विट्पतिं स - ख. । ३३ र्घनोघैरिव - क. । ३४ सातयित्वा - क., छेदयित्वा - ख. । ३५ विनिःसृतैः - ख. ३६ शराँश्चापं च - क. । ३७ पञ्चधा - घ. । ३८ विट्पतिस्तस्य - घ. । ३९ समरानलो - क. समवालन - घ. । ४० निशितधूम इव - घ. । ४१ मनि - क., मणिरुदारमतिः - घ. । ४२ देवतै - क ४३. र्नदः - क., श्च नदः - ख. । ४४ हृषितमुदीक्ष्य - ख । ४५ संहदमनो - क., दहनो - ख ४६१९१ - ख. ।
सनत्कुमार उवाच
कार्तस्वनमरिं हत्वा कार्तस्वरमहेषुणा[^१] ।
ददाह विट्पतिर्दैत्याननलः शलभानिव[^२] ॥१ ॥
स व्यायत[^३] धनुर्देवश्चारुकाञ्चनकुण्डलः ।
जगर्जेषू[^४]न्दानवेषु सृजन्[^५] सूर्यः करानिव[^६] ॥ २ ॥
ते काञ्चनमयैः पुखैगरुडाङ्गरुहच्छदैः ।
दैवसृष्टा[^७] इवानर्था दानवेष्वपतञ्छराः[^८] ॥ ३ ॥
छिन्नानना[^९] श्छिन्नकराश्छिन्नपादोदरोरवः ।
दानवाः शतशः पेतुः क्षितौ क्षितिधरा यथा[^१०] ॥४॥
पृष्ठेष्वभिहताः केचित् केचित् पार्श्वेषु दारिताः ।
नयनेष्वपरे विद्धा भ्रमन्त्यन्धा इवापरे[^११] ॥५ ॥
मृगानिव च शार्दूलो गरुडः पन्नगानिव ।
कृतघ्नः सुकृतानीव तमांसीव दिवाकरः ॥६ ॥
तथा[^१२] तानसुरान्देवो विट्पतिः पावकार्दनः ।
अनाशयत तीक्ष्णाग्रैः शरैर्वज्रानलाननैः ॥७ ॥
विरथाः पातितगजाः शरातुरतुरङ्गमाः ।
धावन्ते दानवास्त्रस्ता विट्पतेः शरवेजिताः ॥८ ॥
अथ दृष्ट्वासुरबलं मुक्तशस्त्रयशोम्बरम् ।
भग्नं विट्पतिना युद्धे गजेनेव यथा वनम् ॥९॥
ये ये बलोत्कटास्तत्र प्रख्याताश्च सुरेतराः[^१३] ।
अभिद्रुता[^१४] विट्पतिना सिंहेनेवेतरे मृगाः[^१५] ॥ 8.143.१० ॥
प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ[^१६] ।
जम्भो विरोचनो बाणो बलिश्चैव स[^१७] दानवः ॥११ ॥
कार्तस्वनमहेषुणा - क. । २. न्शलभानिव पावकः - घ. । ३ सो - क. ख., सोप्यनिन्द्य - घ. । ४ ससर्जेष्ठं (षू?) - घ. । ५ व्रजन् - घ । ६ सूर्यकरानिव - क ख. । ७ देवसृष्टा - क. । ८ दानवेषु पतन्सुराः - घ. । ९ भिन्नानना - क. । १० इव (?) । ११ न्यपतन्दानवा रणे - क., भ्रमन्त्यर्धा इवाहवे - घ. । १२ अथ - ख. । १३?.. श्चासुरोत्तमाः - घ. । १४ ते विद्रुता - घ. । १५ सिंहनेव यथा मृगः (?), श्वैव (?) ॥ १६ संह्रादशिनिभास्कराः - ख. ।… शिनिबाष्कलाः - घ. । १७ चः - ख. ।
अजको[^१८] नमुचिर्व्यंसः इल्वको विल्वकस्तथा[^१९] ।
विप्रचित्तिस्तुहुण्डश्च हुण्डो वक्रश्च दानवः ॥ १२ ॥
मयस्तारस्तारकाक्षो[^२०] विद्युन्माली प्रभञ्जनः ।
अरिष्टश्चैव[^२१] रिष्टश्च अञ्जनो[^२२] रूशभः[^२३] कुभः ॥१३ ॥
कालश्च कालनेमिश्च कालकावदनस्तथा[^२४] ।
सम्पातिरिल्वलश्चापि बलो[^२५] नरक एव च ॥ १४’ ।
मधुकैटभयोः पुत्रौ धुन्धुर्मूकश्च दानवः ।
