र्जानुभिः - ख. । ११ र्विशीर्णैः - ख. । १२ गजेन्द्रास्त्रपरिस्तोमैः - ख । १३ पतितै (?) - ख. । १४ तस्यावहसतो (?) । १५ नागस्य - क ख. । १६ विनायकाय - क ख. । १७ मणिचितागता - क. । १८ कूजन् - ख । १९ शिखा यथा - ख । २० लेखा - क । २१ प्रमाथितौ - ख. । २२ प्रमत्तगङ्गाप्रतिमं - ख ।
सनत्कुमार उवाच
विनायकेन हुण्डे च तुहुण्डे च प्रमापिते[^१] ।
गणेश्वरासुराणां तद्युद्धम्[^२] सङ्कुलमाबभौ ॥ १ ॥
ते नदित्वा यथा मेघा जलमत्ता जलागमे ।
संसाधयन्ते[^३] युध्यन्त[^४]स्त्वरयैव परस्परम् ॥ २ ॥
असृक्स्रवैस्सुरक्ताङ्गास्सन्दष्टदशनच्छदाः ।
अन्योन्यमभिसञ्जघ्नुः शूलशक्त्यृष्टिपट्टिशैः ॥३ ॥
शक्तीनां क्षिप्यमाणानामसीनाञ्च निपात्यताम् ।
श्राव्यतां नामधेयानां धनुषां कूजतामपि ॥४॥
श्रोत्रायासकराञ्छब्दान् निशम्य बलिनां वरः ।
जम्भो भ्रातृवधामर्षी प्रविष्टः प्रामथं बलम् ॥५।
व्याघ्रपूर्वं त्रिशूलेन[^६] जम्भो भित्त्वा गणेश्वरम् ।
ननर्द महिषं हत्त्वा वने वनपतिर्यथा ॥६ ॥
नर्दमानस्य तस्याथ प्रथमो मगपूर्वकः[^८] ।
शिरोभिहत्य शक्त्या तु शेषान्दैत्यान् प्रदुद्रुवे ॥७
गणपापि ततः ख्याताः ख्यातवीर्ययशःश्रुताः ।
प्रतीयुरसुरान् युद्धे शरभाः कुञ्जरानिव ॥८॥
ततोसुरगणेशानां सन्निपातोभवन्महान् ।
सङ्घट्ट इव वज्राणां सह काञ्चनपर्वतैः ॥९ ।
विरोचनश्चान्धकश्च ववर्षतुरमर्षणौ ।
शरवृष्टीस्सुसंरब्धौ जलवृष्टीरिवाम्बुदौ ॥ 8.145.१० ॥
स्वयम्प्रभेण तौ दैत्यौ शरवर्षविसर्जनौ ।
विमुखौ संयुगमुखे कृतौ शरवरार्दितौ[^९] ॥ ११ ॥
स्वयम्प्रभो दानवसैन्यसागरं[^१०] शरैरनेकैर्धनुयन्त्रनिःसृतैः ।
सशोषयद् दीप्तमरीचिमण्डलो यथा विवस्वान् जगतः क्षयेर्णवम् ॥ १२ ॥
निपातिते - ख । २ तु युद्ध - ख । ३ संसाधयन्तो (?) । ४ युध्यन्तो (?) । ५?? मिव - क ख. । ६ व्याघ्रपूर्णसहस्रेण - घ. । ७ सगणो - घ । ८ मृतपूर्वकः - क, । ९ वर्षवरार्दितौ - ख. । १० सागरौ - क । १३ संशोषयन् - क ।
ततोन्धको दानवलोकसारथिः स्वसारथिं[^१२] प्राह विवृत्तलोचनः[^१३] ।
शुक्रं[^१४] प्रति प्रापय सारथे मां स[^१५] नः सदा हुःखहरो गुरुश्च[^१६] ॥ १३ ॥
स तं रथं दानवयूथपास्थितं तथेति च प्रोच्य सदश्वसंयुतम् ।
सं[^१७] प्रापयामास पयोदनिस्वनं स यत्र शुक्रो ग्रहसत्तमो द्विज ॥१४॥
इति स्कन्दपुराणे गणयुद्धे पञ्चचत्वारिंशदुत्तरशततमोध्यायः[^१८]