. । ५ शुश्रूषाम - क. ख. । ६ .. स्त्वं शरणागतान् - घ. ।
तं चेन्द्रदमनं शूरं शूरामरनिपातनम् ।
प्रमथैर्भीमविक्रान्तैः क्रान्तमृत्युव्यथादिभिः[^७] ॥९॥
सूदितान्पतितानेतान् हरिणैरिव चन्दनान्[^८] ।
या पीत्वा कणधूमं वै सहस्रं शरदां पुरा[^९] ।
विद्या हराद्वरा[^१०] प्राप्ता तस्याः कालोयमागतः ॥8.146.१०॥
अथ विद्याफलं तत्ते जीवयानस्य[^११] दानवान्[^१२] ।
पश्यन्तु प्रमथाः सर्वे लोकाश्चोत्फुल्ललोचनाः ॥११॥
त्वया सञ्जीवितान् दृष्ट्वा दानवा दानवान् युधि[^१३] ।
सर्वे मृत्युभयं[^१४] हित्वा[^१५] योत्स्यन्ते[^१६] प्रमथैः सह ॥१२ ॥
-
-
- – – – - – - ।
विद्या किल त्वया सा वै दानवानां हितार्थिना[^१७] ॥१३॥
- – – – - – - ।
-
आराध्य देवं सम्प्राप्ता तां दर्शय[^१८] नमस्तव ।
इत्यन्धकवचः श्रुत्वा स्थिरधीर्भार्गवो मुनिः ॥१४॥
ईषत्स्मितं तदा कृत्वा दानवाधिपमब्रवीत् ।
दानवाधिप तत्सत्यं यत्त्वया प्रेरितं वचः ॥१५॥
विद्योपार्जनमेतद्धि दानवानां मया कृतम् ।
पीत्वा वर्षसहस्र वै कणधूमं सुदुस्सहम् ॥१६॥
एषा प्राप्ता मया विद्या बान्धवानां सुखावहा ।
एतया विद्यया सोहमेतान् दैत्यान् परैर्हतान्[^१९] ॥१७॥
उत्थापयिष्ये सस्यानि म्लानान्यम्बुधरो यथा ।
निर्व्रणान्नीरुजान्[^२०] स्वस्थान् सुप्त्वेव पुनरुत्थितान् ॥१८॥
अस्मिन् मुहूर्ते द्रष्टासि[^२१] दानवान्दानवाधिप ।
उत्थितान्दानवान् दृष्ट्वा हतान् युद्धे गणेश्वरैः ॥१९॥
मूर्ध्याह्युपाधिभिः - घ । ८ चन्दनम् - क. ख. । ९ कालधूमं सुदुःसहं - घ । १० विद्यारधीत्व (त्ये) या - घ. । ११ तस्य - क. । १२ दानवान् - घ. । १३ दानवाधिप - घ. । १४ राज्यं - घ., कष्टं महाभयं (?) - क. ख । १४ कृत्वा - घ. । १६ मुच्यन्त - घ., युध्यन्ते (?) । १७ हितार्थिनी - क । १८ तद्दर्शय - ख. । १९ सुरैर्दत्तान् - ख । २०. .न्निरुजम् - क. । २१ अस्मिन् युद्धे हते द्रष्टा - घ. ।
विस्मयाच्च भयाच्चैव द्रविष्यन्ति गणेश्वराः ।
इत्येवमुक्त्वा स तदा भार्गवो दानवेश्वरम् ॥8.146.२०॥
एकैकं दैत्यमुद्दिश्य विद्यामावर्तयत् कविः ।
आवर्तमानया तत्र विद्यया ब्राह्मणेन ह ॥२१ ॥
उत्तस्थुर्दानवाः सुप्ताः शयनादिव निद्रया ।
वेदार्था इव चाभ्यस्ताः समयेनेव चाम्बुदाः ॥२२ ॥
कालेन प्रलयं[^२२] प्राप्तौ[^२३] यथा वा धूमकेतवः ।
तथा शुक्रेण ते दैत्याः प्रमथैः सन्निषूदिताः ॥२३॥
उत्थाप्यमाना विबभुर्यथा स्वस्थाः पुरातनाः ।
शुक्रेणोज्जीवितान् दृष्टवा दानवान् तान् गणेश्वराः ॥२४॥
आश्चर्यमेतद्देवेशा इति तेन्योन्यमब्रुवन् ।
उज्जीविताँस्तु तान्दृष्ट्वा तुहुण्डाद्यान् महासुरान् ।
विनेदुः पूर्वदेवास्ते जलमत्ता इवाम्बुदाः ॥२५॥
तानुत्थितान्वीक्ष्य सहस्रशोन्ये कुठारवज्राशनिशूलहस्ताः ।
प्रदुद्रुवुः शङ्करकिङ्कराणां बलं समुद्धूतमहार्णवाभम्[^२४]॥२६॥
समागमस्तत्र पुनर्बभूव गणासुराणामतिभीमनादः[^२५] ।
युगात्यये मारुतवेजितानां यथा समुद्योग इवार्णवानाम् ॥२७॥
इति स्कन्दपुराणे गणयुद्धे दैत्योज्जीवने षट्चत्वारिंशदुत्तरशततमोध्यायः[^२६]