हस्तिर्विपाक पाकश्च विकर्णः शम्भुरेव च ॥ १५ ॥
उद्यतैर्बहुभिः शस्त्रैरुल्कापातसमप्रभैः ।
विट्पतिं दुद्रुवुः क्रुद्धाः सिंहा इव विनेदुषः ॥ १६ ॥
ते तं शूलोपलै[^२६] र्हुण्डैः सायकैश्चाशनिस्वनैः[^२७] ।
निजध्नुर्भीमनिनदाः पयोदा इव पर्वतम् ॥। १७॥
तोयवृष्टिं यथा मेघा विसृजन्त्यनिलेरिताः[^२८] ।
ससृजुर्दानवा[^२९] देवे[^३०] शरवृष्टिं[^३१] तथैव ते[^३२] ॥ १८ ॥
तां शस्त्रवृष्टिमामित्रीममित्रगणमर्दनः ।
अच्छिनद्विट्पतिस्तूर्ण सम्प्रीतिं कलहो यथा ॥ १९॥
ततस्ते दनुदैतेया वियत्स्था[^३३] विटपतिं प्रति ।
नर्दमाना[^३४] इवाम्भोदा गिरिवर्षं[^३५] सृजन्त्युत ॥8.143.२० ॥
अन्ये च मन्दराग्रस्था मन्दारस्रगिवास्थिताः[^३६] ।
मुमुचुः सालसरलान्[^३७] देवदारूँश्च विट्पतौ ॥२१ ॥
सोम्बरस्थैःक्षितिस्थैश्च दानवैर्दढमर्दितः[^३८] ।
विट्पतिर्विमुखो जज्ञे तोयसिक्त इवानलः ॥ २२ ॥
विट्पतिं विमुखं दृष्टवा दानवैः पर्वतैश्चितम्[^३९] ।
नमर्षेयु[^४०] भीमबलाः प्रख्याता ये गणेश्वराः ॥२३ ॥
अर्जको - ख. । १९ पिल्वकतथा - ख । २० यमस्तारस्तारकाक्षो - ख. । २१ श्च वरिष्ठश्च - क. । २२ कुञ्जरो - घ । २३ औशनः - ख. । २४… नन्दनस्तथा - घ. । २५ बली - क. । २६ शूलोपलहलै - ख शूलोपलगणै - घ. । २७ पाशनिस्वनैः - घ. । २८. लोज्झिताः - क., लेङ्खिताः (?) । २९ विसृजुर्दानवा - क.। ३० देवो - क । ३१ शरवर्षं - घ. । ३२ च - ख. । ३३ रणस्था - घ । ३४ नदमाना - घ. । ३५ अग्निवर्षं - घ. । ३६ मन्दरस्रगिवास्थिताः - क. थ. । ३७ कालसरलान्? - ख. । ३८ र्भृशमर्दिनः घ. । ३९,. श्चिरम् - ख. । ४० ममर्षु (?) ।
सोमनन्दी च नन्दी च नन्दिषेणश्च पार्षदः ।
प्रभामयो वीरभद्रः सूर्याप्यायन[^४१] एव च ॥२४॥
पञ्चाक्षः कोपपालश्च[^४२] त्रिनेत्रः पिङ्गलेक्षणः ।
राक्षसः पिङ्गलश्चैव श्मशाननिनलयोन्नदः[^४३] ॥ २५॥
घण्टाकर्णः शङ्कुकर्णः स च कुण्डोदरो बली ।
ऐरावतमुखश्चैव अन्नपालः कपालधृक् ।
प्रलम्बपीवरकरः स्वयमेव विनायकः ॥ २६॥
एते चान्ये च गणपाः शतशः शब्दिता गणैः[^४४] ।
विविशुर्दानवान्दग्धुं द्रुमाञ्छुष्कानिवानलाः ॥ २७॥
ते विट्पतिं सम्परिवार्य[^४५] सर्वे गजेन्द्रपोता इव गर्जमानाः ।
त्रिशूलचक्रेषुभुशुण्डिहस्ता गणेश्वरा युद्धधियः प्रतीयुः[^४६] ॥२८॥
तेषां च तेषां च ततो बभूव संसक्तयुद्धं[^४७] समरोद्धतानाम् ।
मदोद्धतानां सहवासितानां महागजानामिव काननेषु ॥२९॥
तं[^४८] दानवानां सगणेश्वराणां मुख्याहवं वीक्ष्य दिवौकसास्ते ।
चेरुर्नभो दिव्यविमानयानैः ससिंहनादाः सतलाभिघाताः ॥8.143.३०॥
इति स्कन्दपुराणे गणयुद्धे त्रिचत्वारिंशदुत्तरशततमोध्यायः[^४९]