सनत्कुमार उवाच
तेतिसंरम्भसंयुक्ता[^१] दर्पिताः प्रमथासुराः ।
संसक्तयुद्धं युयुधुः परस्परकृतागसः ॥ १ ॥
शक्त्युल्लालितहस्तेन[^२] कुमारेणावनिञ्जयः ।
कालनेमिः कालकल्पो विशाखं समयोधयत् ॥२ ॥
सोमाप्यायन - ख । ४२ कोपपालश्च - घ. । ४३ नदन् - घ., नयः - ख. । ४४. ला( णाः) - घ.। ४५ सम्प्रतिवार्य - क. । ४६ प्रतस्थुः - ख । ४७ संयुक्तयुद्धं - ख. । ४८ तद् - क. । ४९१४४ - घ.. १९२ - ख ।
संरक्तसंयुना? - क. । २ -शक्त्युल्लोलितहस्तेन - रव्र ।
यश्चादित्यरथाच्चक्रं जहार बलदर्पितः ।
स विप्रचित्तिः शाखेन संसक्तो[^३] युद्धलालसः । ३ ॥
नैगमेषो हयग्रीवं सुग्रीवं दानवाधिपम् ।
योधयामास सोग्नेयो मधुं मधुनिहा यथा ॥४॥
प्रायुध्यन्[^४] नन्दिना जम्भस्तुहुण्डः सोमनन्दिना ।
हुण्डो विनायकं शूरमयोधयत दानवः ॥५॥
महाकायस्तु[^५] कालेन घनेन नमुचिस्सह ।
पिङ्गलाभ्यां गणेशाभ्यामिल्वकः पिल्वकस्स च ॥६ ॥
शङ्कुकर्णेन ह्रादस्तु[^६] ह्यनुह्रादेन विट्पतिः ।
आदित्याप्यायनो रुद्रः संह्रादेन समागतः ॥७॥
कुण्डोदरश्च यक्षेन्द्रो घण्टाकर्णश्व पार्षदः ।
बलेल्वलाभ्यां संसक्तौ सिंहाभ्यामिव कुञ्जरौ ॥८॥
पञ्चाक्षेण बलिस्सार्धं रुद्रेणादित्यवर्चसा ।
बलेर्जनयिता सक्तो वीरभद्रेण दानवः ॥९ ॥
सुमुखेन मयस्सार्ध तारो दुर्मुखमासरत्[^७] ।
मयूरो वज्ररोमाणं कुक्कुटो मुरमागमत् ॥8.144.१० ॥
शेषा ह्यपि गणाध्यक्षाः शेषैर्दैत्यैस्समागताः ।
परस्परेण संसक्ता गजाः सिंहैरिवाहवे ॥ ११ ॥
दह्यतामिव वेणूनां विजने कृष्णवर्त्मना ।
अभूत्[^८] तटतटाशब्दः शस्त्राणां विनिपात्यताम् ॥१२ ॥
मा द्रवीर्द्रव तिष्ठेति पश्य पश्येतिवादिनः ।
अन्योन्यमभिजघ्नुस्ते संसक्ता गणदानवाः ॥ १३ ॥
वपामेदोभिदिग्धाङ्गाश्छिन्नाननकरोरवः ।
दानवाः प्रमथाश्चैव ह्यधावन् शस्त्रमक्षिताः ॥ १४॥
संयुक्तो - ख । ४ प्रयुद्धो - क. ख, प्रयुध्यन् (?) । ५ महाकालस्तु - क. । ६ सह्रादः - क- । ७.., मासदत् - क. । ८ बभौ - क. ख. । ९ चटचटाशब्दः (?) ।
आननैरुरुभिः[^१०] पादैः करदन्तेक्षणैरपि ।
हारैर्विकीर्णैः केयूरैः स्रगम्बरविभूषणैः ॥ १५॥।
गजेन्द्रास्तपरिस्तोमैः[^१२] कम्बलैरायुधैरपि ।
रराज स रणोद्देशो नभस्ताराग्रहैरिव ॥ १६ ॥
नखदन्ताग्रजनितै[^१३]श्चित्रैः क्षतजबिन्दुभिः ।
रक्तचन्दनदिग्धाङ्गी भूमिः स्त्रीरिव निर्बभौ ॥ १७॥
विनायकस्य स शरं तुहुण्डः सूर्यतेजसम् ।
प्रेषयित्वा जहासोच्चैः कोपं तस्य विवर्द्धयन् ॥ १८॥
तस्यापि हसतो[^१४] वक्त्रं बृहत्कुण्डलमण्डितम् ।
असिना तीक्ष्णधारेण चिच्छेद स विनायकः ॥ १९॥
तुहुण्डं निहतं दृष्ट्वा हुण्डो भ्रातृवधातुरः ।
शक्तिं चिक्षेप नागास्ये[^१५] शक्रोशनिमिवाचले ॥ 8.144.२० ॥
विनायकस्य[^१६] सा शक्तिर्मणौ मणिशताचिता[^१७] ।
पतितासृक् पपौ क्रोडाज्[^१८] ज्वलदग्निशिखोपमा[^१९] ॥२१ ॥
विनायकस्य सा क्रोडे लग्ना शक्तिविनिर्बभौ ।
इन्द्रनीलं मणिं प्राप्य रेखा[^२०] चामीकरी यथा ॥ २२ ॥
स हुण्डशक्तिं करपुष्करेण निकृष्य देवो रविरस्मिकल्पाम् ।
तयैव हुण्डं सहसा जघान तस्यानुजः क्रौञ्चमिवावनीध्रम् ॥ २३ ॥
प्रमापितौ[^२१] वीक्ष्य तुहुण्डहुण्डौ विनायकेनारिविनायकेन ।
बलं समस्तं गणनायकानामुन्मत्तगःङ्गाप्रतिमं[^२२] बभूव ॥ २४॥
इति स्कन्दपुराणे गणयुद्धे चतुश्चत्वारिंशदुत्तरशततमोध्यायः